केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इत्यवधृतम् । यदि ब्रह्मात्यन्तमेवाविज्ञातम् , लौकिकानां ब्रह्मविदां चाविशेषः प्राप्तः । ‘अविज्ञातं विजानताम्’ (के. उ. २ । ३) इति च परस्परविरुद्धम् । कथं तु तद्ब्रह्म सम्यग्विदितं भवतीत्येवमर्थमाह — प्रतिबोधविदितं बोधं बोधं प्रति विदितम् । बोधशब्देन बौद्धाः प्रत्यया उच्यन्ते । सर्वे प्रत्यया विषयीभवन्ति यस्य, स आत्मा सर्वबोधान्प्रतिबुध्यते सर्वप्रत्ययदर्शी चिच्छक्तिस्वरूपमात्रः प्रत्ययैरेव प्रत्ययेष्वविशिष्टतया लक्ष्यते ; नान्यद्द्वारमन्तरात्मनो विज्ञानाय । अतः प्रत्ययप्रत्यगात्मतया विदितं ब्रह्म यदा, तदा तत् मतं तत्सम्यग्दर्शनमित्यर्थः सर्वप्रत्ययदर्शित्वे चोपजननापायवर्जितदृक्स्वरूपता नित्यत्वं विशुद्धस्वरूपत्वमात्मत्वं निर्विशेषतैकत्वं च सर्वभूतेषु सिद्धं भवेत् , लक्षणभेदाभावाद्व्योन्न इव घटगिरिगुहादिषु । विदिताविदिताभ्यामन्यद्ब्रह्मेत्यागमवाक्यार्थ एवं परिशुद्ध एवोपसंहृतो भवति । ‘दृष्टेद्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता’ (बृ. उ. ३ । ४ । २) इति हि श्रुत्यन्तरम् । यदा पुनर्बोधक्रियाकर्तेति बोधक्रियालक्षणेन तत्कर्तारं विजानातीति बोधलक्षणेन विदितं प्रतिबोधविदितमिति व्याख्यायते, यथा यो वृक्षशाखाश्चालयति स वायुरिति तद्वत् ; तदा बोधक्रियाशक्तिमानात्मा द्रव्यम् , न बोधस्वरूप एव । बोधस्तु जायते विनश्यति च । यदा बोधो जायते, तदा बोधक्रियया सविशेषः । यदा बोधो नश्यति, तदा नष्टबोधो द्रव्यमात्रं निर्विशेषः । तत्रैवं सति विक्रियात्मकः सावयवोऽनित्योऽशुद्ध इत्यादयो दोषा न परिहर्तुं शक्यन्ते । यदपि काणादानाम् आत्ममनःसंयोगजो बोध आत्मनि समवैति ; अत आत्मनि बोद्धृत्वम् , न तु विक्रियात्मक आत्मा ; द्रव्यमात्रस्तु भवति घट इव रागसमवायी । अस्मिन्पक्षेऽप्यचेतनं द्रव्यमात्रं ब्रह्मेति ‘विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २७) ‘प्रज्ञानं ब्रह्म’ इत्याद्याः श्रुतयो बाधिताः स्युः । आत्मनो निरवयवत्वेन प्रदेशाभावात् नित्यसंयुक्तत्वाच्च मनसः स्मृत्युत्पत्तिनियमानुपपत्तिरपरिहार्या स्यात् । संसर्गधर्मित्वं चात्मनः श्रुतिस्मृतिन्यायविरुद्धं कल्पितं स्यात् । ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६), (बृ. उ. ४ । ५ । १५) ‘असक्तं सर्वभृत्’ (भ. गी. १३ । १४) इति हि श्रुतिस्मृती । न्यायश्च — गुणवद्गुणवता संसृज्यते, नातुल्यजातीयम् । अतः निर्गुणं निर्विशेषं सर्वविलक्षणं केनचिदप्यतुल्यजातीयेन संसृज्यत इत्येतत् न्यायविरुद्धं भवेत् । तस्मात् नित्यालुप्तज्ञानस्वरूपज्योतिरात्मा ब्रह्मेत्ययमर्थः सर्वबोधबोद्धृत्वे आत्मनः सिध्यति, नान्यथा । तस्मात् ‘प्रतिबोधविदितं मतम्’ इति यथाव्याख्यात एवार्थोऽस्माभिः । यत्पुनः स्वसंवेद्यता प्रतिबोधविदित्यस्य वाक्यस्यार्थो वर्ण्यते, तत्र भवति सोपाधिकत्वे आत्मनो बुद्ध्युपाधिस्वरूपत्वेन भेदं परिकल्प्यात्मनात्मानं वेत्तीति संव्यवहारः — ‘आत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) ‘स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम’ (भ. गी. १० । १५) इति । न तु निरुपाधिकस्यात्मन एकत्वे स्वसंवेद्यता परसंवेद्यता वा सम्भवति । संवेदनस्वरूपत्वात्संवेदनान्तरापेक्षा च न सम्भवति, यथा प्रकाशस्य प्रकाशान्तरापेक्षाया न सम्भवः तद्वत् । बौद्धपक्षे स्वसंवेद्यतायां तु क्षणभङ्गुरत्वं निरात्मकत्वं च विज्ञानस्य स्यात् ; ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्’ (बृ. उ. ४ । ३ । ३०) ‘नित्यं विभुं सर्वगतम्’ (मु. उ. १ । १ । ६) ‘स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयः’ (बृ. उ. ४ । ४ । २५) इत्याद्याः श्रुतयो बाध्येरन् । यत्पुनः प्रतिबोधशब्देन निर्निमित्तो बोधः प्रतिबोधः यथा सुप्तस्य इत्यर्थं परिकल्पयन्ति, सकृद्विज्ञानं प्रतिबोध इत्यपरे ; निर्निमित्तः सनिमित्तः सकृद्वासकृद्वा प्रतिबोध एव हि सः । अमृतत्वम् अमरणभावं स्वात्मन्यवस्थानं मोक्षं हि यस्मात् विन्दते लभते यथोक्तात्प्रतिबोधात्प्रतिबोधविदितात्मकात् , तस्मात्प्रतिबोधविदितमेव मतमित्यभिप्रायः । बोधस्य हि प्रत्यगात्मविषयत्वं च मतममृतत्वे हेतुः । न ह्यात्मनोऽनात्मत्वममृतत्वं भवति । आत्मत्वादात्मनोऽमृतत्वं निर्निमित्तमेव । एवं मर्त्यत्वमात्मनो यदविद्यया अनात्मत्वप्रतिपत्तिः । कथं पुनर्यथोक्तयात्मविद्ययामृतत्वं विन्दत इत्यत आह — आत्मना स्वेन रूपेण विन्दते लभते वीर्यं बलं सामर्थ्यम् । धनसहायमन्त्रौषधितपोयोगकृतं वीर्यं मृत्युं न शक्नोत्यभिभवितुम् , अनित्यवस्तुकृतत्वात् ; आत्मविद्याकृतं तु वीर्यमात्मनैव विन्दते, नान्येनेत्यतोऽनन्यसाधनत्वादात्मविद्यावीर्यस्य तदेव वीर्यं मृत्युं शक्नोत्यभिभवितुम् । यत एवमात्मविद्याकृतं वीर्यमात्मनैव विन्दते, अतः विद्यया आत्मविषयया विन्दतेऽमृतम् अमृतत्वम् । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४)इत्याथर्वणे । अतः समर्थो हेतुः अमृतत्वं हि विन्दत इति ॥

