“यः सुराणां जये हेतुरसुराणां पराजये ।
सत्त्वप्रधानया शक्त्या सम्पन्नः सोऽहमीश्वरः ॥” इति । ब्रह्म हेत्याद्याख्यायिकायास्तात्पर्यं सङ्गृहीतं विवृणोति –
समाप्तेत्यादिना ।
तात्पर्यान्तरमाह –
शमाद्यर्थो वेति ।
सङ्ग्रहवाक्यं विवृणोति –
शमादि वेति ।
अभिप्रायान्तरमाख्यायिकायाः सङ्गृह्णाति –
सगुणेति ।
सङ्गृहीतं विवृणोति –
नेदमित्यादिना ।
कृत्स्नाख्यायिकायास्तात्पर्यमुक्त्वा ब्रह्मशब्दार्थमाह –
ब्रह्मेति परो लिङ्गादिति ।
एतद्व्याख्याति –
नह्यन्यत्रेत्यादिना ।
कथं तर्हीश्वरसिद्धिरित्याकाङ्क्षायामाह –
तत्सिद्धिरिति ।
ननु श्रुत्यादिभिरेवेश्वरे सिद्धे किमिति जगतो नियतप्रवृत्तिलिङ्गकानुमानं सूत्रितं तत्राह –
श्रुतिस्मृतिप्रसिद्धिभिरिति ।
यावत्तर्केण सम्भवो नानुगृह्यते तावच्छास्त्रप्रतिपन्नोऽपीश्वरो न निश्चीयतेऽर्थवादत्वशङ्काप्रतिबन्धादतः शास्त्रार्थस्येश्वरस्य निश्चयाय नियमाय सामान्यतो दृष्टमनुमानं शास्त्रानुग्राहकरूपं सूत्रेणोच्यते ।
एतद्व्याख्याति –
तस्येश्चरस्येत्यादिना ।
अनादिप्रसिद्धकर्तृव्यतिरिक्तं जगद्धर्मीकृत्य यद्यपीश्वरः सिषाधयिषितस्तथापि जगतो बहूनि विशेषणानि संसारिविलक्षणकर्तृसम्भावनाय, नैयायिकास्तु व्याप्यस्य पक्षधर्मताबलाद्व्यापकविशेषः पक्षधर्मः सिध्यति ततः स्वतन्त्रमनुमानमीश्वरनिश्चायकमाहुः । तद्दूषणं प्रकटार्थे द्रष्टव्यम् । सामान्यतो दृष्टं रचयति । एतज्जगद्भोक्तॄणां कर्मणां च विभागं यो जानाति तत्पूर्वकं भवितुमर्हतीति प्रतिज्ञा । अत्र जगन्निमित्तादृष्टनिष्पत्त्यर्थो यो जीवानां प्रयत्नस्तत्पूर्वकत्वं जगतः सिद्धमिति सिद्धसाधनत्वं वदतां निरीश्वरवादिनां निरासाय विशेषणं भोक्तृकर्मविभागज्ञेति । न हि जीवानामेते भोक्तारोऽस्मिन्देशे काले वाऽस्य कर्मफलस्येति विभागज्ञानं सम्भवति । विशेषानभिज्ञत्वादित्यर्थः ।
यथोक्तलक्षणत्वादिति ।
विचित्रत्वादित्युक्ते व्यभिचारः स्यात् । आत्मादिस्वभाववैचित्र्यस्य प्रयत्नपूर्वकत्वाभावात्तदर्थं कार्यत्वे सतीति विशेषणम् । कार्यत्वादित्युक्तेऽबुद्धिपूर्वकारिकार्ये विभागज्ञप्रयत्नपूर्वकत्वं नास्तीत्यनैकान्तिकत्वं स्यात्तदर्थं यथोक्तलक्षणत्वादिति । यद्विचित्रं तद्विभागज्ञप्रयत्नपूर्वकं यथा गृहादि । जानात्येव