वेदितुः स्वरूपत्वे ब्रह्मणो मा भूद्विषयत्वम् । स्वरूपत्वे मानाभावात् अतिरिक्तस्य विषयत्वे किमनुपपन्नमित्याशङ्क्याऽऽह –
सर्वस्य हीति ।
यदिशब्दप्रयोगे किं कारणमित्यत आह –
कदाचिदिति ।
अक्षिणि शरीरस्य प्रतिच्छाया दृश्यत इति प्रसिद्धवदुपदेशाच्छरीरमात्मेति प्रतिपन्नः । छायाया अव्यभिचारित्वं बुद्ध्वेत्यर्थः ।
सकृदिति ।
“य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. १ । ७ । ५) इत्येकवारमुक्तम् , “य एष स्वप्ने महीयमानश्चरति”(छा. उ. ८ । १० । १) इति द्वितीयेनोक्तम् , “तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः”(छा. उ. ८ । ११ । १) इति त्रिरुक्तमप्यात्मानमप्रतिपद्यमान इन्द्रो ब्रह्मचर्येणाधर्मादिदोषक्षयमपेक्ष्य चतुर्थे पर्याये “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य”(छा. उ. ८ । ३ । ४) इत्यत्र प्रथमपर्यायोक्तमेव ब्रह्म प्रतिपन्नवानित्यर्थः ।
अर्भकाणि चेति ।
अल्पानि ।
न स्वतो रूपमस्ति ब्रह्मण इत्युक्तं तदाक्षिपति –
ननु येनैवेति ।
केन तर्हि विशेषेण ब्रह्मणो निरूपणमित्याकाङ्क्षायां चैतन्यरूपेणेत्याह –
चैतन्यमिति ।
भूतानां समस्तानां व्यस्तानां वा देहाकारपरिणतानां चैतन्यं धर्मो न भवति बहिरनुपलम्भात्तद्धर्मत्वे रूपादिवत्तत्साधकत्वाभावप्रसङ्गाच्च । तथा श्रोत्रादीनामपि भौतिकत्वाविशेषाच्चैतन्यं धर्मो न भवतीति पारिशेष्यात्स्वतन्त्रचैतन्यं ब्रह्मणो रूपम् ।
तत्र श्रुतिसम्मतिमाह –
तथा चोक्तमिति ।
सत्यमेवं चैतन्यं पारमार्थिकं ब्रह्मरूपं श्रुतितात्पर्यगम्यं तथाऽपि यदुक्तं ब्रह्मणो रूपं कथं नास्तीति तदुपाधिद्वारेणैव ब्रह्मणः शब्देन निरूपणं निर्देशनं न स्वत इत्यभिप्रेत्य, अन्तः करणाद्यभिव्यक्तिमुपलभ्य हि यदुपाध्यभिव्यक्तिनिमित्तं चैतन्यं तद्ब्रह्मेति निर्दिश्यत इत्यर्थः ।
ननूपाधिरुपहितसम्बद्धो भवति चैतन्यस्य त्वसङ्गस्य कथं देहादिरूपाधिरित्याशङ्क्याऽऽह –
तदनुकारित्वादित्यादिना ।
यथा जले कम्पमाने सविता कम्पत इव भिद्यमाने भिद्यत इवेति मिथ्यातद्धर्मभागित्वात्सवितुर्जलमुपाधिरित्युच्यते न तु सम्बन्धाद्दूरस्थयोः संयोगाद्ययोगात् । तद्वद्देहादेर्वृद्धिसङ्कोचच्छेदादिषु दाहादिषु नाशेषु चेतन्यस्य मिथ्यादेहधर्मभागित्वाद्देहादेरुपाधित्वमभिधीयते इत्यर्थः ।
ननु न स्वतश्चैतन्यतया निरूप्यते ब्रह्म कथं तर्हि तदनुभव इत्याशङ्क्याऽऽह –
स्वतस्त्विति ।
अविषयतयैव विषयानुपरक्तचित्स्फुरणं ब्रह्मानुभव इत्यर्थः ।
तर्कतश्चेति ।
वेद्यत्वे घटादिवदनात्मत्वादिप्रसङ्गादित्यादितर्कत आत्मनो वेद्यं ब्रह्म न भवत्येवेति निर्धार्याज्ञानसंशयाद्यभावेन स्वानुभवं कृत्वेत्यर्थः ॥ ९ – १ ॥