सर्पाद्यध्यासाधिष्ठानरज्जुवच्छ्रोत्राद्यध्यासाधिष्ठानचैतन्यं श्रोत्रस्य श्रोत्रमित्यादिना लक्षितं तर्हि रज्जुवदधिष्ठानत्वाद्विषयत्वप्रसङ्ग इति शङ्कां निवर्तयति –
यस्माच्छ्रोत्रादेरपीत्यादिना ।
अध्यस्तस्य ह्यधिष्ठानमेव स्वरूपमाद्यन्तमध्येषु तदव्यभिचारात्स्वरूपविषयता च न पदार्थधर्मस्ततोऽप्रयोजकोऽयं हेतुरित्यर्थः ।
अविषयत्वात्तर्हि शास्त्राचार्योपदेश्यत्वमपि न स्यादित्याशङ्क्य नास्त्येव वास्तवमित्याह –
इन्द्रियमनोभ्यां हीति ।
ब्राह्मणोऽयमित्यादि जातितः कृष्णोऽयमित्यादि गुणतः पाचकोऽयमित्यादि क्रियातो राजपुरुष इत्यादि सम्बन्धविशेषत उपदिश्यते । ब्रह्म तु न जात्यादिमत् । “केवलो निर्गुणश्च”(श्वे. उ. ६ । ११) इत्यादिश्रुतेः ।
अज्ञेनाऽऽगमस्य भेदेन प्रतिपन्नत्वात्तद्दृष्ट्याऽऽचार्यस्याप्यविद्यालेशोत्थदृष्ट्या व्यावहारिक उपदेश उपपद्यत आगमतस्तस्यैवाऽऽत्मानं ब्रह्मरूपेण लक्षयितुं योग्यतातिशयवत्त्वादित्यभिप्रेत्याह –
अत्यन्तमेवेति ।
वाक्यस्य पदार्थान्व्याख्याय तात्पर्यं दर्शयितुमुपक्रमते –
यद्विदितं तदल्पमित्यादिना ।
यद्वेदितुरन्यत्तद्विदितमविदितं चेति द्वयी गतिः । ततो विदितत्वाविदितत्वनिषेधेन वेदितुः स्वरूपं ब्रह्मेत्यत्र तात्पर्यमागमस्येत्याह –
न ह्यन्यस्येति ॥ ३ ॥