केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ॥ १ ॥
‘नैषा तर्केण मतिरापनेया’ (क. उ. १ । २ । ९) इति श्रुतेश्च । ‘आचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति’ (छा. उ. ४ । ९ । ३) ‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४ । ३४) इत्यादिश्रुतिस्मृतिनियमाच्च कश्चिद्गुरुं ब्रह्मनिष्ठं विधिवदुपेत्य प्रत्यगात्मविषयादन्यत्र शरणमपश्यन्नभयं नित्यं शिवमचलमिच्छन्पप्रच्छेति कल्प्यते — केनेषितमित्यादि । केन इषितं केन कर्त्रा इषितम् इष्टमभिप्रेतं सत् मनः पतति गच्छति स्वविषयं प्रतीति सम्बध्यते । इषेराभीक्ष्ण्यार्थस्य गत्यर्थस्य चेहासम्भवादिच्छार्थस्यैवैतद्रूपमिति गम्यते । इषितमिति इट्प्रयोगस्तु च्छान्दसः । तस्यैव प्रपूर्वस्य नियोगार्थे प्रेषितमित्येतत् । तत्र प्रेषितमित्येवोक्ते प्रेषयितृप्रेषणविशेषविषयाकाङ्क्षा स्यात् — केन प्रेषयितृविशेषेण, कीदृशं वा प्रेषणमिति । इषितमिति तु विशेषणे सति तदुभयं निवर्तते, कस्येच्छामात्रेण प्रेषितमित्यर्थविशेषनिर्धारणात् । यद्येषोऽर्थोऽभिप्रेतः स्यात् , केनेषितमित्येतावतैव सिद्धत्वात्प्रेषितमिति न वक्तव्यम् । अपि च शब्दाधिक्यादर्थाधिक्यं युक्तमिति इच्छया कर्मणा वाचा वा केन प्रेषितमित्यर्थविशेषोऽवगन्तुं युक्तः । न, प्रश्नसामर्थ्यात् ; देहादिसङ्घातादनित्यात्कर्मकार्याद्विरक्तः अतोऽन्यत्कूटस्थं नित्यं वस्तु बुभुत्समानः पृच्छतीति सामर्थ्यादुपपद्यते । इतरथा इच्छावाक्कर्मभिर्देहादिसङ्घातस्य प्रेरयितृत्वं प्रसिद्धमिति प्रश्नोऽनर्थक एव स्यात् । एवमपि प्रेषितशब्दस्यार्थो न प्रदर्शित एव । न ; संशयवतोऽयं प्रश्न इति प्रेषितशब्दस्यार्थविशेष उपपद्यते । किं यथाप्रसिद्धमेव कार्यकरणसङ्घातस्य प्रेषयितृत्वम् , किं वा सङ्घातव्यतिरिक्तस्य स्वतन्त्रस्येच्छामात्रेणैव मनआदिप्रेषयितृत्वम् , इत्यस्यार्थस्य प्रदर्शनार्थं केनेषितं पतति प्रेषितं मन इति विशेषणद्वयमुपपद्यते । ननु स्वतन्त्रं मनः स्वविषये स्वयं पततीति प्रसिद्धम् ; तत्र कथं प्रश्न उपपद्यते इति, उच्यते — यदि स्वतन्त्रं मनः प्रवृत्तिनिवृत्तिविषये स्यात् , तर्हि सर्वस्यानिष्टचिन्तनं न स्यात् । अनर्थं च जानन्सङ्कल्पयति । अभ्यग्रदुःखे च कार्ये वार्यमाणमपि प्रवर्तत एव मनः । तस्माद्युक्त एव केनेषितमित्यादिप्रश्नः । केन प्राणः युक्तः नियुक्तः प्रेरितः सन् प्रैति गच्छति स्वव्यापारं प्रति । प्रथम इति प्राणविशेषणं स्यात् , तत्पूर्वकत्वात्सर्वेन्द्रियप्रवृत्तीनाम् । केन इषितां वाचम् इमां शब्दलक्षणां वदन्ति लौकिकाः । तथा चक्षुः श्रोत्रं च स्वे स्वे विषये क उ देवः द्योतनवान् युनक्ति नियुङ्क्ते प्रेरयति ॥