उत्तरग्रन्थस्य प्रतीकमादाय तात्पर्यमाह –
ब्रह्मेत्यादिना ।
अभिप्रेतं तात्पर्यमाह –
वक्ष्यमाणेति ।
उत्तमाधिकारिगोचरमविषयब्रह्मात्मताज्ञानं पूर्वत्रोक्तमुत्तरत्र तु मन्दाधिकारिगोचरं सगुणब्रह्मोपासनं वक्ष्यते । तत्परं वक्ष्यमाणं सर्ववाक्यजातं, स्पष्टविधिदर्शनात् । अतोऽत्रैव तात्पर्यमर्थान्तरतात्पर्यप्रदर्शनं तु सम्भावनामात्रेणेति द्रष्टव्यम् । ईश्वरस्य सेतवो मर्यादा वर्णाश्रमादिधर्मास्तद्भेदकान् । जगतः स्थेम्ने स्थैर्याय । स्वयोगमाहात्म्यनिर्मितेन सत्त्वरजस्तमसां त्रयाणां गुणानां योगो युक्तिर्घटनं माया तन्माहात्म्येन निर्मितं तेनेत्यर्थः ॥ १४ - १ ॥ १५ - २ ॥ तृतीतखण्डशेषभाष्यं स्पष्टमतो न विवृतमिति ॥ १६ - ३ ॥ १७ - ४ ॥ १८ - ५ ॥ १९ - ६ ॥ २० - ७ ॥ २१ - ८ ॥ २२ - ९ ॥ २३ - १० ॥ २४ - ११ ॥ २५ - १२ ॥ २६ - १ ॥ २७ - २ ॥ २८ - ३ ॥ विद्युतः सकाशाद्विद्योतनं कृतवदित्यनुपपन्नं ब्रह्मणः स्वयञ्ज्योतिष्ट्वात्पराधीनप्रकाशानुपपत्तेर्विद्युत्सम्बन्धि द्योतनं कृतवदित्यनुपपन्नमन्याश्रयस्य विद्योतनस्यान्यकर्तृकत्वानुपपत्तेरतो यथाश्रुतासम्भवादन्यत्र तात्पर्यं वक्तव्यमित्यर्थः ।