केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९ ॥
यन्मनसेत्यादि समानम् । मनो मतमिति । येन ब्रह्मणा मनोऽपि विषयीकृतं नित्यविज्ञानस्वरूपेणेत्येतत् । सर्वकरणानामविषयस्तानि च सव्यापाराणि सविषयाणि नित्यविज्ञानस्वरूपावभासतया येनावभास्यन्त इति श्लोकार्थः । ‘क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत’ (भ. गी. १३ । ३३) इति स्मृतेः । ‘तस्य भासा’ (मु. उ. २ । २ । १०) इति चाथर्वणे । येन प्राण इति क्रियाशक्तिरप्यात्मविज्ञाननिमित्तेत्येतत् ॥

मन्त्रसमुदायस्यार्थमाह –

सर्वकरणानामित्यादिना ।

यत्सर्वकरणानामविषयं येन निर्विशेषेण सर्वाणि करणानि भास्यन्ते तद्ब्रह्मैव त्वं ततोऽतिरिक्तज्ञानाय यत्नो न कर्तव्य इति यत्नोपरम एव लक्ष्यते । विद्धीत्यनेनातिरिक्तं मा विद्धीत्यभिप्रायः ॥ ६ – ७ – ८ – ९ ॥

इति प्रथमः खण्डः ॥