केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥
यदि चात्मनैवामृतत्वं विन्दते, किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभाविकस्यामृतत्वस्य निमित्तमिति कल्प्यते ; यत आह — वीर्यं विद्यया विन्दते । वीर्यं सामर्थ्यम् अनात्माध्यारोपमायास्वान्तध्वान्तानभिभाव्यलक्षणं बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि । अविद्याजं हि वीर्यं विनाशि, विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्तमात्रं भवति । ‘नायमात्मा बलहीनेन लभ्यः’ (मु. उ. ३ । २ । ४) इति चाथर्वणे । लोकेऽपि विद्याजमेव बलमभिभवति न शरीरादिसामर्थ्यम् , यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृदेवाशेषविपरीतनिरस्तसंस्कारेण स्वप्नप्रतिबोधवद्यद्विदितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोधः । तेन वा विदितं मतमिति । उभयत्र प्रतिबोधशब्दप्रयोगोऽस्ति — ‘सुप्तप्रतिबुद्धः’ ‘गुरुणा प्रतिबोधितः’ इति । पूर्वं तु यथार्थम् ॥

पुनरज्ञानान्तरोदयेन बन्धशङ्कायां कथं सकृदज्ञाननिवृत्तिमात्रेणामृतत्वनिमित्तत्वं ज्ञानस्येत्याशङ्क्याऽऽह –

यत आहेति ।

स्वस्यान्तोऽवच्छेदो भवति येन ध्वान्तेन तत्स्वान्तध्वान्तमनात्माध्यारोपो मनुष्यत्वाद्यभिमानः पारमेश्वरी शक्तिर्माया जीवत्वनिमित्तमज्ञानं स्वान्तध्वान्तम् । एतैः सर्वैरभिभवनीयो न भवत्यात्मा येन विद्याकृतेनातिशयेन तद्वीर्यं विद्वाल्लँभते । पूर्वसिद्धस्याज्ञानादेर्नाशान्मायायाश्च स्वतो जीवबन्धकत्वाभावादभिनवस्याज्ञानस्योत्पत्तौ कारणाभावात् । प्रवृत्तफलकर्माक्षिप्तस्य चाज्ञानलेशस्य द्वैतावभासस्य च विद्वदनभिभावकत्वाद्दुर्बलत्वान्निश्चीयते सम्यग्ज्ञानस्यामृतत्वहेतुत्वमित्यर्थः ।

ननु विद्याजं चेत्कथमविनाशि कृतकस्य विनाशित्वनियमादित्याशङ्क्याह –

न तु विद्याया इति ।

यावद्देहपातं जायमानो द्वैतावभासो विद्यया बाध्यत एव न मामभिभवितुं शक्नोतीत्यवष्टम्भो वीर्यं तस्याविनाशोऽमृतत्वं तत्कारणविद्याया अबाध्यत्वाभिप्रायेणोच्यते न स्वरूपनाशाभावाभिप्रायेणेत्यर्थः ।

प्रतिबोधपदस्य यौगिकमर्थं व्याख्याय रूढ्यभिप्रायेण व्याचष्टे –

अथवेति ।

अशेषतया विपरीतो निरस्तः संस्कारो येन बोधेन स प्रतिबोधो युगपत्कृत्स्नाविद्यातत्कार्यनिवर्तकः सद्योमुक्तिहेतुरित्यर्थः ।

प्रतिबोधशब्दस्त्रेधा व्याख्यातस्तत्राऽऽद्यं व्याख्यानं युक्तमित्याह –

पूर्वं त्विति ।

गुरूपदेशे सत्यपि प्रतिबोधव्यापकात्मानुसन्धानं विनाऽपरोक्षावगमासम्भवात्सद्योमुक्तेश्चाशास्त्रीयत्वादित्यर्थः ॥ १३ - ४ ॥