कथमिति, शृणु — न अह मन्ये सु वेदेति, नैवाहं मन्ये सु वेद ब्रह्मेति । नैव तर्हि विदितं त्वया ब्रह्मेत्युक्ते आह — नो न वेदेति वेद च । वेद चेति च—शब्दात् न वेद च । ननु विप्रतिषिद्धं नाह मन्ये सु वेदेति, नो न वेदेति, वेद च इति । यदि न मन्यसे सु वेदेति, कथं मन्यसे वेद चेति । अथ मन्यसे वेदैवेति, कथं न मन्यसे सुवेदेति । एकं वस्तु येन ज्ञायते, तेनैव तदेव वस्तु न सु विज्ञायत इति विप्रतिषिद्धं संशयविपर्ययौ वर्जयित्वा । न च ब्रह्म संशयितत्वेन ज्ञेयं विपरीतत्वेन वेति नियन्तुं शक्यम् । संशयविपर्ययौ हि सर्वत्रानर्थकरत्वेनैव प्रसिद्धौ । एवमाचार्येण विचाल्यमानोऽपि शिष्यो न विचचाल,
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्याचार्योक्तागमसम्प्रदायबलात् उपपत्त्यनुभवबलाच्च ; जगर्ज च ब्रह्मविद्यायां दृढनिश्चयतां दर्शयन्नात्मनः । कथमित्युच्यते — यः यः कश्चित् नः अस्माकं सब्रह्मचारिणां मध्ये तत् मदुक्तं वचनं तत्त्वतो वेद, सः तत् ब्रह्म वेद । किं पुनस्तद्वचनमित्यत आह — नो न वेदेति वेद च इति । यदेव
‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्युक्तम् , तदेव वस्तु अनुमानानुभवाभ्यां संयोज्य निश्चितं वाक्यान्तरेण नो न वेदेति वेद च इत्यवोचत् आचार्यबुद्धिसंवादार्थं मन्दबुद्धिग्रहणव्यपोहार्थं च । तथा च गर्जितमुपपन्नं भवति ‘यो नस्तद्वेद तद्वेद’ इति ॥