केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥ १ ॥
ब्रह्म ह देवेभ्यो विजिग्ये । ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) इत्यादिश्रवणात् यदस्ति तद्विज्ञातं प्रमाणैः यन्नास्ति तदविज्ञातं शशविषाणकल्पमत्यन्तमेवासद्दृष्टम् । तथेदं ब्रह्माविज्ञातत्वादसदेवेति मन्दबुद्धीनां व्यामोहो मा भूदिति तदर्थेयमाख्यायिका आरभ्यते । तदेव हि ब्रह्म सर्वप्रकारेण प्रशास्तृ देवानामपि परो देवः, ईश्वराणामपि परमेश्वरः, दुर्विज्ञेयः, देवानां जयहेतुः, असुराणां पराजयहेतुः ; तत्कथं नास्तीत्येतस्यार्थस्यानुकूलानि ह्युत्तराणि वचांसि दृश्यन्ते । अथवा ब्रह्मविद्यायाः स्तुतये । कथम् ? ब्रह्मविज्ञानाद्धि अग्न्यादयो देवा देवानां श्रेष्ठत्वं जग्मुः । ततोऽप्यतितरामिन्द्र इति । अथवा दुर्विज्ञेयं ब्रह्मेत्येतत्प्रदर्श्यते — येनाग्न्यादयोऽतितेजसोऽपि क्लेशेनैव ब्रह्म विदितवन्तस्तथेन्द्रो देवानामीश्वरोऽपि सन्निति । वक्ष्यमाणोपनिषद्विधिपरं वा सर्वम् । ब्रह्मविद्याव्यतिरेकेण प्राणिनां कर्तृत्वभोक्तृत्वाद्यभिमानो मिथ्येत्येतद्दर्शनार्थं वा आख्यायिका, यथा देवानां जयाद्यभिमानस्तद्वदिति । ब्रह्म यथोक्तलक्षणं परं ह किल देवेभ्योऽर्थाय विजिग्ये जयं लब्धवत् देवानामसुराणां च सङ्ग्रामेऽसुराञ्जित्वा जगदरातीनीश्वरसेतुर्भेत्तॄन् देवेभ्यो जयं तत्फलं च प्रायच्छज्जगतः स्थेम्ने । तस्य ह किल ब्रह्मणो विजये देवाः अग्न्यादयः अमहीयन्त महिमानं प्राप्तवन्तः । तदा आत्मसंस्थस्य प्रत्यगात्मन ईश्वरस्य सर्वज्ञस्य सर्वक्रियाफलसंयोजयितुः प्राणिनां सर्वशक्तेः जगतः स्थितिं चिकीर्षोः अयं जयो महिमा चेत्यजानन्तः ते देवाः ऐक्षन्त ईक्षितवन्तः अग्न्यादिस्वरूपपरिच्छिन्नात्मकृतः अस्माकमेवायं विजयः अस्माकमेवायं महिमा अग्निवाय्विन्द्रत्वादिलक्षणो जयफलभूतोऽस्माभिरनुभूयते नास्मत्प्रत्यगात्मभूतेश्वरकृत इति ॥

उत्तरग्रन्थस्य प्रतीकमादाय तात्पर्यमाह –

ब्रह्मेत्यादिना ।

अभिप्रेतं तात्पर्यमाह –

वक्ष्यमाणेति ।

उत्तमाधिकारिगोचरमविषयब्रह्मात्मताज्ञानं पूर्वत्रोक्तमुत्तरत्र तु मन्दाधिकारिगोचरं सगुणब्रह्मोपासनं वक्ष्यते । तत्परं वक्ष्यमाणं सर्ववाक्यजातं, स्पष्टविधिदर्शनात् । अतोऽत्रैव तात्पर्यमर्थान्तरतात्पर्यप्रदर्शनं तु सम्भावनामात्रेणेति द्रष्टव्यम् । ईश्वरस्य सेतवो मर्यादा वर्णाश्रमादिधर्मास्तद्भेदकान् । जगतः स्थेम्ने स्थैर्याय । स्वयोगमाहात्म्यनिर्मितेन सत्त्वरजस्तमसां त्रयाणां गुणानां योगो युक्तिर्घटनं माया तन्माहात्म्येन निर्मितं तेनेत्यर्थः ॥ १४ - १ ॥ १५ - २ ॥ तृतीतखण्डशेषभाष्यं स्पष्टमतो न विवृतमिति ॥ १६ - ३ ॥ १७ - ४ ॥ १८ - ५ ॥ १९ - ६ ॥ २० - ७ ॥ २१ - ८ ॥ २२ - ९ ॥ २३ - १० ॥ २४ - ११ ॥ २५ - १२ ॥ २६ - १ ॥ २७ - २ ॥ २८ - ३ ॥ विद्युतः सकाशाद्विद्योतनं कृतवदित्यनुपपन्नं ब्रह्मणः स्वयञ्ज्योतिष्ट्वात्पराधीनप्रकाशानुपपत्तेर्विद्युत्सम्बन्धि द्योतनं कृतवदित्यनुपपन्नमन्याश्रयस्य विद्योतनस्यान्यकर्तृकत्वानुपपत्तेरतो यथाश्रुतासम्भवादन्यत्र तात्पर्यं वक्तव्यमित्यर्थः ।

इति तृतीयखण्डः ॥