केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५ ॥
यद्वाचेति मन्त्रानुवादो दृढप्रतीत्यै । ‘अन्यदेव तद्विदितात्’ इति योऽयमागमार्थो ब्राह्मणोक्तः अस्यैव द्रढिम्ने इमे मन्त्राः यद्वाचा इत्यादयः पठ्यन्ते । यत् ब्रह्म वाचा शब्देन अनभ्युदितम् अनभ्युक्तम् , अप्रकाशितमित्येतत् । येन वागभ्युद्यत इति वाक्प्रकाशहेतुत्वोक्तिः । येन प्रकाश्यत इति वाचोऽभिधानस्य अभिधेयप्रकाशकत्वस्य हेतुत्वमुच्यते ब्रह्मणः । उक्तं च ‘केनेषितां वाचमिमां वदन्ति’ (के. उ. १ । १) ‘यद्वाचो ह वाचम्’ (के. उ. १ । २) इति । तदेव ब्रह्म त्वं विद्धि इत्यविषयत्वेन ब्रह्मण आत्मन्यवस्थापनार्थ आम्नायः । यद्वाचानभ्युदितं वाक्प्रकाशनिमित्तं चेति ब्रह्मणोऽविषयत्वेन वस्त्वन्तरजिघृक्षां निवर्त्य स्वात्मन्येवावस्थापयत्याम्नायः तदेव ब्रह्म त्वं विद्धि इति ; यत्नत उपरमयति नेदमित्युपास्यप्रतिषेधाच्च ॥

यद्वाचेति मन्त्रानुवादो दृढप्रतीतेरिति । सूत्रमेतद्विभजते –

अन्यदेवेत्यादिना ।

येन वागभ्युद्यत इत्यनेन वाक्प्रकाशे हेतुत्वोक्तिर्ब्रह्मणः क्रियत इति योजना ।

एतत्सूत्रं विवृणोति –

येनेत्यादिना ।

तदेव ब्रह्म त्वं विद्धीत्याद्याम्नाय आत्मन्येव बुद्धेरवस्थापनार्थ उपसंहारार्थः । अविषयत्वेन ब्रह्मणोऽतिरिक्तस्वरूपेण वेद्यत्वासम्भवादिति योजना ।

एतत्सूत्रं विभजते –

यद्वाचेत्यादिना ॥ ५ ॥