सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥ १९ ॥
अथ शिष्याचार्ययोः प्रमादकृतान्यायेन विद्याग्रहणप्रतिपादननिमित्तदोषप्रशमनार्थेयं शान्तिरुच्यते — सह नौ आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशनेन । कः ? स एव परमेश्वरः उपनिषत्प्रकाशितः । किञ्च, सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैव आवां विद्याकृतं वीर्यं सामर्थ्यं करवावहै निष्पादयावहै । किञ्च, तेजस्विनौ तेजस्विनोरावयोः यत् अधीतं तत्स्वधीतमस्तु । अथवा, तेजस्वि नौ आवाभ्यां यत् अधीतं तदतीव तेजस्वि वीर्यवदस्त्वित्यर्थः । मा विद्विषावहै शिष्याचार्यावन्योन्यं प्रमादकृतान्यायाध्ययनाध्यापनदोषनिमित्तं द्वेषं मा करवावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्वदोषोपशमनार्थम् ॥