ज्ञातब्रह्मत्वादर्शने ब्रह्मास्मीति कथं व्यवहरतीति चेत्किमनयेष्टकावाहकानां रत्नपेटकचिन्तया । ज्ञातस्य व्यवहाराङ्गत्वं वदतोऽपि वस्तुप्रकाशस्य व्यवहाराङ्गत्वस्येष्टत्वाद्वास्तवज्ञाततानपेक्षत्वादित्यव्युत्पन्नव्युत्पादनाय चोद्यमुद्भावयति –

अविज्ञातमित्यादिना ।

नीलपीताद्याकाराणां बुद्धिविकाराणां जडानां यच्चैतन्यव्याप्तत्वेनाजडवदवभासस्तं साक्षिणमुपलक्ष्य सोऽहमात्मा ब्रह्मेति महावाक्यादविषयतयैव यो वेत्ति स ब्रह्मविदुच्यते । तेन नाविशेषप्रसङ्गादिचोद्यावकाश इत्याह –

प्रतिबोधविदितमिति ।

प्रत्ययेष्वविशिष्टतयाऽनुगतरूपेणेत्यर्थः ।

येन चित्स्वरूपेणाहमत्र साक्षी तस्य सर्वत्राविशेषान्नैकस्मिन्नेव देहेऽहं साक्षी भेदोत्पत्त्यादीनां च साक्ष्यगतत्वेन साक्षिण एकत्वनित्यत्वादिकमपि सिध्यतीत्याह –

सर्वप्रत्ययदर्शित्वे चेति ।

विदितत्वाविदितत्वयोः साक्ष्यगतत्वेन तदन्यत्वमप्यस्मिन्पक्षे सम्भवतीत्याह –

विदिताविदिताभ्यामन्यदिति ।

एकदेशिव्याख्यानमुद्भाव्य दूषयति –

यदा पुनरित्यादिना ।

अग्निसंयोगाद्घटे लौहित्यवन्मनःसंयोगादसमवायिकारणादात्मंन्यचेतने चैतन्यमुत्पद्यत इत्येतन्न केवलं श्रुतिविरुद्धमसम्भावितं चेत्याह –

आत्मनो निरवयवत्वेनेति ।

प्रदेशवता प्रदेशवतो लोके संयोगो दृष्टः आत्मनो निष्प्रदेशत्वान्मनसा संयोगो न सम्भवतीत्युक्तं तदयुक्तम् , युगपत्सर्वमूर्तसंयोगित्वं सर्वगतत्वमात्मनस्ततो मनसः संयोगोऽपीति चेत्तत्राऽऽह –

नित्येति ।

ग्रहणकालादन्यकाल एव स्मृतीनां क्रमेणैवोत्पत्तिरिति नियमो वैशेषिकस्य नोपपद्यते ग्रहणकालेऽपि स्मृत्युत्पत्तिप्रसङ्गाच्च संस्कारवदात्ममनःसंयोगस्याविशेषादित्यर्थः ।

सर्वगतत्वं च सर्वाव्यवधानमात्रं न तु संयोगित्वं कल्पनीयमित्याह –

संसर्गधर्मित्वं चेति ।

न्यायविरुद्धमित्युक्तं तत्स्फुटयति –

न्यायश्चेति ।

एकदेशिव्याख्यानान्तरमनूद्य दूषयति –

यत्पुनरित्यादिना ।

यद्वेद्यं तद्वेदितुर्वेदनाच्च भिन्नं यथा घटादीति व्याप्तिविरोधात्स्वसंवेद्यत्वं वास्तवं नोपपद्यते ततो बुद्ध्यादावात्मभावमारोप्याऽऽत्मना तस्य वेद्यत्वं वाच्यमिति निरुपाधिकस्वरूपस्थितिर्न स्यादित्याह –

तत्र भवति सोपाधिकत्वमिति ।

काणादस्य स्वसंवेद्यत्वानङ्गीकारबलात्परवेद्यत्वं प्रसज्यत इत्यपि न वाच्यमित्याह –

संवेदनरूपत्वादिति ।

बौद्धेन स्वसंवेद्यं विज्ञानमिष्टं तव किं न स्यादित्यत आह –

बौद्धपक्ष इति ।

प्रत्यक्षस्य वर्तमानावभासकत्वात्क्षणान्तरविशिष्टे स्वात्मनि क्षणान्तरविशिष्टं तदेव विज्ञानं प्रत्यक्षं न सम्भवति । अतः स्वात्मनि स्वयमेव विज्ञानं प्रत्यक्षं चेद्वर्तमानक्षणमात्रं सत्त्वं स्यात् । स्वसंवेद्यत्वेन साक्षिणोऽनङ्गीकारान्निरात्मत्वं च स्यादेव तच्छ्रुतिविरुद्धमित्यर्थः ।

