यस्यामतमितिवाक्यार्थं सङ्गृहीतं व्याख्याति –
शिष्याचार्येत्यादिना ।
श्रौतमिति शिष्यस्याऽऽचार्यस्य चोक्तिर्न भवतीति ख्यापनार्थम् ।
तेन श्रौतेन वचनेन कथमुच्यत इत्याकाङ्क्षायामाह –
यदुक्तमिति ।
यद्ब्रह्म विदितादन्यदुक्तमिति सम्बन्धः । गोपालादीनामिवाऽऽत्मतत्त्वं न विवक्षितं किन्तु ब्रह्मण आत्मत्वफलावसानो योऽबोधो यस्य स तथोक्तस्तस्य भावस्तत्ता तया बुभुत्सा निवृत्ता । विचार्यमाणे ब्रह्मण आत्मत्वेन पर्यवसानादतिरिक्तमन्तव्याभावादमतमित्यर्थः ।
अविज्ञातं विजानतामित्युत्तरार्धस्यार्थं सङ्गृहीतं विवृणोति –
अनुवादमात्र इत्यादिना ।
हेत्वर्थत्वेनेति ।
अयमर्थः – पूर्वेषां ब्रह्म विजानतामविज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमप्यविषयतया ज्ञानं सम्यग्ज्ञानं तथा पूर्वेषामविदुषां विज्ञातत्वेनैव ब्रह्मणः प्रसिद्धत्वादिदानीमपि विषयतया ज्ञानमसम्यग्ज्ञानमिति । बुद्ध्यादिविषयं सद्रूपतया बुद्धिरात्मा मन आत्मेन्द्रियमात्मेति विज्ञानं वेदबाह्यानां ब्रह्म बौद्धादीनां प्रसिद्धं तत इदानीमपि तन्मतानुसारिणां भ्रान्तानामेव बुद्ध्यादिविषयमनात्मरूपमात्मतयाऽभिमतमित्यर्थः ॥ १२ - ३ ॥