केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३ ॥
शिष्याचार्यसंवादात्प्रतिनिवृत्य स्वेन रूपेण श्रुतिः समस्तसंवादनिर्वृत्तमर्थमेव बोधयति — यस्यामतमित्यादिना । यस्य ब्रह्मविदः अमतम् अविज्ञातम् अविदितं ब्रह्मेति मतम् अभिप्रायः निश्चयः, तस्य मतं ज्ञातं सम्यग्ब्रह्मेत्यभिप्रायः । यस्य पुनः मतं ज्ञातं विदितं मया ब्रह्मेति निश्चयः, न वेदैव सः न ब्रह्म विजानाति सः । विद्वदविदुषोर्यर्थोक्तौ पक्षाववधारयति — अविज्ञातं विजानतामिति, अविज्ञातम् अमतम् अविदितमेव ब्रह्म विजानतां सम्यग्विदितवतामित्येतत् । विज्ञातं विदितं ब्रह्म अविजानताम् असम्यग्दर्शिनाम् , इन्द्रियमनोबुद्धिष्वेवात्मदर्शिनामित्यर्थः ; न त्वत्यन्तमेवाव्युत्पन्नबुद्धीनाम् । न हि तेषां विज्ञातमस्माभिर्ब्रह्मेति मतिर्भवति । इन्द्रियमनोबुद्ध्युपाधिष्वात्मदर्शिनां तु ब्रह्मोपाधिविवेकानुपलम्भात् , बुद्ध्याद्युपाधेश्च विज्ञातत्वात् विदितं ब्रह्मेत्युपपद्यते भ्रान्तिरित्यतः असम्यग्दर्शनं पूर्वपक्षत्वेनोपन्यस्यते — विज्ञातमविजानतामिति । अथवा हेत्वर्थ उत्तरार्धोऽविज्ञातमित्यादिः ॥

अथवा हेत्वर्थ इति ।

लोेके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्यविज्ञातं भवति । अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीयर्थः ॥ ११ - ३ ॥