तत्र विरक्त उत्तमाधिकारी परमरहस्यं पृच्छतीत्याह –
एवमनुशिष्ट इति ।
परमरहस्यं श्रोत्रस्य श्रोत्रमित्यादिनोक्तमेवोत्तरार्थमित्युत्तरग्रन्थेन विद्याप्राप्त्युपायविधानार्थमुक्ता विद्या निरपेक्षैवेत्यवधारयति ।
अवधारणार्थत्वं प्रतिवचनस्य चोद्यमुखेन स्फोटयति –
परमात्मविषयामित्यादिना ।
किं पूर्वोक्तोपनिषच्छेषतयाऽन्यदपेक्षते । शेषशब्देन फलोपकार्यङ्गं विवक्षितम् । सहकारिशब्देनानुपसर्जनमपि समुच्चयार्हं विवक्षितम् ।
एवं शिष्याभिप्रायमुपवर्ण्य समाधानमाह –
एतदुपपन्नमिति ।
विद्याङ्गत्वहीनैः सह पाठात्तपःप्रभृतीनां विद्याङ्गत्वं नास्तीत्युक्तम् । तत्र योग्यतावशेन शेषशेषिभावः सहपाठस्त्वकिञ्चित्कर इति शङ्कते –
सहपठितानामपीति ।
“अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्”(श.ब्रा.) इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमन्त्रणं क्रियते । तत्र यद्यप्यस्मिन्सूक्तवाके बह्व्यो देवताः पठ्यन्ते तथाऽपि यस्मिन्यागे या देवताऽऽहूता तस्या एव विसर्जने योग्यतावशादस्य सूक्तवाकस्य यथा विनियोगस्तथा तपःप्रभृतीनामेव विद्याशेषत्वेन विनियोगो भविष्यतीत्यर्थः ।
भवेत्सूक्तवाकस्य विनियोगो योग्यतासम्भवात् । न कर्मणां विद्याविरुद्धत्वेन अयोग्यत्वादित्याह –
नायुक्तेरिति ।
विद्यया विषयपर्यालोचनया फलपर्यालोचनया च नास्ति तत्त्वतः सम्बन्धयोग्यता कर्मणां प्रत्युत अनुपयोगात्कर्मणां त्याग एव मुमुक्षुणा कर्तव्य इत्याह –
सर्वविषयेति ।
सर्वेभ्य उत्पाद्यादिभ्यः कर्मगोचरेभ्यो व्यावृत्तो यः प्रत्यगात्मा स एव ब्रह्मरूपेण विद्याया व्यावर्तको विषयस्तन्निष्ठत्वाद्विद्यायास्तत्फलस्य च कर्मवैलक्षण्यादित्यर्थः ॥ ३२ - ७ ॥