केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति ॥ १२ ॥
ब्रह्म ह देवेभ्य इति ब्रह्मणो दुर्विज्ञेयतोक्तिः यत्नाधिक्यार्था । समाप्ता ब्रह्मविद्या यदधीनः पुरुषार्थः । अत ऊर्ध्वमर्थवादेन ब्रह्मणो दुर्विज्ञेयतोच्यते । तद्विज्ञाने कथं नु नाम यत्नमधिकं कुर्यादिति । शमाद्यर्थो वाम्नायः अभिमानशातनात् । शमादि वा ब्रह्मविद्यासाधनं विधित्सितं तदर्थोऽयमर्थवादाम्नायः । न हि शमादिसाधनरहितस्य अभिमानरागद्वेषादियुक्तस्य ब्रह्मविज्ञाने सामर्थ्यमस्ति, व्यावृत्तबाह्यमिथ्याप्रत्ययग्राह्यत्वाद्ब्रह्मणः । यस्माच्चाग्न्यादीनां जयाभिमानं शातयति, ततश्च ब्रह्मविज्ञानं दर्शयत्यभिमानोपशमे, तस्माच्छमादिसाधनविधानार्थोऽयमर्थवाद इत्यवसीयते । सगुणोपासनार्थो वा, अपोदितत्वात् । ‘नेदं यदिदमुपासते’ (के. उ. १ । ५) (के. उ. १ । ६) (के. उ. १ । ७) (के. उ. १ । ८) (के. उ. १ । ९) इत्युपास्यत्वं ब्रह्मणोऽपोदितम् । अपोदितत्वादनुपास्यत्वे प्राप्ते तस्यैव ब्रह्मणः सगुणत्वेनाधिदैवतमध्यात्मं चोपासनं विधातव्यमित्येवमर्थो वेति । अधिदैवतम् ‘तद्वनमित्युपासितव्यम्’ (के. उ. ४ । ६) इति हि वक्ष्यति । ब्रह्मेति परः, लिङ्गात् । न ह्यन्यत्र परादीश्वरान्नित्यसर्वज्ञात्परिभूयाग्न्यादींस्तृणं वज्रीकर्तुं सामर्थ्यमस्ति । ‘तन्न शशाक दग्धुम्’ (के. उ. ३ । ६) इत्यादिलिङ्गाद्ब्रह्मशब्दवाच्य ईश्वर इत्यवसीयते । न ह्यन्यथा अग्निस्तृणं दग्धुं नोत्सहते वायुर्वा आदातुम् । ईश्वरेच्छया तु तृणमपि वज्रीभवतीत्युपपद्यते । तत्सिद्धिर्जगतो नियतप्रवृत्तेः । श्रुतिस्मृतिप्रसिद्धिभिर्नित्यसर्वविज्ञाने ईश्वरे सर्वात्मनि सर्वशक्तौ सिद्धेऽपि शास्त्रार्थनिश्चयार्थमुच्यते । तस्येश्वरस्य सद्भावसिद्धिः कुतो भवतीति, उच्यते । यदिदं जगद्देवगन्धर्वयक्षरक्षःपितृपिशाचादिलक्षणं द्युवियत्पृथिव्यादित्यचन्द्रग्रहनक्षत्रविचित्रं विविधप्राण्युपभोगयोग्यस्थानसाधनसम्बन्धि, तदत्यन्तकुशलशिल्पिभिरपि दुर्निर्माणं देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमम् एतद्भोक्तृकर्मविभागज्ञप्रयत्नपूर्वकं भवितुमर्हति, कार्यत्वे सति यथोक्तलक्षणत्वात् , गृहप्रासादरथशयनासनादिवत् , विपक्षे आत्मादिवत् । कर्मण एवेति चेत् , न ; परतन्त्रस्य निमित्तमात्रत्वात् । यदिदमुपभोगवैचित्र्यं प्राणिनां तत्साधनवैचित्र्यं च देशकालनिमित्तानुरूपनियतप्रवृत्तिनिवृत्तिक्रमं च, तन्न नित्यसर्वज्ञकर्तृकम् ; किं तर्हि, कर्मण एव ; तस्याचिन्त्यप्रभावत्वात् सर्वैश्च फलहेतुत्वाभ्युपगमाच्च । सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् , न ; कर्मण एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृतन्त्रत्वात्कर्मणः । चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ, कर्तैव फलकाले प्रयोक्तेति चेत् , मया निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न देशकालनिमित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशादिविशेषाभिज्ञः सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात् , ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विकरोति कर्म । न चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्टृ भवति, प्रधानकर्तृसमवेतत्वात्कर्मणः । भूताश्रयमिति चेत् , न ; साधनत्वात् । कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं क्षेत्राद्व्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वात्स्वतः प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत् , न ; असिद्धत्वात् । न हि वायोरचितिमतः स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् । शास्त्रात्कर्मण एवेति चेत् — शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति चेत् , न ; दृष्टन्यायहानानुपपत्तेः । क्रिया हि द्विविधा दृष्टफला अदृष्टफला च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा । कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः । न चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च कर्मफलप्राप्तौ न दृष्टन्यायहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः कर्तृकर्मफलविभागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधर्मैरसंस्पृष्टः । श्रुतेश्च । ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) ‘जरां मृत्युमत्येति’ (बृ. उ. ३ । ५ । १) ‘विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘एष सर्वेश्वरः’ (बृ. उ. ४ । ४ । २२) ‘पुण्यं कर्म कारयति’ ‘अनश्नन्नन्यो अभिचाकशीति’ (मु. उ. ३ । १ । १) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इत्याद्या असंसारिण एकस्यात्मनो नित्यमुक्तस्य सिद्धौ श्रुतयः । स्मृतयश्च सहस्रशो विद्यन्ते । न चार्थवादाः शक्यन्ते कल्पयितुम् , अनन्ययोगित्वे सति विज्ञानोत्पादकत्वात् । न चोत्पन्नं विज्ञानं बाध्यते । अप्रतिषेधाच्च । न चेश्वरो नास्तीति निषेधोऽस्ति । प्राप्त्यभावादिति चेत् , न ; उक्तत्वात् । ‘न हिंस्यात्’ इतिवत्प्राप्त्यभावात्प्रतिषेधो नारभ्यत इति चेत् , न ; ईश्वरसद्भावे न्यायस्योक्तत्वात् । अथवा अप्रतिषेधादिति कर्मणः फलदाने ईश्वरकालादीनां न प्रतिषेधोऽस्ति । न च निमित्तान्तरनिरपेक्षं केवलेन कर्त्रैव प्रयुक्तं फलदं दृष्टम् । न च विनष्टोऽपि यागः कालान्तरे फलदो भवति । सेव्यबुद्धिवत्सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणा विनष्टेऽपि कर्मणि सेव्यादिवेश्वरात्फलं कर्तुर्भवतीति युक्तम् । न तु पुनः पदार्था वाक्यशतेनापि देशान्तरे कालान्तरे वा स्वं स्वं स्वभावं जहति । न हि देशकालान्तरेषु चाग्निरनुष्णो भवति । एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेवोपलभ्यते । बीजक्षेत्रसंस्कारपरिरक्षाविज्ञानवत्कर्त्रपेक्षफलं कृष्यादि, विज्ञानवत्सेव्यबुद्धिसंस्कारापेक्षफलं च सेवादि । यागादेः कर्मणस्तथाविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कालान्तरफलत्वात्कर्मदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति, सेवादिकर्मानुरूपफलज्ञसेव्यबुद्धिसंस्कारापेक्षफलस्येव । तस्मात्सिद्धः सर्वज्ञ ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्मा । ‘यत्साक्षादपरोक्षात्’ (बृ. उ. ३ । ४ । १) ‘य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इति श्रुतेः । स एव चात्रात्मा जन्तूनाम् , ‘नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इत्याद्यात्मान्तरप्रतिषेधश्रुतेः ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति चात्मत्वोपदेशात् । न हि मृत्पिण्डः काञ्चनात्मत्वेनोपदिश्यते । ज्ञानशक्तिकर्मोपास्योपासकशुद्धाशुद्धमुक्तामुक्तभेदादात्मभेद एवेति चेत् , न ; भेददृष्ट्यपवादात् । यदुक्तं संसारिणः ईश्वारादनन्या इति तन्न । किं तर्हि ? भेद एव संसार्यात्मनाम् । कस्मात् ? लक्षणभेदात् , अश्वमहिषवत् । कथं लक्षणभेद इति, उच्यते — ईश्वरस्य तावन्नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् । तद्विपरीतं संसारिणां खद्योतस्येव । तथैव शक्तिभेदोऽपि । नित्या सर्वविषया चेश्वरशक्तिः ; विपरीतेतरस्य । कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तमीश्वरस्य । औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवत् राजायस्कान्तप्रकाशकर्मवच्च स्वात्मनोऽविक्रिया रूपम् ; विपरीतमितरस्य । ‘उपासीत’ इति वचनादुपास्य ईश्वरो गुरुराजवत् । उपासकश्चेतरः शिष्यभृत्यवत् । अपहतपाप्मादिश्रवणान्नित्यशुद्ध ईश्वरः । ‘पुण्यो वै पुण्येन’ (बृ. उ. ३ । २ । १३) इति वचनाद्विपरीत इतरः । अत एव नित्यमुक्त ईश्वरः । नित्याशुद्धियोगात्संसारीतरः । यत्र च ज्ञानादिलक्षणभेदोऽस्ति तत्र भेदो दृष्टः यथा अश्वमहिषयोः । तथा ज्ञानादिलक्षणभेदादीश्वरादात्मनां भेदोऽस्तीति चेत् , न । कस्मात् ? ‘अन्योऽसावन्योऽहमस्मीति न स वेद’ (बृ. उ. १ । ४ । १०) ‘ते क्षय्यलोका भवन्ति’ (छा. उ. ७ । २५ । २) ‘मृत्योः स मृत्युमाप्नोति’ (क. उ. २ । १ । १०) इति भेददृष्टिर्ह्यपोद्यते । एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते । यदुक्तं ज्ञानादिलक्षणभेदादिति अत्रोच्यते । न, अनभ्युपगमात् । बुद्ध्यादिभ्यो व्यतिरिक्ता विलक्षणाश्चेश्वराद्भिन्नलक्षणा आत्मानो न सन्ति । एक एवेश्वरश्चात्मा सर्वभूतानां नित्यमुक्तोऽभ्युपगम्यते । बाह्यश्च बुद्ध्यादिसमाहारसन्तानाहङ्कारममत्वादिविपरीतप्रत्ययप्रबन्धाविच्छेदलक्षणो नित्यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्मेश्वरगर्भो नित्यविज्ञानावभासः चित्तचैत्त्यबीजबीजिस्वभावः कल्पितोऽनित्यविज्ञान ईश्वरलक्षणविपरीतोऽभ्युपगम्यते । यस्याविच्छेदे संसारव्यवहारः ; विच्छेदे च मोक्षव्यवहारः । अन्यश्च मृत्प्रलेपवत्प्रत्यक्षप्रध्वंसो देवपितृमनुष्यादिलक्षणो भूतविशेषसमाहारो न पुनश्चतुर्थोऽन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते । बुद्ध्यादिकल्पितात्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादित्याश्रयासिद्धो हेतुः, ईश्वरादन्यस्यात्मनोऽसत्त्वात् । ईश्वरस्यैव विरुद्धलक्षणत्वमयुक्तमिति चेत् सुखदुःखादियोगश्च, न ; निमित्तत्वे सति लोकविपर्ययाध्यारोपणात् , सवितृवत् । यथा हि सविता नित्यप्रकाशरूपत्वाल्लोकाभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्ययेणोदयास्तमयाहोरात्रादिकर्तृत्वाध्यारोपभाग्भवति, एवमीश्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञानापोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्ध्याध्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च ; न स्वतः । आत्मदृष्ट्यनुरूपाध्यारोपाच्च । यथा घनादिविप्रकीर्णेऽम्बरे येनैव सवितृप्रकाशो न दृश्यते, स आत्मदृष्ट्यनुरूपमेवाध्यस्यति सवितेदानीमिह न प्रकाशयतीति सत्येव प्रकाशेऽन्यत्र भ्रान्त्या । एवमिह बौद्धादिवृत्त्युद्भवाभिभवाकुलभ्रान्त्याध्यारोपितः सुखदुःखादियोग उपपद्यते । तत्स्मरणाच्च । तस्यैव ईश्वरस्यैव हि स्मरणम् ‘मत्तः स्मृतिर्ज्ञानमपोहनं च’ (भ. गी. १५ । १५) ‘नादत्ते कस्यचित्पापम्’ (भ. गी. ५ । १५) इत्यादि । अतो नित्यमुक्त एकस्मिन्सवितरीव लोकाविद्याध्यारोपितमीश्वरे संसारित्वम् ; शास्त्रादिप्रामाण्यादभ्युपगतमसंसारित्वमित्यविरोध इति । एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः । सौक्ष्म्यचैतन्यसर्वगतत्वाद्यविशेषे च भेदहेत्वभावात् । विक्रियावत्त्वे चानित्यत्वात् । मोक्षे च विशेषानभ्युपगमात् अभ्युपगमे चानित्यत्वप्रसङ्गात् । अविद्यावदुपलभ्यत्वाच्च भेदस्य तत्क्षयेऽनुपपत्तिरिति सिद्धमेकत्वम् । तस्माच्छरीरेन्द्रियमनोबुद्धिविषयवेदनासन्तानस्याहङ्कारसम्बन्धादज्ञानबीजस्य नित्यविज्ञानान्यनिमित्तस्यात्मतत्त्वयाथात्म्यविज्ञानाद्विनिवृत्तावज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञा, विपर्यये च बन्धसंज्ञा ; स्वरूपापेक्षत्वादुभयोः । ब्रह्म — ह इत्यैतिह्यार्थः — पुरा किल देवासुरसङ्ग्रामे जगत्स्थितिपरिपिपालयिषया आत्मानुशासनानुवर्तिभ्यो देवेभ्यः अर्थिभ्योऽर्थाय विजिग्ये अजैषीदसुरान् । ब्रह्मण इच्छानिमित्तो विजयो देवानां बभूवेत्यर्थः । तस्य ह ब्रह्मणो विजये देवा अमहीयन्त । यज्ञादिलोकस्थित्यपहारिष्वसुरेषु पराजितेषु देवा वृद्धिं पूजां वा प्राप्तवन्तः । त ऐक्षन्तेति मिथ्याप्रत्ययत्वाद्धेयत्वख्यापनार्थ आम्नायः । ईश्वरनिमित्ते विजये स्वसामर्थ्यनिमित्तोऽस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यात्मनो जयादिश्रेयोनिमित्तं सर्वात्मानमात्मस्थं सर्वकल्याणास्पदमीश्वरमेवात्मत्वेनाबुद्ध्वा पिण्डमात्राभिमानाः सन्तो यं मिथ्याप्रत्ययं चक्रुः तस्य पिण्डमात्रविषयत्वेन मिथ्याप्रत्ययत्वात्सर्वात्मेश्वरयाथात्म्यावबोधेन हातव्यताख्यापनार्थः तद्धैषामित्याद्याख्यायिकाम्नायः । तद्ब्रह्म ह किल एषां देवानामभिप्रायं मिथ्याहङ्काररूपं विजज्ञौ विज्ञातवत् । ज्ञात्वा च मिथ्याभिमानशातनेन तदनुजिघृक्षया देवेभ्योऽर्थाय तेषामेवेन्द्रियगोचरे नातिदूरे प्रादुर्बभूव महेश्वरशक्तिमायोपात्तेनात्यन्ताद्भुतेन प्रादुर्भूतं किल केनचिद्रूपविशेषेण । तत्किलोपलभमाना अपि देवा न व्यजानत न विज्ञातवन्तः किमिदं यदेतद्यक्षं पूज्यमिति । तद्विज्ञानायाग्निमब्रुवन् । तृणनिधानेऽयमभिप्रायः — अत्यन्तसम्भावितयोरग्निमारुतयोस्तृणदहनादानाशक्त्या आत्मसम्भावना शातिता भवेदिति । इन्द्र आदित्यो वज्रभृद्वा, अविरोधात् । इन्द्रोपसर्पणे ब्रह्म तिरोदध इत्यस्यायमभिप्रायः — इन्द्रोऽहमित्यधिकतमोऽभिमानोऽस्य ; सोऽहमग्न्यादिभिः प्राप्तं वाक्सम्भाषणमात्रमप्यनेन न प्राप्तोऽस्मीत्यभिमानं कथं न नाम जह्यादिति । तदनुग्रहायैवान्तर्हितं तद्ब्रह्म बभूव । स शान्ताभिमान इन्द्रः अत्यर्थं ब्रह्म विजिज्ञासुः यस्मिन्नाकाशे ब्रह्मणः प्रादुर्भाव आसीत्तिरोधानं च, तस्मिन्नेव स्त्रियमतिरूपिणीं विद्यामाजगाम । अभिप्रायोद्बोधहेतुत्वाद्रुद्रपत्नी उमा हैमवतीव बहु शोभमाना विद्यैव । विरूपोऽपि विद्यावान्बहु शोभते ॥
समाप्तेत्यादिना ; शमाद्यर्थो वेति ; शमादि वेति ; सगुणेति ; नेदमित्यादिना ; ब्रह्मेति परो लिङ्गादिति ; नह्यन्यत्रेत्यादिना ; तत्सिद्धिरिति ; श्रुतिस्मृतिप्रसिद्धिभिरिति ; तस्येश्चरस्येत्यादिना ; यथोक्तलक्षणत्वादिति ; कर्मण एवेति चेदिति ; न परोति ; यदिदमित्यादिना ; न नित्यस्येश्वरस्येति ; न कर्मण एवेत्यादिना ; कर्तैवेत्यादिना ; न च निर्निमित्तमिति ; न चाऽऽत्मकृतमिति ; भूताश्रयमित्यादिना ; शास्त्रादित्यादिना ; न चेति ; न चेश्वरेति ; न दृष्टेति ; क्रिया हीत्यादिना ; उत्पन्नप्रध्वंसिनीति ; तस्माच्छान्ते यागादीति ; स चाऽऽत्मभूतः सर्वस्येति ; सर्वक्रियाफलेति ; नित्येति ; संसारेति ; न लिप्यत इत्यादिना ; न चेति ; न चोत्पन्नमिति ; अप्रतिषेधाच्चेति ; प्राप्तीत्यादिना ; अथवेति ; न च निमित्तान्तरनिरपेक्षमिति ; न च विनष्ट इति ; सेव्यबुद्धिवदिति ; न तु पुनरिति ; सेवादीति ; स एवेति ; ज्ञानशक्तीत्यादिना ; यदुक्तमित्यादिना ; यदुक्तमिति ; नानभ्युपगमादित्यादिना ; अन्यश्चेति ; न निमित्तत्वे सतीत्यादिना ; नित्यविज्ञानशक्तिरूप इति ; न स्वत इति ; आत्मदृष्टीति ; एतेनेति ; सौक्ष्म्येति ; विक्रियावत्त्वे चेति ; मोक्षे चेति ; अविद्यावदिति ; स्वरूपापेक्षत्वादिति ; ईश्वरनिमित्त इत्यादिना ;

