केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
नाह मन्ये सु वेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥
परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचार्यात्मनिश्चययोस्तुल्यतायै यस्माद्धेतुमाह — नाह मन्ये सु वेदेति । अहेत्यवधारणार्थो निपातः । नैव मन्ये इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत् सु वेद सुष्ठु वेद अहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भवद्भिर्विचालितस्य यथोक्तार्थमीमांसाफलभूतात्स्वात्मब्रह्मत्वनिश्चयरूपात्सम्यक्प्रत्ययात् । विरुद्धत्वादतो नाह मन्ये सु वेदेति । यस्माच्चैतत् नैव न वेद नो न वेदेति ; मन्ये इत्यनुवर्तते, अविदितब्रह्मप्रतिषेधात् । कथं तर्हि मन्यसे इत्युक्त आह — वेद च । च—शब्दाद्वेद च न वेद च इत्यभिप्रायः, विदिताविदिताभ्यामन्यत्वाद्ब्रह्मणः । तस्मान्मया विदितं ब्रह्मेति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्यविज्ञानब्रह्मस्वरूपतया नो न वेद वेदैव चाहं स्वरूपविक्रियाभावात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेति पक्षान्तरनिरासार्थमाम्नाय उक्तार्थानुवादात् । यः नः अस्माकं मध्ये तद्वेद स एव तद्ब्रह्म वेद नान्यः, उपास्यब्रह्मवित्त्वात् । अतोऽन्यस्य यथाहं वेदेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽयमर्थोऽवसीयत इति, उच्यते — उक्तानुवादात् । उक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥

सङ्गृहीतं स्फुटयति –

परिनिष्ठितमित्यादिना ।

विरुद्धत्वादिति ।

विपरीतप्रत्ययस्य सम्यग्ज्ञानविरुद्धत्वात्तदुदयमात्राद्विपरीतप्रत्ययोऽपगत इत्यर्थः ।

न केवलं विपरीतप्रत्ययस्य संशयस्य वाऽभावान्मम निश्चितं विज्ञानमज्ञानाभावाच्चेत्याह –

यस्माच्चेति ।

अथवा वेद चेत्यस्यान्योऽर्थः कथ्यते । यद्यनित्यमात्मविज्ञानं स्यात्तर्हि तस्य प्रागभावकाले प्रध्वंसाभावकाले वाऽज्ञानं सम्भाव्येत नतु तदस्ति । नित्यं हि विज्ञानं ब्रह्म मम स्वरूपं ततो नो न वेद । यदि च वेदनं मम विक्रिया भवेत्तदा विक्रियायाः कादाचित्कत्वात्कदाचिदहं न वेदेति शङ्क्येत नतु तदस्ति स्वरूपविज्ञानस्यान्यथात्वासम्भवात्सदा वेदैवाहम् । यथा स्वाभाविकाचलतया पर्वतास्तिष्ठन्तीति व्यपदेशस्तद्वदित्यर्थः । स्वसत्तायां स्वयं प्रमेति स्वप्रकाशत्वमादाय व्याख्यातम् ।

चशब्दार्थमाह –

विशेषविज्ञानं चेति ।

आगमाद्विचारसहकृताज्जातं ब्रह्मात्मकताव्यञ्जकमन्तःकरणपरिणामरूपं ब्रह्मास्मीति विशेषविज्ञानं तत्परेणान्तःकरणेनोपाधिनाऽऽन्मन्यध्यस्तं न परमार्थतो ज्ञानवत्त्वमात्मन इति न वेद चेति घटत इत्यर्थः ।

प्रकारान्तरेणापि ब्रह्मविज्ञानं सम्भवतीति शङ्कानिरासार्थं वाक्यैकदेश इत्याह –

यो नस्तद्वेद तद्वेदेति ।

इदं सूत्रवाक्यं विवृणोति –

यो नोऽस्माकमिति ।

यो नोऽस्माकं मध्ये तद्विदिताविदितान्यत्वं वेदेति शेषः । यथाऽऽहं वेदातोऽन्येन प्रकारेण विदुष उपास्यब्रह्मवित्त्वादिति योजना । उक्तानुवादादिति । अभ्यासाख्यतात्पर्यलिङ्गदर्शनादविषयतयैव ब्रह्मविज्ञानं विवक्षितमित्यर्थः ॥ ११ – २ ॥