आगमस्यार्थमाह –
विदिताविदिताभ्यामन्यत्वमिति ।
अन्यदात्मनो विदितमविदितं वा स्यादतो विदितत्वाविदितत्वनिषेधेनाऽऽत्मनोऽन्यत्र ब्रह्मत्वं विदुषां विनिवर्त्याऽऽत्मा ब्रह्मेत्युपदिष्टं भवतीत्यर्थः ।
विदितान्यत्वे युक्तिमाह –
यो हीत्यादिना ।
विदितान्यत्ववचनस्याऽऽर्थिकमर्थमाह –
अपि चेति ।
कार्याद्व्यावृत्तिः सिद्ध्यतीत्यर्थः ।
आत्मा यद्यप्यन्यतो विज्ञानं नापेक्षते तथाऽपि स्वग्राहकत्वात्स्वस्मादेव विज्ञानमपेक्षते तेन विज्ञानानपेक्षत्वमसिद्धमित्याशङ्क्याऽऽह –
न च स्वत एवेति ।
स्वभावतयाऽनपेक्षमेव सिद्धत्वादपेक्षाशब्दार्थो न घटते स्वग्राहकत्वं चासिद्धं स्ववृत्तिविरोधादित्यर्थः ।
विज्ञानं सजातीयानपेक्षं प्रकाशत्वात्प्रदीपवदित्यनुमानमभिप्रेत्य दृष्टान्तमाह –
नहीति ।
तमोध्वस्तये ह्यालोकापेक्षा तदभावश्चाऽऽलोके स्वत एव सिद्ध इत्यर्थः ।
प्रदीपस्य तैजसस्य तैजसान्तरानपेक्षत्वेऽपि विजातीयप्रकाशस्य ज्ञानस्यापेक्षा स्वव्यवहारेऽपि दृष्टा तथा ब्रह्मणोऽपि विजातीयज्ञानापेक्षा भविष्यतीति न च वाच्यमित्याह –
न चैवमात्मन इति ।
ब्रह्मणोऽन्यस्य सर्वस्याज्ञानात्मकत्वाद्भानसम्भावनैव नास्त्यन्यत्र ततो न विजातीयज्ञानापेक्षमपि ब्रह्मेत्यर्थः ।
ज्ञानानपेक्षत्वे लौकिकानुभवविरोधं शास्त्रविरोधं चोद्भाव्य परिहरति –
विरोध इति चेन्नान्यत्वादिति ।
सूत्रस्य पूर्वपक्षभागं विभजते –
स्वरूपविज्ञान इत्यादिना ।
विज्ञानानपेक्षत्वं ब्रह्मणोऽभाणि ।
सापेक्षत्वं जीवशब्दवाच्यस्योपाधिविशिष्टस्यानुभूयतेऽतो भिन्नविषयत्वान्न विरोध इत्याह –
न कस्मादित्यादिना ।
बुद्ध्यादौ कार्यकरणसङ्घाते य आत्माभिमानसन्तानोऽनादिभवपरम्पराप्रापितस्तस्याविच्छेदरूपमनिर्वाच्यमज्ञानलक्षणं चिह्नं यस्य चित्प्रतिबिम्बस्य स तथोक्तः । चित्तन्त्रं ह्यनिर्वाच्यमज्ञानं चैतन्यमवच्छिद्य स्वावच्छिन्ने यथास्वरूपावभासं प्रतिबध्य मौढ्याद्यध्यासहेतुर्भवति । तस्मादविवेकात्मको जीव इत्युच्यते बुद्धेरन्तःकरणस्य यथा यथा नीलपीताद्याकारावभासा जायन्ते तथा तथा चित्प्रतिबिम्बः प्रमातृत्वादिरूपेण भातीति तत्प्रधानोऽध्यस्तस्य विशिष्टस्य तत्सत्तयैव सत्त्वाद्विशिष्टान्तर्निविष्टो य आत्मा नित्यचित्स्वरूपः स एव सारो यस्मिन्स तथोक्तः । बुद्धिपरिणामरूपाणां नीलपीतादिप्रत्ययानामुत्पन्नविनाशवत्त्वात्तदुपरक्तरूपेणानित्यं चैतन्यं यत्रावभासते सोऽन्यो जीवः । सर्वाण्येतानि जीवविशेषणान्यन्यत्वस्फुटीकरणार्थानि । न केवलमनित्यत्वम् विशिष्टोपाधिरूढतया विज्ञानस्य तद्धर्मतैवावभासते मनुष्योऽहं जानामीति प्रतिशरीरं विलक्षणमपि चैतन्यमवभासते विशिष्टभेदादित्यर्थः ।
