केनोपनिषत्पदभाष्यम्
प्रथमः खण्डः
आनन्दगिरिटीका (केन पदभाष्य)
 
‘केनेषितम्’ इत्याद्योपनिषत्परब्रह्मविषया वक्तव्येति नवमस्याध्यायस्यारम्भः । प्रागेतस्मात्कर्माण्यशेषतः परिसमापितानि, समस्तकर्माश्रयभूतस्य च प्राणस्योपासनान्युक्तानि, कर्माङ्गसामविषयाणि च । अनन्तरं च गायत्रसामविषयं दर्शनं वंशान्तमुक्तं कार्यम् । सर्वमेतद्यथोक्तं कर्म च ज्ञानं च सम्यगनुष्ठितं निष्कामस्य मुमुक्षोः सत्त्वशुद्ध्यर्थं भवति । सकामस्य तु ज्ञानरहितस्य केवलानि श्रौतानि स्मार्तानि च कर्माणि दक्षिणमार्गप्रतिपत्तये पुनरावृत्तये च भवन्ति । स्वाभाविक्या त्वशास्त्रीयया प्रवृत्त्या पश्वादिस्थावरान्ता अधोगतिः स्यात् । ‘अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्’ (छा. उ. ५ । १० । ८) इति श्रुतेः ; ‘प्रजा ह तिस्रोऽत्यायमीयुः’ (ऐ. आ. २ । १ । १), ( ऋ. मं. ८ । १०१ । १४) इति च मन्त्रवर्णात् । विशुद्धसत्त्वस्य तु निष्कामस्यैव बाह्यादनित्यात्साध्यसाधनसम्बन्धादिहकृतात्पूर्वकृताद्वा संस्कारविशेषोद्भवाद्विरक्तस्य प्रत्यगात्मविषया जिज्ञासा प्रवर्तते । तदेतद्वस्तु प्रश्नप्रतिवचनलक्षणया श्रुत्या प्रदर्श्यते ‘केनेषितम्’ इत्याद्यया । काठके चोक्तम् ‘पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्’ (क. उ. २ । १ । १) इत्यादि । ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इत्याद्याथर्वणे च । एवं हि विरक्तस्य प्रत्यगात्मविषयं विज्ञानं श्रोतुं मन्तुं विज्ञातुं च सामर्थ्यमुपपद्यते, नान्यथा । एतस्माच्च प्रत्यगात्मब्रह्मविज्ञानात्संसारबीजमज्ञानं कामकर्मप्रवृत्तिकारणमशेषतो निवर्तते, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति मन्त्रवर्णात् , ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) ‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्यादिश्रुतिभ्यश्च । कर्मसहितादपि ज्ञानादेतत्सिध्यतीति चेत् , न ; वाजसनेयके तस्यान्यकारणत्ववचनात् । ‘जाया मे स्यात्’ (बृ. उ. १ । ४ । १७) इति प्रस्तुत्य ‘पुत्रेणायं लोको जय्यो नान्येन कर्मणा, कर्मणा पितृलोको विद्यया देवलोकः’ (बृ. उ. १ । ५ । १६) इत्यात्मनोऽन्यस्य लोकत्रयस्य कारणत्वमुक्तं वाजसनेयके । तत्रैव च पारिव्राज्यविधाने हेतुरुक्तः ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति । तत्रायं हेत्वर्थः — प्रजाकर्मतत्संयुक्तविद्याभिर्मनुष्यपितृदेवलोकत्रयसाधनैरनात्मलोकप्रतिपत्तिकारणैः किं करिष्यामः । न चास्माकं लोकत्रयमनित्यं साधनसाध्यमिष्टम् , येषामस्माकं स्वाभाविकोऽजोऽजरोऽमृतोऽभयो न वर्धते कर्मणा नो कनीयान्नित्यश्च लोक इष्टः । स च नित्यत्वान्नाविद्यानिवृत्तिव्यतिरेकेणान्यसाधननिष्पाद्यः । तस्मात्प्रत्यगात्मब्रह्मविज्ञानपूर्वकः सर्वैषणासंन्यास एव कर्तव्य इति । कर्मसहभावित्वविरोधाच्च प्रत्यगात्मब्रह्मविज्ञानस्य । न ह्युपात्तकारकफलभेदविज्ञानेन कर्मणा प्रत्यस्तमितसर्वभेददर्शनस्य प्रत्यगात्मब्रह्मविषयस्य सहभावित्वमुपपद्यते, वस्तुप्राधान्ये सति अपुरुषतन्त्रत्वाद्ब्रह्मविज्ञानस्य । तस्माद्दृष्टादृष्टेभ्यो बाह्यसाधनसाध्येभ्यो विरक्तस्य प्रत्यगात्मविषया ब्रह्मजिज्ञासेयम् ‘केनेषितम्’ इत्यादिश्रुत्या प्रदर्श्यते । शिष्याचार्यप्रश्नप्रतिवचनरूपेण कथनं तु सूक्ष्मवस्तुविषयत्वात्सुखप्रतिपत्तिकारणं भवति । केवलतर्कागम्यत्वं च दर्शितं भवति ॥

