केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४ ॥
‘न विद्मो न विजानीमो यथैतदनुशिष्यात्’ (के. उ. १ । ३) इति अत्यन्तमेवोपदेशप्रकारप्रत्याख्याने प्राप्ते तदपवादोऽयमुच्यते । सत्यमेवं प्रत्यक्षादिभिः प्रमाणैर्न परः प्रत्याययितुं शक्यः ; आगमेन तु शक्यत एव प्रत्याययितुमिति तदुपदेशार्थमागममाह — अन्यदेव तद्विदितादथो अविदितादधीति । अन्यदेव पृथगेव तत् यत्प्रकृतं श्रोत्रादीनां श्रोत्रादीत्युक्तमविषयश्च तेषाम् । तत् विदितात् अन्यदेव हि । विदितं नाम यद्विदिक्रिययातिशयेनाप्तं विदिक्रियाकर्मभूतम् । क्वचित्किञ्चित्कस्यचिद्विदितं स्यादिति सर्वमेव व्याकृतं विदितमेव ; तस्मादन्यदेवेत्यर्थः । अविदितमज्ञातं तर्हीति प्राप्ते आह — अथो अपि अविदितात् विदितविपरीतादव्याकृतादविद्यालक्षणाद्व्याकृतबीजात् । अधि इति उपर्यर्थे ; लक्षणया अन्यदित्यर्थः । यद्धि यस्मादधि उपरि भवति, तत्तस्मादन्यदिति प्रसिद्धम् । यद्विदितं तदल्पं मर्त्यं दुःखात्मकं चेति हेयम् । तस्माद्विदितादन्यद्ब्रह्मेत्युक्ते त्वहेयत्वमुक्तं स्यात् । तथा अविदितादधीत्युक्तेऽनुपादेयत्वमुक्तं स्यात् । कार्यार्थं हि कारणमन्यदन्येनोपादीयते । अतश्च न वेदितुरन्यस्मै प्रयोजनायान्यदुपादेयं भवतीत्येवं विदिताविदिताभ्यामन्यदिति हेयोपादेयप्रतिषेधेन स्वात्मनोऽनन्यत्वात् ब्रह्मविषया जिज्ञासा शिष्यस्य निर्वर्तिता स्यात् । न ह्यन्यस्य स्वात्मनो विदिताविदिताभ्यामन्यत्वं वस्तुनः सम्भवतीत्यात्मा ब्रह्मेत्येष वाक्यार्थः ; ‘अयमात्मा ब्रह्म’ (बृ. उ. ४ । ४ । ५) ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) ‘यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इत्यादिश्रुत्यन्तरेभ्यश्चेति । एवं सर्वात्मनः सर्वविशेषरहितस्य चिन्मात्रज्योतिषो ब्रह्मत्वप्रतिपादकस्य वाक्यार्थस्याचार्योपदेशपरम्परया प्राप्तत्वमाह — इति शुश्रुमेत्यादि । ब्रह्म चैवमाचार्योपदेशपरम्परयैवाधिगन्तव्यं न तर्कतः प्रवचनमेधाबहुश्रुततपोयज्ञादिभ्यश्च, इति एवं शुश्रुम श्रुतवन्तो वयं पूर्वेषाम् आचार्याणां वचनम् ; ये आचार्याः नः अस्मभ्यं तत् ब्रह्म व्याचचक्षिरे व्याख्यातवन्तः विस्पष्टं कथितवन्तः तेषामित्यर्थः ॥

उक्तवाक्यार्थे लौकिकतार्किकमीमांसकप्रतिपत्तिविरोधमाशङ्क्य परिहरति विदितादन्यत्वप्रपञ्चनाय –

अन्यदेव तद्विदितादित्यादिना ।