परमार्थतः कीदृशं चैतन्यं यस्य विशिष्टधर्मताऽवभासते तत्राऽऽह –
अन्तःकरणस्येति ।
ननु विशेषणसम्बन्धात्स्वरूपे समारोपितो विशिष्टो भाति तस्य मिथ्यात्वात्कथमात्मत्वव्यवहारास्पदत्वं तत्राऽऽह –
अन्तर्गतेनेति ।
विशिष्टान्तर्गतेन चित्स्वरूपेण तादात्म्याद्बाह्य इत्यनात्माऽपि बुद्धिविशिष्ट आत्मेत्युपगतो लौकिकैरिति सम्बन्धः ।
अत इति ।
उक्तधर्मवत्त्वादित्यर्थः । अस्तु नित्यविज्ञानाद्विलक्षणो जीवः ।
कथमेतावता विरोधः परिहृत इत्याकाङ्क्षायामाह –
तत्र हीति ।
एवं लोकानुभवविरोधे परिहृतेऽपि शास्त्रविरोधो न परिहृत इत्याह –
तत्त्वमसीति ।
विशिष्टस्य मिथ्यात्वाद्ब्रह्मास्मीत्यनुभवायोगान्मोक्षार्हत्वायोगाच्च तत्त्वमसीत्युपदेशो न घटते चेत्तर्हि ब्रह्मण एवोपदेशोऽस्त्वित्याशङ्क्याऽऽह –
आत्मानमेवावेदिति ।
एवमादीनि वाक्यानि ब्रह्योपदेशपक्षे न सङ्गच्छन्ते तज्जनितफलाभावादित्यर्थः ।
विशिष्टस्य निरुपाधिकस्य च ब्रह्मण उपदेशासम्भवेऽप्युपाधिविशिष्टचित्स्वरूपजीवपदलक्ष्यस्य वैशिष्ट्यद्वारेणोपदेशो भविष्यति फलं तस्याऽऽरोपितबन्धनिवृत्तिरित्याह –
न लोकेति ।
ननु लोकशब्देनाऽऽत्मोच्यतेऽनात्मा वा । नाऽऽद्यः । आत्मनोऽधिष्ठानतयाऽध्यासकर्तृत्वासम्भवाच्चैत्रो हि शुक्तिकायां रजतमध्यस्यति न शुक्तिकैव । अध्यासकर्तृत्वे चाऽऽत्मनः प्रागेवाध्यासात्कर्तृत्वं वाच्यम् । कर्तृत्वस्य प्राग्भावनियमात्तथा चानिर्मोक्षप्रसङ्गः । कर्तृत्वस्याध्यासत्वे च न कर्तृत्वमात्मनस्तद्विषयकर्तृत्वान्तराभावत् । भावे चानवस्थानात् । न द्वितीयः । जडत्वादनात्मनोऽध्यासकर्तृत्वानुपपत्तेः । चेतनो हि देवदत्तोऽध्यस्यतीति प्रसिद्धम् । अथ जडस्याध्यासकर्तृत्वं नाम भ्रान्त्याश्रयत्वं यद्यपि न सम्भवति तथाऽपि भ्रान्तिनिमित्तत्वं दृष्टं जपाकुसुमादेः । न, तस्य सत्यस्योपाधित्वसम्भवाद्भाष्यकारमते च जडस्य सर्वस्याध्यासात्मकत्वादध्यासहेतुत्वं न सम्भवति तस्मादसम्बद्धमिदं भाष्यं लोकाध्यारोपापोहार्थत्वादिति । न । लोकशब्देनाहङ्कारादय उच्यन्ते । तेषां व्यावहारिकसत्यत्वस्यार्थक्रियासमर्थत्वेनाभ्युपगमात् । स्वधर्मारोपनिमित्तत्वेनोपाधित्वसम्भवात्परमार्थसत्यस्यैवोपाधित्वमित्यस्मान्प्रति दृष्टान्ताभावादहङ्कारादयश्च चित्तन्त्रानाद्यनिर्वाच्याविद्यामयभूतसूक्ष्मविकारा अविद्यावच्छिन्न एव चैतन्ये निपतन्ति । उपाधिविकाराणामुपहिते पक्षपातिताया दर्शनात् । यथा जलचलनादीनाम् । तस्मान्नासङ्गतं भाष्यम् । ननु बोधात्मनो नाबोधः समञ्जसः प्रकाशाप्रकाशयोर्विरोधप्रसिद्धेः । बोधोऽपि च बोधात्मनो न समञ्जसः । निर्विकारत्वात् ।