यच्छ्रोत्रादेरधिष्ठानं चक्षुर्वागाद्यगोचरम् ।
स्वतोऽध्यक्षं परं ब्रह्म नित्यमुक्तं भवामि तत् ॥ १ ॥

केनेषितमित्यादिकां तलवकारशाखोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारोऽहंप्रत्ययगोचरस्याऽऽत्मनः संसारित्वादसंसारिब्रह्मभावस्योपनिषत्प्रतिपाद्यस्यासम्भवान्निर्विषयत्वादव्याख्येयत्वमित्याशङ्क्याहङ्कारसाक्षिणः संसारित्वग्राहकप्रमाणाविषयत्वाद्ब्रह्मत्वप्रतिपादने विरोधासम्भवात्सविषयत्वाद्व्याख्येयत्वं प्रतिजानीते –

केनेषितमित्याद्येति ।

कस्तर्हिनवमस्याध्यायस्याष्टाध्याय्या सह नियतपूर्वोत्तरभावानुपपत्तिलभ्यः सम्बन्ध इत्याशङ्क्य हेतुहेतुमद्भावलक्षणसम्बन्धं दर्शयितुं वृत्तमनुवदति –

प्रागेतस्मादित्यादिना ।

कर्माङ्गसाम पाञ्चभक्तिकं साप्तभक्तिकं च तद्विषयाण्युपासनानि पृथिव्यादिदृष्ट्योक्तानि । प्राणदृष्ट्या गायत्रसामोपासनं च ।

शिष्याचार्यसन्तानाविच्छेदो वंशस्तदवसानेन ग्रन्थेन कार्यरूपमेव वस्तूक्तं चेत्तर्हि प्राणाद्युपासनसहितस्य कर्मणः संसारफलत्वाद्ब्रह्मज्ञानानुपयोगात्कथं हेतुहेतुमद्भावः सम्बन्धोऽभिधित्सित इत्याशङ्क्य नित्यकर्मणां तावज्ज्ञानोपयोगित्वं कथयति –

सर्वमेतदिति ।

काम्यानां प्रतिषिद्धानां च फलं तद्दोषदर्शनेन वैराग्यार्थं कथयति –

सकामस्य त्विति ।

एतयोः पथोर्ज्ञानकर्णणोर्मध्ये केनापि मार्गेण ये न प्रवृत्तास्ते प्रतिषिद्धानुष्ठायिन इत्यर्थः ।

जायस्व म्रियस्वेति ।

पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । तिस्रः प्रजा जरायुजाण्डजोद्भिज्जलक्षणाः । पितृयाणदेवयानलक्षणमार्गद्वयगमनमतीत्य कष्टामेव गतिमीयुः प्राप्ता इत्यर्थः ।

एवं कर्मफलमुक्त्वा ततो विरक्तस्य विशुद्धसत्त्वस्य ब्रह्मज्ञानेऽधिकार इति दर्शयन्हेतुहेतुमद्भावमाह –

विशुद्धसत्त्वस्य त्विति ।

साध्यसाधनसम्बन्धाद्विरक्तस्येति सम्बन्धः ।

तत्र निमित्तस्यादृष्टस्यानियत्वमाह –

इह कृतादिति ।

कर्मफलाद्विरक्तस्य ब्रह्मजिज्ञासा भवतीत्यत्रान्यसंवादमाह –

काठके चेति ।

आवृत्तचक्षुरिति ।

साध्यसाधनभावादुपरतकरणग्रामः चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् ।