“यः सुराणां जये हेतुरसुराणां पराजये ।
सत्त्वप्रधानया शक्त्या सम्पन्नः सोऽहमीश्वरः ॥” इति । ब्रह्म हेत्याद्याख्यायिकायास्तात्पर्यं सङ्गृहीतं विवृणोति –

समाप्तेत्यादिना ।

तात्पर्यान्तरमाह –

शमाद्यर्थो वेति ।

सङ्ग्रहवाक्यं विवृणोति –

शमादि वेति ।

अभिप्रायान्तरमाख्यायिकायाः सङ्गृह्णाति –

सगुणेति ।

सङ्गृहीतं विवृणोति –

नेदमित्यादिना ।

कृत्स्नाख्यायिकायास्तात्पर्यमुक्त्वा ब्रह्मशब्दार्थमाह –

ब्रह्मेति परो लिङ्गादिति ।

एतद्व्याख्याति –

नह्यन्यत्रेत्यादिना ।

कथं तर्हीश्वरसिद्धिरित्याकाङ्क्षायामाह –

तत्सिद्धिरिति ।

ननु श्रुत्यादिभिरेवेश्वरे सिद्धे किमिति जगतो नियतप्रवृत्तिलिङ्गकानुमानं सूत्रितं तत्राह –

श्रुतिस्मृतिप्रसिद्धिभिरिति ।

यावत्तर्केण सम्भवो नानुगृह्यते तावच्छास्त्रप्रतिपन्नोऽपीश्वरो न निश्चीयतेऽर्थवादत्वशङ्काप्रतिबन्धादतः शास्त्रार्थस्येश्वरस्य निश्चयाय नियमाय सामान्यतो दृष्टमनुमानं शास्त्रानुग्राहकरूपं सूत्रेणोच्यते ।

एतद्व्याख्याति –

तस्येश्चरस्येत्यादिना ।

अनादिप्रसिद्धकर्तृव्यतिरिक्तं जगद्धर्मीकृत्य यद्यपीश्वरः सिषाधयिषितस्तथापि जगतो बहूनि विशेषणानि संसारिविलक्षणकर्तृसम्भावनाय, नैयायिकास्तु व्याप्यस्य पक्षधर्मताबलाद्व्यापकविशेषः पक्षधर्मः सिध्यति ततः स्वतन्त्रमनुमानमीश्वरनिश्चायकमाहुः । तद्दूषणं प्रकटार्थे द्रष्टव्यम् । सामान्यतो दृष्टं रचयति । एतज्जगद्भोक्तॄणां कर्मणां च विभागं यो जानाति तत्पूर्वकं भवितुमर्हतीति प्रतिज्ञा । अत्र जगन्निमित्तादृष्टनिष्पत्त्यर्थो यो जीवानां प्रयत्नस्तत्पूर्वकत्वं जगतः सिद्धमिति सिद्धसाधनत्वं वदतां निरीश्वरवादिनां निरासाय विशेषणं भोक्तृकर्मविभागज्ञेति । न हि जीवानामेते भोक्तारोऽस्मिन्देशे काले वाऽस्य कर्मफलस्येति विभागज्ञानं सम्भवति । विशेषानभिज्ञत्वादित्यर्थः ।

