केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्यनेन वाक्येन आत्मा ब्रह्मेति प्रतिपादिते श्रोतुराशङ्का जाता — कथं न्वात्मा ब्रह्म । आत्मा हि नामाधिकृतः कर्मण्युपासने च संसारी कर्मोपासनं वा साधनमनुष्ठाय ब्रह्मादिदेवान्स्वर्गं वा प्राप्तुमिच्छति । तत्तस्मादन्य उपास्यो विष्णुरीश्वर इन्द्रः प्राणो वा ब्रह्म भवितुमर्हति, न त्वात्मा ; लोकप्रत्ययविरोधात् । यथान्ये तार्किका ईश्वरादन्य आत्मेत्याचक्षते, तथा कर्मिणोऽमुं यजामुं यजेत्यन्या एव देवता उपासते । तस्माद्युक्तं यद्विदितमुपास्यं तद्ब्रह्म भवेत् , ततोऽन्य उपासक इति । तामेतामाशङ्कां शिष्यलिङ्गेनोपलक्ष्य तद्वाक्याद्वा आह — मैवं शङ्किष्ठाः । यत् चैतन्यमात्रसत्ताकम् , वाचा — वागिति जिह्वामूलादिष्वष्टसु स्थानेषु विषक्तमाग्नेयं वर्णानामभिव्यञ्जकं करणम् , वर्णाश्चार्थसङ्केतपरिच्छिन्ना एतावन्त एवंक्रमप्रयुक्ता इति ; एवं तदभिव्यङ्ग्यः शब्दः पदं वागित्युच्यते ; ‘अकारो वै सर्वा वाक्सैषास्य स्पर्शान्तःस्थोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति’ (ऐ. आ. २ । ३ । ६) इति श्रुतेः । मितममितं स्वरः सत्यानृते एष विकारो यस्याः तया वाचा पदत्वेन परिच्छिन्नया करणगुणवत्या — अनभ्युदितम् अप्रकाशितमनभ्युक्तम् । येन ब्रह्मणा विवक्षितेऽर्थे सकरणा वाक् अभ्युद्यते चैतन्यज्योतिषा प्रकाश्यते प्रयुज्यत इत्येतत् । यत् ‘वाचो ह वाक्’ (के. उ. १ । २) इत्युक्तम् , ‘वदन्वाक्’ (बृ. उ. १ । ४ । ७) ‘यो वाचमन्तरो यमयति’ (बृ. उ. ३ । ७ । १०) इत्यादि च वाजसनेयके । ‘या वाक् पुरुषेषु सा घोषेषु प्रतिष्ठिता कश्चित्तां वेद ब्राह्मणः’ इति प्रश्नमुत्पाद्य प्रतिवचनमुक्तम् ‘सा वाग्यया स्वप्ने भाषते’ ( ? ) इति । सा हि वक्तुर्वक्तिर्नित्या वाक् चैतन्यज्योतिःस्वरूपा, ‘न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २६) इति श्रुतेः । तदेव आत्मस्वरूपं ब्रह्म निरतिशयं भूमाख्यं बृहत्त्वाद्ब्रह्मेति विद्धि विजानीहि त्वम् । यैर्वागाद्युपाधिभिः ‘वाचो ह वाक्’ ‘चक्षुषश्चक्षुः’ ‘श्रोत्रस्य श्रोत्रं मनसो मनः’ (के. उ. १ । २) ‘कर्ता भोक्ता विज्ञाता नियन्ता प्रशासिता’ ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । ७) इत्येवमादयः संव्यवहारा असंव्यवहार्ये निर्विशेषे परे साम्ये ब्रह्मणि प्रवर्तन्ते, तान्व्युदस्य आत्मानमेव निर्विशेषं ब्रह्म विद्धीति एवशब्दार्थः । नेदं ब्रह्म यदिदम् इत्युपाधिभेदविशिष्टमनात्मेश्वरादि उपासते ध्यायन्ति । तदेव ब्रह्म त्वं विद्धि इत्युक्तेऽपि नेदं ब्रह्म इत्यनात्मनोऽब्रह्मत्वं पुनरुच्यते नियमार्थम् अन्यब्रह्मबुद्धिपरिसङ्ख्यानार्थं वा ॥

अष्टसु स्थानेष्विति ।

“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥”(वासि़ष्ठशिक्षा)
इत्येतेष्वाकाशप्रदेशेष्वाश्रितमित्यनेनाऽऽकाशोपादानत्वं सूचितम् ।

आग्नेयमिति ।

अग्निदेवताकमित्यर्थः ।

न केवलं करणं वागुच्यते वर्णाश्चोच्यन्त इत्याह –

वर्णाश्चेति ।

तदुक्तम् – “यावन्तो यादृशा ये च यदर्थप्रतिपादकाः ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥”(न्यायमञ्जरी)
गौरिति पदं गकारौकारविसर्जनीया एव क्रमविशेषावच्छिन्ना इति मीमांसकाद्यनुसारेणोक्तम् ।

स्फोटवादिनोऽनुसारेणाऽऽह –

तदभिव्यङ्ग्य इति ।

स्फुट्यते व्यज्यते वर्णैरिति स्फोटः पदादिबुद्धिप्रमाणकः । एकरूपाया बुद्धेरनेकवर्णावलम्बनत्वासम्भवादिति भावः ।

उक्ते वाक्यार्थे श्रुतिसम्मतिमाह –

अकार इति ।

अकारप्रधानोङ्कारोपलक्षिता स्फोटाख्या चिच्छक्तिः सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना । कादयो मावसानाः स्पर्शा, यरलवा अन्तस्थाः, शषसहा ऊष्माणस्तैः क्रमविशेषावच्छिन्नैर्व्यज्यमाना नानारूपा विवर्तते । मितमृगादि पादावसाननियताक्षरत्वात् । अमितं यजुराद्यनियताक्षरपादावसानत्वात् । स्वरः साम । गीतिप्राधान्यात् । सत्यं यथादृष्टार्थवचनम् । अनृतं तद्विपरीतम् । करणं वागिन्द्रियं गुण उपसर्जनं यस्याः सा करणगुणवती पुरुषेषु चेतनेषु या वाक्शक्तिः सा घोषेषु वर्णेषु प्रतिष्ठिता तद्व्यङ्ग्यत्वादित्यर्थः ।

तदेवेत्येवकारस्य कृत्यमाह –

यैर्वागाद्युपाधिभिरिति ।

नियमार्थमिति ।

पक्षेऽनात्मन्यपि ब्रह्मबुद्धौ प्राप्तायामात्मैव ब्रह्मेति बुद्धिं नियन्तुमित्यर्थः । अन्यस्मिन्नुपास्ये या ब्रह्मबुद्धिस्तन्निवृत्त्यर्थं वा पुनरब्रह्मत्वमुच्यत इत्यर्थः । सर्वं स्पष्टमिति न व्याख्यातम् ॥ ५ - ६ – ७ - ८ ॥

इति प्रथमखण्डः ॥