केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥
तस्य प्रकृतस्य ब्रह्मणः एषः आदेशः उपमोपदेशः । निरुपमस्य ब्रह्मणो येनोपमानेनोपदेशः सोऽयमादेश इत्युच्यते । किं तत् ? यदेतत् प्रसिद्धं लोके विद्युतः व्यद्युतत् विद्योतनं कृतवदित्येतदनुपपन्नमिति विद्युतो विद्योतनमिति कल्प्यते । आ३ इत्युपमार्थः । विद्युतो विद्योतनमिवेत्यर्थः, ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति श्रुत्यन्तरे च दर्शनात् । विद्युदिव हि सकृदात्मानं दर्शयित्वा तिरोभूतं ब्रह्म देवेभ्यः । अथवा विद्युतः ‘तेजः’ इत्यध्याहार्यम् । व्यद्युतत् विद्योतितवत् आ३ इव । विद्युतस्तेजः सकृद्विद्योतितवदिवेत्यभिप्रायः । इतिशब्दः आदेशप्रतिनिर्देशार्थः — इत्ययमादेश इति । इच्छब्दः समुच्चयार्थः । अयं चापरस्तस्यादेशः । कोऽसौ ? न्यमीमिषत् यथा चक्षुः । न्यमीमिषत् निमेषं कृतवत् । स्वार्थे णिच् । उपमार्थ एव आकारः । चक्षुषो विषयं प्रति प्रकाशतिरोभाव इव चेत्यर्थः । इति अधिदैवतं देवताविषयं ब्रह्मण उपमानदर्शनम् ॥

प्रतिनिर्देशार्थ इति ।

परामर्शार्थः । चक्षुषो निमेषणं द्रुतं भवतीति प्रसिद्धं तद्वद्ब्रह्मणि क्षिप्रकारित्वं सृष्ट्यादौ प्रतिबन्धाभावेनाऽऽयासाभावेन च द्रुतकारित्वं धर्मोऽधिदैवतम् । यद्ध्येयं ब्रह्म तद्यथा विद्युतः प्रकाशो युगपद्विश्वव्यापकस्तथा निरतिशयज्योतीरूपं द्रुतं सकलसृष्ट्यादिकारि पारमैश्वर्यसम्पन्नमित्यपमानोपदेेशेनोक्तम् ॥ २९ - ४ ॥