कथं बोधात्मनो बोधोपदेशः सार्थकस्तत्राह –
तत्र चेति ।
बोधादन्यस्याबोधात्मकत्वेनाबोधाश्रयत्वं न समञ्जसम् । आत्माश्रयत्वप्रसङ्गादनिवृत्तिप्रसङ्गाच्च तस्य बोधासम्भवात् । तस्माद्बोधात्मन एवाबोधः समञ्जसः । परिशेषाद्विरोधश्च्यासिद्धः साक्षिवेद्यात्वात् । बोधोऽपि तत्रैव समञ्जसो घटादेर्बोद्धृत्वाप्रसिद्धेः । चिद्व्याप्त एव बुद्धिपरिणामे बोधशब्दव्युत्पत्तेः परिणाम्यन्तःकरणोपहितस्य बोधात्मनो बोधवत्त्वं समञ्जसमित्यर्थः ।
सामञ्जस्ये हेत्वन्तरमाह –
अन्यनिमित्तत्वादिति ।
अन्यत्राहङ्कारादिसङ्घाते वादिनां लौकिकानां च बोधाबोधौ प्रसिद्धौ तौ चाऽऽत्मबोधाबोधसम्बन्धादित्यात्मनो मृख्यौ बोधाबोधौ । यत्सम्बन्धादन्यत्र यदुपचर्यते तत्तत्र मुख्यं यथाऽग्निसम्बन्धादुदकस्यौष्ण्यमुपचारेणाग्नौ तन्मुख्यमित्यर्थः ।
आत्मनिमित्तौ चेदन्यत्र बोधाबोधौ तर्हि निमित्तत्वादात्मनो व्यापारवत्त्वप्रसङ्गस्तत्राऽऽह –
रात्र्यहनी इवेति ।
यथाऽऽदित्यसन्निध्यसन्निधिमात्रनिमित्ते लोके रात्र्यहनी भवतः । नह्यादित्यः कञ्चन स्वापयत्युत्थापयति वा । अतो निमित्तत्वं न व्यापारवत्त्वाविनाभूतमित्यर्थः ।
नन्वात्मनि बोधस्य नित्यत्वे कथं कालावच्छेदव्यवहारः प्रागज्ञासिषं शास्त्रार्थमिदानीं च जानामि पुनर्ज्ञास्यामीति तत्राऽऽह दृष्टान्तम् –
नित्यावौष्ण्यप्रकाशाविति ।
तद्वद्विषयस्य कालावच्छिन्नत्वेन कालावच्छेदव्यवहारः स्वरूपेण नित्येऽपि बोधे न विरुध्यत इत्यर्थः ।
आत्मनि बोधाबोधयोः सामञ्जस्ये किं सिद्धमित्यत आह –
एवं चेति ।
आगन्तुकविषयसम्बन्धात्तदुपरक्तरूपेण बोधस्याऽऽगन्तुकत्वेऽपीदानीं मया स्वात्मा बुध्यत इति नित्यबोधात्मनि कथं बोधकर्तृत्वव्यपदेश इत्याशङ्क्याऽऽवरकापनयस्याऽऽगन्तुकत्वेन भविष्यतीत्याह –
यथा सविताऽसाविति ।
यस्मादन्योपाधिकमात्मनि बोधकर्तृत्वम् । स्वतः पुनर्विज्ञानानपेक्षत्वमेव । तस्माद्विज्ञानानपेक्षत्वादविदितादन्यत्वं सिद्धम् ।
कथमन्यत्वविवक्षायामधिशब्दः सङ्गच्छते तत्राऽऽह –
अधिशब्दश्चेति ।
निपातानामनेकार्थत्वाल्लक्षणया चेत्यर्थः ।
अविदितादन्यत्वस्याऽऽर्थिकमर्थमाह –
अव्यक्तमेवेति ।
विदितं न भवत्यविदितं च न भवतीत्येकैकनिषेधस्य तात्पर्यमुक्त्वा समुदायार्थमाह –
विदितमविदितं चेति ।
व्याचचक्षिर इत्यस्वातन्त्र्यं तर्कप्रतिषेधार्थमित्येतत्सूत्रं विवृणोति –
ये नस्तदिति ॥ ४ ॥