निरस्ताशेषविशेषव्यापिब्रह्मात्मप्रतिपत्त्या प्रभिन्नसमस्ताविद्यादिग्रन्थेः जीवत एव ब्रह्मभूतस्य विदुषो न गतिर्विद्यते,
‘अत्र ब्रह्म समश्नुते’ (क. उ. २ । ३ । १४) इत्युक्तत्वात्
‘न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति श्रुत्यन्तराच्च । ये पुनर्मन्दब्रह्मविदो विद्यान्तरशीलिनश्च ब्रह्मलोकभाजः ये च तद्विपरीताः संसारभाजः, तेषामेष गतिविशेष उच्यते प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतये । किञ्चान्यत् , अग्निविद्या पृष्टा प्रत्युक्ता च । तस्याश्च फलप्राप्तिप्रकारो वक्तव्य इति मन्त्रारम्भः । तत्र — शतं च शतसङ्ख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनिःसृताः नाड्यः सिराः ; तासां मध्ये मूर्धानं भित्त्वा अभिनिःसृता निर्गता एका सुषुम्ना नाम । तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयेत् । तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अमरणधर्मत्वमापेक्षिकम् —
‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ (वि. पु. २ । ८ । ९७) इति स्मृतेः — ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान्ब्रह्मलोकगतान् । विष्वङ् नानागतयः अन्या नाड्यः उत्क्रमणे उत्क्रमणनिमित्तं भवन्ति संसारप्रतिपत्त्यर्था एव भवन्तीत्यर्थः ॥