प्रतिबोधवाक्यस्यार्थान्तरं शङ्कते –

यत्पुनरिति ।

ब्रह्माहमस्मीति चिन्तयतो यावच्चेतोव्यापृतिस्तावत्सम्प्रज्ञातसमाधिर्निवृत्ते चेतोव्यापारे य परमानन्दसाक्षात्कारः सौषुप्तानन्दसाक्षात्कारवत्सोऽसम्प्रज्ञातसमाधिः प्रतिबोध उच्यते । तदुक्तं वार्तिककृता – “अपरायत्तबोधो हि निदिध्यासनमुच्यते” इति । अथवाऽक्रियब्रह्मात्मत्वानुभवे सति प्रमातृत्वानुपपत्तौ पुनर्ज्ञानासम्भवात्सद्योमुक्तिकारणं सकृद्विज्ञानं प्रतिबोध उच्यते । “सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् ।
अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥”(बृह.वा. ३.३.७१)

पक्षद्वयेऽप्यरुचिमाह –

निर्निमित्त इति ।

अयमाशयः – न तावदविद्यानिवर्तकस्याऽऽगन्तुकस्य बोधस्य निर्निमित्तत्वं सम्भवति । कार्यस्य सनिमित्तत्वव्याप्तेः । सौषुप्तस्यापि न निर्निमित्तत्वमविद्यायाः पूर्वपूर्वनिरोधावस्थासंस्कारोद्भूततादृशवृत्त्यभिव्यक्तचैतन्यस्य तत्र सुखसाक्षात्कारोपगमात् । अत एव वृत्तिविशिष्टस्य विनाशे स्मरणमुपपद्यते । अत्रापि तर्ह्यावृत्तिसंस्कारप्रचयान्निवृत्तेऽपि चित्ते ब्रह्माभिव्यक्तं स्यादिति चेन्न । तथा सत्यप्रमात्वेन विनष्टपुत्रापरोक्षादिवाविद्यानिवृत्तिर्न स्यात् । शाब्दज्ञानसंवादात्प्रमात्वे परतन्त्रत्वप्रसङ्गः शब्दमूलत्वात्प्रमात्वे न निर्निमित्ततेति । प्रवृत्तफलकर्मप्रतिबन्धाद्वर्तमानप्रमातृत्वाभासानिवृत्तेरसकृद्बोधोऽपि सम्भवतीति पक्षद्बयेऽपि नाऽऽदरः । सर्वथाऽपि परमात्मा प्रतिबोध एव बोधं प्रति बोधं प्रति साक्षितया भातीति ।

लक्ष्यपदार्थविवेचनपूर्वकं महावाक्योत्थं परमात्माऽस्मीति ज्ञानमेव सम्यग्ज्ञानं यस्मात्तत एवामृतत्वं लभत इत्याह –

अमृतत्वमिति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –

बोधस्य हीति ।

बुद्धिपरिणामस्य सर्वस्य भासकं प्रत्यक्चैतन्यं परमात्मा न भवति किन्तु ब्रह्माण्डाद्बहिः स्थितस्तत्प्राप्तिश्च मोक्ष इत्याशङ्क्याह –

न हीति ।

अनात्मप्राप्तेः कर्मफलवदनित्यत्वेनामृतत्वप्रसिद्धिर्न स्यादित्यर्थः ।

यद्युक्तदोषपरिहारायौपाधिकभेदेन भिन्नत्वं ब्रह्मणः स्वतस्त्वात्मत्वमेवेति मन्यसे तत्राऽऽह –

आत्मत्वादिति ।

ब्रह्मण आत्मत्वादेवाऽऽत्मनोऽमृतत्वं स्वभावत एव सिद्धम् ।

तर्हि विद्याया आनर्थक्यं प्राप्तमित्याशङ्क्याऽऽह –

एवं मर्त्यत्वमिति ।

अविद्यया देहाद्यात्मत्वप्रतिपत्तिरिति यत्तदात्मनो मर्त्यत्वं तन्निवृत्तिर्विद्याफलमित्यर्थः । वीर्यं विद्याकृतमुक्तं मुक्तत्वे दार्ढ्यं तच्च स्वाभाविकमेव मुक्तत्वं वास्तवं सर्वशरीराद्यसंसर्गित्वान्नभोवन्निरवयवत्वादेव । ततश्च नित्यमुक्त एवाहमित्यवष्टम्भो विद्याकृतं बलमित्यर्थः ॥ १२ - ४ ॥