यदि मन्यसे सुवेदेत्यनेन वाक्येन शिष्यबुद्धिविचालना क्रियते स्थूणानिखननन्यायेन गृहीतस्य दार्ढ्यार्थम् । एतत्सङ्ग्रहवाक्यं विवृणोति –
विदिताविदिताभ्यामित्यादिना ।
अल्पमेव ब्रह्मणो रूपं नूनं त्वं वेत्थेति को मन्यत इत्याकाङ्क्षायामाह –
मन्यत इत्याचार्य इति ।
यदिति ।
यादृशमस्यब्रह्मणो रूपं त्वममंस्थास्तादृशं देवेष्वपि यो मन्यते सोऽपि दहरमेव नूनं मन्यत इति योजना ।
अथ न्विति हेतुर्मीमांसाया इति सङ्ग्रहवाक्यं विवृणोति –
यस्मादित्यादिना ।
प्रतिवचनस्यार्थं सङ्गृहीतं विवृणोति –
सम्यगित्यादिना ।
विचार्येति ।
मया विदितं ब्रह्मेति किं प्रतिवचनं ददाम्युताविदितमिति वा । नाऽऽद्यः । आचार्यागमप्रत्ययविरोधाद्वेदनविषयतया च घटवदब्रह्मत्वप्रसङ्गाद्वेदितृत्वेन मम विकारित्वापाताच्च । न द्वितीयः । गोपालादिभ्योऽविशेषप्रसङ्गात्तूष्णीमवस्थाने वाऽप्रतिभाप्रसङ्गादिति विचार्यैकैकपक्षदोषपरिजिहीर्षया विदितमविदितं चेति समुच्चितं वच्मि । अज्ञानसंशयाद्यभावाद्विदितं वेदनविषयत्वाभावाच्चाविदितमिति सुपरिनिश्चितः सन्प्रतिवचनमाहेत्यर्थः । प्रत्ययत्रयस्य सङ्गतिः सङ्घटनमेकस्मिन्विषये किमर्थमुच्यते । सम्वादाधीनं प्रामाण्यमिति तार्किकस्थितेर्निश्चयार्थम् । स्वतः प्रामाण्यपक्षे त्वागमार्थे प्रत्ययान्तरसंवादस्तात्पर्यद्योतकः । प्रतिबन्धनिरासेनोपचारेण निश्चयहेतुरिति सर्वस्य प्रतिवचनवाक्यस्य तात्पर्यमुक्त्वा मन्येविदितमित्येकदेशस्यार्थं सङ्गृण्हाति ॥ १० - १ ॥