यथोक्तलक्षणत्वादिति ।

विचित्रत्वादित्युक्ते व्यभिचारः स्यात् । आत्मादिस्वभाववैचित्र्यस्य प्रयत्नपूर्वकत्वाभावात्तदर्थं कार्यत्वे सतीति विशेषणम् । कार्यत्वादित्युक्तेऽबुद्धिपूर्वकारिकार्ये विभागज्ञप्रयत्नपूर्वकत्वं नास्तीत्यनैकान्तिकत्वं स्यात्तदर्थं यथोक्तलक्षणत्वादिति । यद्विचित्रं तद्विभागज्ञप्रयत्नपूर्वकं यथा गृहादि । जानात्येव हि तक्षादिरयं गृहादिरस्य स्वामिनो द्रव्यदानादिपूर्वकं चाऽस्य निर्माणमित्थं चेति । ततो न साध्यवैकल्यं यथाशब्दं हि साधनदूषणे । नाभिप्रायवशात् । विपक्षे व्यतिरेक आत्मादिवदित्युदाहरणम् । यद्विभागज्ञप्रयत्नपूर्वकं न भवति तद्विशिष्टकार्यमपि न भवति । यथाऽऽत्माकाशादीत्यन्वयव्यतिरेकिप्रयोग इत्यर्थः ।

विचित्रकार्यत्वमस्तु विभागज्ञप्रयत्नपूर्वकत्वं न भविष्यति किं बाधकं जगद्धैचित्र्यस्य कर्मवैचित्र्यादेव सम्भवादतः पक्ष एव साध्याभावशङ्क्या शङ्कितविपक्षे वर्तमानो हेतुः शङ्कितव्यभिचार इत्यभिप्रेत्याऽऽह –

कर्मण एवेति चेदिति ।

परिहरति –

न परोति ।

कर्तृपरतन्त्रस्य कर्मणो निमित्तमात्रत्वात्स्वातन्त्र्येण निमित्तत्वासम्भवात्कार्यवैचित्र्यस्य भङ्गप्रसङ्गो बाधकः कर्तारमन्तरेण । अतः पक्षे साध्याभावशङ्कानुपपत्तेर्न शङ्कितव्यभिचारित्वमिति भावः ।

सङ्ग्रहवाक्यस्य पूर्वपक्षभागं विवृणोति –

यदिदमित्यादिना ।

यदिदमीश्वरवादिभिरपि वैषम्यनैर्घृण्यदोषपरिहाराय कर्मणो जगद्वैचित्र्यहेतुत्वमिष्टं तत्सम्प्रतिपन्नं विहायापूर्व ईश्वरः कल्प्यते धर्मी तस्य फलहेतुत्वं च धर्मः कल्पनीय इति गौरवं स्यादित्याह –

न नित्यस्येश्वरस्येति ।

सति लाघवे गौरवं दूषणं स्यान्नेह तदस्तीत्यभिप्रेत्य सिद्धान्तं विवृणोति –

न कर्मण एवेत्यादिना ।

आत्मनोऽन्यत्प्रवर्तकमनपेक्ष्य कर्म चेन्न फलं जनयति तर्हि कर्ता जीव एव प्रयोजकोऽस्त्विति शङ्कित्वा परिहरति –

कर्तैवेत्यादिना ।

अनिष्टफलभोगसिद्ध्यन्यथानुपपत्त्या कर्तुः कर्मनियोक्तृत्वं न सम्भवति चेत्तर्हि निर्निमित्तमेव कर्म फलाकारेण परिणमत इति जरत्कर्ममीमांसकानां मतमाशङ्क्याऽऽह –

न च निर्निमित्तमिति ।

कर्तुरनिच्छया कर्म विकरोतीत्यत्र दृष्टान्ताभावाच्चर्मणोऽपि विकारस्य सनिमित्तत्वादित्यर्थः ।

यच्च सौगतेनोच्यते फलकालपर्यन्तं कर्तुरवसानाभावात् कर्तृसमवेतं कर्म किन्तु क्षणिकविज्ञानेनाऽऽत्मना कृतं कदाचित्फलस्याऽऽक्रष्ट्ट भवति । यथाऽयस्कान्तो मणिः कदाचिच्चेतनेन प्रयुक्तोऽन्यदाऽपि लोहस्य प्रेरको भवति तद्वदिति तत्राऽऽह –

न चाऽऽत्मकृतमिति ।

करणादीनि कारकाणि यः प्रेरयन्करोति स प्रधानकर्ता । तत्समवेतं कर्म प्रसिद्धं तस्य च फलकालपर्यन्तं स्थायित्वमेष्टव्यम् । अन्यथाऽकृताभ्यागमकृतविप्रणाशप्रसङ्गात्प्रत्यभिज्ञाप्रामाण्याच्चेत्यर्थः ।

लोकायतिकाभिप्रायमुद्भाव्य दूषयति –

भूताश्रयमित्यादिना ।

आधुनिककर्ममीमांसकानां मतमुद्भावयति –

शास्त्रादित्यादिना ।

यजेतेत्याख्यातपदात्सामान्येन समीहितसाधनं यागः प्रतीयते । कस्य समीहितस्य साधनमिति विशेषाकाङ्क्षायां स्वर्गकामपदसन्निधानात्काम्यमानस्वर्गसाधनत्वं यद्यप्यवगम्यते तथाऽपि क्षणिकस्य यागस्य कालान्तरीयस्वर्गसाधनत्वासम्भवान्निष्फलत्वशङ्केत्याशङ्क्याह –

न चेति ।

औषधपानादेः कर्मणः स्थायिसंस्कारद्वारेण कालान्तरीयारोग्यादिफलहेतुत्वप्रसिद्धेर्यागस्य श्रुतसाधनत्वनिर्वाहाय स्थाय्यवान्तरापूर्वं परिकल्प्यते तेन न त्वानर्थक्यं निर्दोषवाक्याधिगतत्वादित्यर्थः ।

श्रुतसाधनत्वसिद्ध्यन्यथानुपपत्त्या किमितीश्वर एव नेष्यते तत्राऽऽह –

न चेश्वरेति ।

नेयमर्थापत्तिरीश्वरास्तित्वे प्रमाणमन्यथाऽप्युपपन्नत्वात् । न च मानान्तरमस्ति । तद्विषयश्रुत्यादेरर्थवादत्वादित्यर्थः । नापूर्वद्वारेण श्रुतनिर्वाहः कल्पनीयः ।

