पुनरज्ञानान्तरोदयेन बन्धशङ्कायां कथं सकृदज्ञाननिवृत्तिमात्रेणामृतत्वनिमित्तत्वं ज्ञानस्येत्याशङ्क्याऽऽह –
यत आहेति ।
स्वस्यान्तोऽवच्छेदो भवति येन ध्वान्तेन तत्स्वान्तध्वान्तमनात्माध्यारोपो मनुष्यत्वाद्यभिमानः पारमेश्वरी शक्तिर्माया जीवत्वनिमित्तमज्ञानं स्वान्तध्वान्तम् । एतैः सर्वैरभिभवनीयो न भवत्यात्मा येन विद्याकृतेनातिशयेन तद्वीर्यं विद्वाल्लँभते । पूर्वसिद्धस्याज्ञानादेर्नाशान्मायायाश्च स्वतो जीवबन्धकत्वाभावादभिनवस्याज्ञानस्योत्पत्तौ कारणाभावात् । प्रवृत्तफलकर्माक्षिप्तस्य चाज्ञानलेशस्य द्वैतावभासस्य च विद्वदनभिभावकत्वाद्दुर्बलत्वान्निश्चीयते सम्यग्ज्ञानस्यामृतत्वहेतुत्वमित्यर्थः ।
ननु विद्याजं चेत्कथमविनाशि कृतकस्य विनाशित्वनियमादित्याशङ्क्याह –
न तु विद्याया इति ।
यावद्देहपातं जायमानो द्वैतावभासो विद्यया बाध्यत एव न मामभिभवितुं शक्नोतीत्यवष्टम्भो वीर्यं तस्याविनाशोऽमृतत्वं तत्कारणविद्याया अबाध्यत्वाभिप्रायेणोच्यते न स्वरूपनाशाभावाभिप्रायेणेत्यर्थः ।
प्रतिबोधपदस्य यौगिकमर्थं व्याख्याय रूढ्यभिप्रायेण व्याचष्टे –
अथवेति ।
अशेषतया विपरीतो निरस्तः संस्कारो येन बोधेन स प्रतिबोधो युगपत्कृत्स्नाविद्यातत्कार्यनिवर्तकः सद्योमुक्तिहेतुरित्यर्थः ।
प्रतिबोधशब्दस्त्रेधा व्याख्यातस्तत्राऽऽद्यं व्याख्यानं युक्तमित्याह –
पूर्वं त्विति ।
गुरूपदेशे सत्यपि प्रतिबोधव्यापकात्मानुसन्धानं विनाऽपरोक्षावगमासम्भवात्सद्योमुक्तेश्चाशास्त्रीयत्वादित्यर्थः ॥ १३ - ४ ॥