केनोपनिषत्पदभाष्यम्
आनन्दगिरिटीका (केन पदभाष्य)
 
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥ ७ ॥
एवमनुशिष्टः शिष्य आचार्यमुवाच — उपनिषदं रहस्यं यच्चिन्त्यं भो भगवन् ब्रूहि इति । एवमुक्तवति शिष्ये आहाचार्यः — उक्ता अभिहिता ते तव उपनिषत् । का पुनः सेत्याह — ब्राह्मीं ब्रह्मणः परमात्मन इयं ब्राह्मी ताम् , परमात्मविषयत्वादतीतविज्ञानस्य, वाव एव ते उपनिषदमब्रूमेति उक्तामेव परमात्मविषयामुपनिषदमब्रूमेत्यवधारयत्युत्तरार्थम् । परमात्मविषयामुपनिषदं श्रुतवतः उपनिषदं भो ब्रूहीति पृच्छतः शिष्यस्य कोऽभिप्रायः ? यदि तावच्छ्रुतस्यार्थस्य प्रश्नः कृतः, ततः पिष्टपेषणवत्पुनरुक्तोऽनर्थकः प्रश्नः स्यात् । अथ सावशेषोक्तोपनिषत्स्यात् , ततस्तस्याः फलवचनेनोपसंहारो न युक्तः ‘प्रेत्यास्माल्लोकादमृता भवन्ति’ (के. उ. २ । ५) इति । तस्मादुक्तोपनिषच्छेषविषयोऽपि प्रश्नोऽनुपपन्न एव, अनवशेषितत्वात् । कस्तर्ह्यभिप्रायः प्रष्टुरिति । उच्यते । किं पूर्वोक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तरापेक्षा, अथ निरपेक्षैव ? सापेक्षा चेदपेक्षितविषयामुपनिषदं ब्रूहि । अथ निरपेक्षा चेदवधारय पिप्पलादवन्नातः परमस्तीत्येवमभिप्रायः । एतदुपपन्नमाचार्यस्यावधारणवचनम् ‘उक्ता त उपनिषत्’ इति । ननु नावधारणमिदम् , यतोऽन्यद्वक्तव्यमाह ‘तस्यै तपो दमः’ (के. उ. ४ । ८) इत्यादि । सत्यम् , वक्तव्यमुच्यते आचार्येण । न तूक्तोपनिषच्छेषतया तत्सहकारिसाधनान्तराभिप्रायेण वा ; किन्तु ब्रह्मविद्याप्राप्त्युपायाभिप्रायेण वेदैस्तदङ्गैश्च सहपाठेन समीकरणात्तपःप्रभृतीनाम् । न हि वेदानां शिक्षाद्यङ्गानां च साक्षाद्ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वा सम्भवति । सहपठितानामपि यथायोगं विभज्य विनियोगः स्यादिति चेत् ; यथा सूक्तवाकानुमन्त्रणमन्त्राणां यथादैवतं विभागः, तथा तपोदमकर्मसत्यादीनामपि ब्रह्मविद्याशेषत्वं तत्सहकारिसाधनत्वं वेति कल्प्यते । वेदानां तदङ्गानां चार्थप्रकाशकत्वेन कर्मात्मज्ञानोपायत्वमित्येवं ह्ययं विभागो युज्यते अर्थसम्बन्धोपपत्तिसामर्थ्यादिति चेत् , न ; अयुक्तेः । न ह्ययं विभागो घटनां प्राञ्चति । न हि सर्वक्रियाकारकफलभेदबुद्धितिरस्कारिण्या ब्रह्मविद्यायाः शेषापेक्षा सहकारिसाधनसम्बन्धो वा युज्यते । सर्वविषयव्यावृत्तप्रत्यगात्मविषयनिष्ठत्वाच्च ब्रह्मविद्यायास्तत्फलस्य च निःश्रेयसस्य । ‘मोक्षमिच्छन्सदा कर्म त्यजेदेव ससाधनम् । त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ ( ? ) तस्मात्कर्मणां सहकारित्वं कर्मशेषापेक्षा वा न ज्ञानस्योपपद्यते । ततोऽसदेव सूक्तवाकानुमन्त्रणवद्यथायोगं विभाग इति । तस्मादवधारणार्थतैव प्रश्नप्रतिवचनस्योपपद्यते । एतावत्येवेयमुपनिषदुक्तान्यनिरपेक्षा अमृतत्वाय ॥

तत्र विरक्त उत्तमाधिकारी परमरहस्यं पृच्छतीत्याह –

एवमनुशिष्ट इति ।

परमरहस्यं श्रोत्रस्य श्रोत्रमित्यादिनोक्तमेवोत्तरार्थमित्युत्तरग्रन्थेन विद्याप्राप्त्युपायविधानार्थमुक्ता विद्या निरपेक्षैवेत्यवधारयति ।

अवधारणार्थत्वं प्रतिवचनस्य चोद्यमुखेन स्फोटयति –

परमात्मविषयामित्यादिना ।

किं पूर्वोक्तोपनिषच्छेषतयाऽन्यदपेक्षते । शेषशब्देन फलोपकार्यङ्गं विवक्षितम् । सहकारिशब्देनानुपसर्जनमपि समुच्चयार्हं विवक्षितम् ।

एवं शिष्याभिप्रायमुपवर्ण्य समाधानमाह –

एतदुपपन्नमिति ।

विद्याङ्गत्वहीनैः सह पाठात्तपःप्रभृतीनां विद्याङ्गत्वं नास्तीत्युक्तम् । तत्र योग्यतावशेन शेषशेषिभावः सहपाठस्त्वकिञ्चित्कर इति शङ्कते –

सहपठितानामपीति ।

“अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्”(श.ब्रा.) इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमन्त्रणं क्रियते । तत्र यद्यप्यस्मिन्सूक्तवाके बह्व्यो देवताः पठ्यन्ते तथाऽपि यस्मिन्यागे या देवताऽऽहूता तस्या एव विसर्जने योग्यतावशादस्य सूक्तवाकस्य यथा विनियोगस्तथा तपःप्रभृतीनामेव विद्याशेषत्वेन विनियोगो भविष्यतीत्यर्थः ।

भवेत्सूक्तवाकस्य विनियोगो योग्यतासम्भवात् । न कर्मणां विद्याविरुद्धत्वेन अयोग्यत्वादित्याह –

नायुक्तेरिति ।

विद्यया विषयपर्यालोचनया फलपर्यालोचनया च नास्ति तत्त्वतः सम्बन्धयोग्यता कर्मणां प्रत्युत अनुपयोगात्कर्मणां त्याग एव मुमुक्षुणा कर्तव्य इत्याह –

सर्वविषयेति ।

सर्वेभ्य उत्पाद्यादिभ्यः कर्मगोचरेभ्यो व्यावृत्तो यः प्रत्यगात्मा स एव ब्रह्मरूपेण विद्याया व्यावर्तको विषयस्तन्निष्ठत्वाद्विद्यायास्तत्फलस्य च कर्मवैलक्षण्यादित्यर्थः ॥ ३२ - ७ ॥