यद्व्यवहितफलं कर्म तच्चैतन्यप्रयुक्तफलमिति दृष्टाया व्याप्तेर्हानिप्रसङ्गादतः श्रुतसाधनत्वसिद्ध्यन्यथानुपपत्त्येश्वरः फलदाता कल्पनीय इत्याह –

न दृष्टेति ।

सङ्ग्रहवाक्यं विवृणोति –

क्रिया हीत्यादिना ।

फलोदयेनापवर्गो नाशो यस्याः सा फलापवर्गिणी न फलदातारं पृथगपेक्षत इत्यर्थः ।

उत्पन्नप्रध्वंसिनीति ।

उत्पन्ना सती फलमदत्त्वैव प्रध्वंसते ततस्तत्र फलदातारं कालान्तरेऽपेक्षत इत्यर्थः ।

यागादिफलं कर्माद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह –

तस्माच्छान्ते यागादीति ।

ननु जीवस्तावत्स्वोपभोगसाधननियन्ता, तस्यापीश्वरः फलदानेन नित्यन्ता चेदिष्यते तर्हि नियन्तुः स्वव्यतिरिक्तनियम्यत्वाङ्गीकारादीश्वरस्याप्यन्यो नियन्ता प्रसज्येत नियन्तृत्वाविशेषात् । अतोऽनवस्थाप्रसङ्गबाधितमनुमानमित्याशङ्क्याऽऽह –

स चाऽऽत्मभूतः सर्वस्येति ।

कल्पितभेदमात्रेण नियम्यनियामकभावोपपत्तेर्न तात्त्विकभेदावकाशः । तात्त्विकभेदवत्त्वे च घटादिवत्कार्यत्वादिप्रसङ्गस्ततोऽतिरिक्तनियम्यत्वव्याप्त्यभावान्नानवस्थाप्रसङ्ग इत्यर्थः ।

राजवदीश्वरः फलदाता चेत्तर्हि निग्रहानुग्रहकर्तृत्वाद्रागादिमान्स्यात्तत्राऽऽह –

सर्वक्रियाफलेति ।

यथा लौकिकसाक्षी कस्यचिज्जयहेतुरन्यस्य पराजयहेतुरपि न रागादिमान्कथ्यते । यथोपलब्धभाषित्वात् । तथेश्वरः क्रियादिसाक्षी रागादिमान्न भविष्यति । अननुरूपादातृत्वात् । राजाऽप्यसाधून्दण्डयन्साधून्परिरक्षन्न रागादिमान्कथ्यत इति भावः ।

साक्षित्वे तर्हीश्वरस्येक्षणक्रिया स्यात्तत्राऽऽह –

नित्येति ।

नित्यविज्ञानस्वभावस्यानिर्वाच्यविषयावच्छेदेन साक्षित्वं कल्पितमित्यर्थः ।

सर्वस्य जीवस्याऽऽत्मभूतश्चेदीश्वरस्तर्हि संसारधर्मैर्लिप्येत संसार्यभेदादित्याशङ्क्याऽऽह –

संसारेति ।

न केवलमुपपत्तेरीश्वरसिद्धिः श्रुतेरपीत्युक्तं ताः श्रुतीरुदाहरति –

न लिप्यत इत्यादिना ।

स्मृतयश्च – “यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।”(भ.गी. १३-३२) “समं सर्वेषु भूतेषु ।” (भ. गी. १३ । २७) “ईश्वरः सर्वभूतानाम्”(भ. गी. १८ । ६१) इत्याद्याः ।

यदुक्तमर्थवादत्वादप्रामाण्यं तत्राऽऽह –

न चेति ।

ईश्वरविषयाणि वाक्यानि न कर्मविधिसन्निधिसमाम्नातानि । अतोऽनन्यशेषत्वे सति बोधकत्वात्स्वार्थे प्रमाणानि कर्मविधिवाक्यवदित्यर्थः ।

किञ्चार्थवादत्वेपि नाप्रामाण्यं पदसमन्वयबलेन जायमानस्य ज्ञानस्य बाधादर्शनात्स्वतःप्रामाण्यादस्य बाधयिता नोपपद्यत इत्याह –

न चोत्पन्नमिति ।

इतश्च नाप्रामाण्यमित्याह –

अप्रतिषेधाच्चेति ।

यथा “द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च”(बृ. उ. २ । ३ । १) इति प्रस्तुत्य “नेति नेति”(बृ. उ. ३ । ९ । २६) इति परस्तात्प्रतिषेधति नैवमीश्वरं प्रस्तुत्य प्रतिषेध उपलभ्यत इत्यर्थः ।

प्रतिषेधाभावः सत्त्वान्न भवति किन्त्वप्राप्तत्वात् । यथा रागतः प्राप्ता भूतहिंसा निषिध्यते नैवमीश्वरस्य प्राप्तिरस्तीत्यन्यथासिद्धिमाशङ्क्य परिहरति –

प्राप्तीत्यादिना ।

अप्रतिषेधादितिसङ्ग्रहवाक्यं प्रकारान्तरेण व्याचष्टे –

अथवेति ।

स्वर्गकामो यजेतेत्यादिशास्त्रं यागस्य फलदायिनीं शक्तिं द्योतयति न सहकार्यन्तरं निषेधयति । वाक्यभेदप्रसङ्गादित्यर्थः ।

इतश्च शास्त्रमयोगव्यवच्छेदकं वाच्यं नान्ययोगव्यवच्छेदकम् । स्रक्चन्दनवनितादिनिमित्तनिरपेक्षस्य कर्मणः फलहेतुत्वानुपलम्भात् । अतो यथा मानान्तरसिद्धं स्रक्चन्दनवनितादेर्निमित्तत्वमिष्टं तथेश्वरस्याप्येष्टव्यमित्याह –