अन्वयव्यतिरेकसिद्धत्वं चाऽऽह –

एवं हीति ।

नान्यथेति ।

अविरक्तस्य बर्हिर्विषयाक्षिप्तचेतस आत्मजिज्ञासैवानुपपन्ना कथञ्चिज्जाताऽपि न फलावसाना स्याच्छूद्रयागादिवदित्यर्थः ।

यद्यप्येवमुपनिषदः कर्मकाण्डसम्बन्धोऽस्ति तथाऽप्युपनिषज्जन्यज्ञानस्य निष्प्रयोजनत्वान्नोपनिषदो व्याख्यारम्भः सम्भवतीत्याशङ्क्याऽऽह –

एतस्माच्चेति ।

समुच्चयवादिनोऽभिप्रायं शङ्कते –

कर्मसहितादपीति ।

एकाध्ययनविधिगृहीतत्वात्कर्मज्ञानकाण्डयोरेकं फलं वाच्यं ततः कर्मसमुच्चिताज्ज्ञानात्सनिदानसंसारनिवृत्तिलक्षणं फलं सिध्यतीति न कर्मसु विरक्तस्योपनिषदारम्भ इत्यर्थः ।

अध्ययनविधिपरिग्रहमात्रेण कर्मकाण्डस्य न मोक्षफलत्वं कल्पयितुं शक्यं फलान्तरावगमविरोधादित्याह –

न वाजासनेयक इति ।

किञ्च यदि श्रुतेः कर्मसमुच्चितज्ञानं विधित्सितं स्यात्तदा पारिव्राज्यं नोपदिश्येत श्रुत्या हेत्वभिधानेन, ततो न समुच्चयः श्रुत्यर्थ इत्याह –

तत्रैव चेति ।

प्रजाशब्दस्योपलक्षणार्थत्वमादाय हेत्वर्थमाह –

तत्रायमिति ।

किं करिष्यामो न किमप्यात्मकामत्वादेवेति शेषः ।

तत्फलं भुक्त्वा क्रमेण मोक्षसम्भवात्किमिति प्रजादिष्वनादर इत्याशङ्क्याह –

न चेति ।

इष्टोऽप्ययमात्मलोकः कर्मणा विना न लभ्यते फलत्वान्मोक्षस्यान्यथास्वभावमुक्तत्वे बन्धमोक्षावस्थयोरविशेषापातादित्याशङ्क्याऽऽह –

स चेति ।

कर्ममोक्षे कार्यस्योत्पाद्यादेरसम्भवात्सम्यग्ज्ञानादविद्यानिवृत्त्या फलप्रसिद्ध्युपपत्तेर्न कर्मकार्यो मोक्ष इत्यर्थः । ब्रह्मज्ञानस्यानुभवावसानतासिद्धये परोक्षनिश्चयपूर्वकः संन्यासः कर्तव्यः । सिद्धे चानुभाववसाने ब्रह्मात्मज्ञाने स्वभावप्राप्तः संन्यास इति द्रष्टव्यम् ।

इतश्च न कर्मब्रह्मात्मतानिश्चयसमुच्चयः शास्त्रार्थ इत्याह –

कर्मसहभावित्वेति ।

ननु कर्मवद्ब्रह्मज्ञानस्य विधितोऽनुष्ठेयत्वाद्विधेश्च नियोज्यादिभेदापेक्षित्वात्कथं सर्वभेददर्शनप्रत्यस्तमय उच्यते ब्रह्मज्ञाने सतीत्याशङ्क्याऽऽह –

वस्तुप्राधान्ये सतीति ।

विधिजन्यप्रयत्नभाव्यो हि विधिविषय उच्यते ज्ञानं न तथेति तद्विधेरसिद्धिरित्यर्थः ।

यस्मत्प्रत्यगात्मनो ब्रह्मतानिश्चयस्य परोक्षस्यापरोक्षस्य वा कर्मणा समुच्चयो न प्रामाणिकस्तस्मादित्युपसंहरति –

तस्मादिति ।

प्रश्नप्रतिवचनरूपेण प्रतिपादनस्य तात्पर्यमाह –

शिष्याचार्येति ।

आपनेया प्रापणीया हन्तव्या वा न भवतीत्यर्थः । साधिष्ठं शोभनतमं फलं प्रापयतीत्यर्थः ।