न च निमित्तान्तरनिरपेक्षमिति ।

इतश्चेश्वरः फलदाता वक्त्व्यः प्रध्वस्तस्य यागस्य कारणत्वासम्भवात् । नियतपूर्वक्षणसत्त्वं हि कारणत्वम् । न चापूर्वद्वारेणोपपद्यते । असति द्वारवति द्वारत्वानुपपत्तेः । न चौषधपानादिदृष्टान्तः ।

औषधाद्यवयवानां संस्कृतानां फलकालपर्यन्तमनुवर्तमानानामेव कालान्तरीयफलहेतुत्वादित्यभिप्रेत्याऽऽह –

न च विनष्ट इति ।

कथं तर्हीश्वरो वाऽपि नष्टस्य फलदातोपपद्यते तत्राऽऽह –

सेव्यबुद्धिवदिति ।

एतत्कर्मानेनानुष्ठितमिति कर्मणेश्वरस्य बुद्धावारोह एव कर्मणा संस्कारस्तद्वशाद्विनष्टेऽपि कर्मणीश्वरात्फलं युक्तम् । यथाऽनेनाहं सेवित इति सेव्यबुद्धौ संस्कृतायां कालान्तरे विनष्टायामपि सेवायां सेव्याद्राजादेः फलं भवति तद्वदित्यर्थः ।

यद्यपि लौकिकानां कर्मणां फलसाधनत्वं चेतनाधीनं दृष्टं तथाऽपि वैदिकस्य यागादेः फलं दातारं विनाऽपि वाक्यप्रामाण्याद्भविष्यतीति नाऽऽशङ्कनीयमित्याह –

न तु पुनरिति ।

अन्वययोग्यानां पदार्थानां संसर्गबोधकमेव वाक्यं नतु तद्बलाद्दृष्टः पदार्थस्वभावस्त्यक्तुं च विज्ञानवान्यः सेव्यस्तद्बुद्धिसंस्कारापेक्षफलं दृष्टम् । तथा यागादेः कर्मणः कालान्तरफलत्वादविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कर्मादिविभागज्ञकर्त्रपेक्षफलत्वं भवितुमर्हतीत्यर्थः ।

लौकिककर्मस्वनेकविधेष्वपि मध्ये सेवायागादिरनुरूपो दृष्टान्त इत्यभिप्रेत्य पुनराह –

सेवादीति ।

सेवादिकर्मानुरूपं फलं जानाति यः सेव्यस्तद्बुद्धौ यः संस्कारस्तदपेक्षफलस्य सेवादेर्यथा न स्वातन्त्र्यं तद्वदित्यर्थः ।

एवं तावन्निरीश्वरवादिनं प्रतीश्वरं प्रसाध्य सेश्वरवादिनामभिमतवास्तवभेदनिरासाय प्रक्रमते –

स एवेति ।

जीव ईश्वराद्भिन्नस्तद्विरुद्धधर्माक्रान्तत्वात् । यो यद्विरुद्धधर्माक्रान्तः स ततो भिन्नः । यथाऽश्वान्महिष इत्यनुमानमुद्भाव्य तस्य भेदनिन्दानुपपत्त्यनुगृहीताभेदश्रुतिविरोधात्कालात्ययापदिष्टत्वमाह –

ज्ञानशक्तीत्यादिना ।

सङ्ग्रहवाक्यं विवृणोति –

यदुक्तमित्यादिना ।

स्वात्मनोऽविक्रियारूपं जगदुपादानादिलक्षणं कर्मेश्वरस्येत्यर्थः ।

दुषणान्तराभिधित्सयाऽनुवदति –

यदुक्तमिति ।

जीवाः किं बुद्ध्यादिविशिष्टाश्चित्प्रतिबिम्बा धर्मित्वेन गृह्यन्ते किंवा देवमनुष्यादिशब्दवाच्याः सचितिका देहाः किंवा तृतीयो विलक्षणः निरुपाधिकभेदभिन्नश्चेतनः । आद्ये सिद्धसाधनत्वमाह –

नानभ्युपगमादित्यादिना ।

चित्तं ज्ञानं चैत्याः सुखादयो बीजमविद्यादि बीजि शरीरं तत्स्वभावविशिष्टस्य विशेषणतादात्म्यादित्यर्थः । यस्य विशिष्टरूपस्याविच्छेदे तत्प्रविष्टचित्स्वरूपस्य संसारव्यवहारो यस्य च विच्छेदे प्रतिबिम्बरूपस्य बिम्बसम्पत्त्या मोक्षव्यवहारो भवति स कल्पितरूपः पृथगभ्युपगम्यतेऽतः सिद्धसाधनमित्यर्थः ।

द्वितीयविकल्पेऽपि सिद्धसाधनत्वमाह –

अन्यश्चेति ।

तृतीयविकल्पे बुद्ध्यादिकल्पितेभ्यो विशिष्टात्मभ्यो व्यतिरेकेण निरुपाधिकस्वरूपाभिप्रायेण पक्षीकरणे हेतुराश्रयासिद्धस्तादृशस्याऽश्रयस्य मानविकलत्वादित्यर्थः ।

ईश्वरादन्य आत्मा नास्तीति वदता सर्वोपाधिस्थ ईश्वर एवाऽऽत्मेत्युक्तं भवति । तदा च बद्धत्वमुक्तत्वादिविरुद्धधर्मत्वं सुखदुःखादियोगश्चासङ्गस्य विरुद्धः प्रसज्येतेत्यतो वास्तवमसंसारित्वं कल्पितेन संसारित्वेन न विरुध्यत इति दर्शयितुं यस्य यस्यान्तःकरणादिविकारस्योदयादेः सन्निधिमात्रेणाऽऽत्मा निमित्तं तस्य तस्य लोकैरहङ्कारादिभिर्विपरीतरूपस्याध्यारोपणादात्मनः संसारित्वमित्याह –

न निमित्तत्वे सतीत्यादिना ।

ईश्वरे सुखाद्यारोप इत्युक्ते मायोपाधिके ब्रह्मणीश्वरशब्दवाच्ये सुखाद्यध्यासशङ्का स्यात्तन्निवृत्त्यर्थमाह –

नित्यविज्ञानशक्तिरूप इति ।

यथाऽग्न्यादिशक्तिः शक्त्यन्तरमन्तरेण स्वस्वभावादेव कार्योत्पादनानुकूला तथा नित्यविज्ञानं स्वभावसन्निधिमात्रेणान्तःकरणादिप्रवृत्तिनिमित्तमिति शक्तिरूपमुच्यते । तस्मिन्स्वातन्त्र्यादीश्वरपदलक्ष्ये विरुद्धानेकधर्माध्यासो न विरुध्यत इत्यर्थः । लोकस्य ज्ञानापोहो विस्मरणम् ।

न स्वत इति ।

न परमार्थतो विरुद्धानेकधर्मवत्त्वमित्यर्थः ।

भ्रान्तस्य स्वदृष्ट्यनुरूपाध्यासारोपदर्शनाच्च नाध्यासो वस्तुक्षतिकर इत्याह –

आत्मदृष्टीति ।

बौद्धादिवृत्तीनामुद्भवाभिभवाभ्यामाकुलस्य । वैचित्र्यमापन्नस्य वृत्तीनामेवोद्भवाभिभवौ न तद्व्यापकचैतन्यस्येति विवेकशून्यलोकस्य भ्रान्त्येति योजना । चैतन्यस्य ज्ञानसुखाद्युत्पादे निमित्तत्वं न केवलमन्वयव्यतिरेकसिद्धम् । तत्स्मरणाच्च भगवद्वाक्याच्च सिद्धमित्यर्थः । ईश्वरे संसारित्वमीश्वरः संसारीतिप्रसिद्ध्यभावाद्विशिष्टानुगतचित्स्वरूप इति व्याख्येयम् ।

एतेनेति ।

सिद्धसाधनत्वादिदूषणेन प्रतिशरीरं ज्ञानसुखादीनामाश्रयभेदस्तात्त्विकः प्रत्युक्तो मन्तव्यः । किञ्च व्यावर्तकधर्मवशाद्व्यावृत्तिः सिध्यति । साङ्ख्यमते च पुरुषाणां चैतन्यमात्ररूपाणां न व्यावर्तको धर्मोऽस्ति । वैशेषिकमते त्वन्त्यविशेषकल्पनाऽन्योन्याश्रयपराहता ।

अतो निर्विशेषत्वात्पुंसां न भेदस्तात्त्विक इत्याह –

सौक्ष्म्येति ।

कश्चिद्दुःखी कश्चित्सुखीति दुःखादिविक्रियाव्यवस्थान्यथानुपपत्याऽऽश्रयभेदस्तात्त्विकःकल्प्यते तत्राऽऽह –

विक्रियावत्त्वे चेति ।

सुखादिविक्रियाणामुपाधिधर्मत्वान्नाऽऽत्मभेदसाधकत्वं व्यधिकरणासिद्धत्वादित्यर्थः ।

किञ्च न सर्वैरेव मोक्षे विक्रियादिविशेष इष्यते । स्वरूपावस्थानं च मोक्षस्ततः सविशेषत्वं न स्वाभाविकमित्याह –

मोक्षे चेति ।

किञ्च जाग्रत्स्वप्नयोरविद्यावद्भिः भ्रान्तैरुपलम्भात् सुषुप्तिसमाध्योर्भ्रान्त्यभावेऽनुपलम्भात् मिथ्यात्वं भेदस्य सिद्धमित्याह –

अविद्यावदिति ।

जीवानां क्रमेणानेकशरीरानुयायित्वात्प्रातिभासिकस्य शरीरादिसन्तानस्य मिथ्याभिमानविषयत्वाच्छुक्तिरूप्यवदज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञेति सम्बन्धः ।

आत्मन इति कस्मादुच्यते विशिष्टस्य बन्धमोक्षौ किं नेष्येते तत्राऽऽह –

स्वरूपापेक्षत्वादिति ।

विशिष्टस्य मोक्षेऽन्वयासम्भवादन्वये वा संसारानिवृत्तिप्रसङ्गादन्यस्य च बन्धेऽन्यस्य च मोक्षे साधनवैयर्थ्यादुपाधिवैशिष्ट्यद्वारेण स्वरूपस्यैवोपाधिप्रतिबिम्बकल्पस्य बन्धमोक्षौ । प्रतिबिम्बो हि वाच्यरूपेण मिथ्या लक्ष्यरूपेण तु बिम्बमेव स्वरूपावस्थानं मुक्तिरुपपद्यते । तदुक्तम् – “ उपाधिना सार्धमुपाधिजन्यमौपाधिकं सर्वमवेहि मिथ्या ।
भागं मृषा चित्प्रतिबिम्बकेऽपि बिम्बं पुनः सत्यमशेषमेव” इति च ॥ १५ - १ ॥ त ऐक्षन्तेति देवानामीक्षणस्य मिथ्याप्रत्ययत्वान्मिथ्याभिमानस्य हेयत्वख्यापनार्थो ब्रह्मणः प्रादुर्भाव इति योजना ।

सूत्रमिदं व्याख्याति –

ईश्वरनिमित्त इत्यादिना ।

जयादि श्रेष्ठत्वे निमित्तं मन्यमाना इति शेषः ॥ १६ - २ ॥ १७ - ३ ॥ १८ - ४ ॥ १९ - ५ ॥ २० - ६ ॥ २१ - ७ ॥ २२ - ८ ॥ २३ - ९ ॥ २४ - १० ॥ २५ - ११ ॥ २६ - १२ ॥

इति तृतीयः खण्डः ॥