हि तक्षादिरयं गृहादिरस्य स्वामिनो द्रव्यदानादिपूर्वकं चाऽस्य निर्माणमित्थं चेति । ततो न साध्यवैकल्यं यथाशब्दं हि साधनदूषणे । नाभिप्रायवशात् । विपक्षे व्यतिरेक आत्मादिवदित्युदाहरणम् । यद्विभागज्ञप्रयत्नपूर्वकं न भवति तद्विशिष्टकार्यमपि न भवति । यथाऽऽत्माकाशादीत्यन्वयव्यतिरेकिप्रयोग इत्यर्थः ।
विचित्रकार्यत्वमस्तु विभागज्ञप्रयत्नपूर्वकत्वं न भविष्यति किं बाधकं जगद्धैचित्र्यस्य कर्मवैचित्र्यादेव सम्भवादतः पक्ष एव साध्याभावशङ्क्या शङ्कितविपक्षे वर्तमानो हेतुः शङ्कितव्यभिचार इत्यभिप्रेत्याऽऽह –
कर्मण एवेति चेदिति ।
परिहरति –
न परोति ।
कर्तृपरतन्त्रस्य कर्मणो निमित्तमात्रत्वात्स्वातन्त्र्येण निमित्तत्वासम्भवात्कार्यवैचित्र्यस्य भङ्गप्रसङ्गो बाधकः कर्तारमन्तरेण । अतः पक्षे साध्याभावशङ्कानुपपत्तेर्न शङ्कितव्यभिचारित्वमिति भावः ।
सङ्ग्रहवाक्यस्य पूर्वपक्षभागं विवृणोति –
यदिदमित्यादिना ।
यदिदमीश्वरवादिभिरपि वैषम्यनैर्घृण्यदोषपरिहाराय कर्मणो जगद्वैचित्र्यहेतुत्वमिष्टं तत्सम्प्रतिपन्नं विहायापूर्व ईश्वरः कल्प्यते धर्मी तस्य फलहेतुत्वं च धर्मः कल्पनीय इति गौरवं स्यादित्याह –
न नित्यस्येश्वरस्येति ।
सति लाघवे गौरवं दूषणं स्यान्नेह तदस्तीत्यभिप्रेत्य सिद्धान्तं विवृणोति –
न कर्मण एवेत्यादिना ।
आत्मनोऽन्यत्प्रवर्तकमनपेक्ष्य कर्म चेन्न फलं जनयति तर्हि कर्ता जीव एव प्रयोजकोऽस्त्विति शङ्कित्वा परिहरति –
कर्तैवेत्यादिना ।
अनिष्टफलभोगसिद्ध्यन्यथानुपपत्त्या कर्तुः कर्मनियोक्तृत्वं न सम्भवति चेत्तर्हि निर्निमित्तमेव कर्म फलाकारेण परिणमत इति जरत्कर्ममीमांसकानां मतमाशङ्क्याऽऽह –
न च निर्निमित्तमिति ।
कर्तुरनिच्छया कर्म विकरोतीत्यत्र दृष्टान्ताभावाच्चर्मणोऽपि विकारस्य सनिमित्तत्वादित्यर्थः ।
यच्च सौगतेनोच्यते फलकालपर्यन्तं कर्तुरवसानाभावात् कर्तृसमवेतं कर्म किन्तु क्षणिकविज्ञानेनाऽऽत्मना कृतं कदाचित्फलस्याऽऽक्रष्ट्ट भवति । यथाऽयस्कान्तो मणिः कदाचिच्चेतनेन प्रयुक्तोऽन्यदाऽपि लोहस्य प्रेरको भवति तद्वदिति तत्राऽऽह –
न चाऽऽत्मकृतमिति ।
करणादीनि कारकाणि यः प्रेरयन्करोति स प्रधानकर्ता । तत्समवेतं कर्म प्रसिद्धं तस्य च फलकालपर्यन्तं स्थायित्वमेष्टव्यम् । अन्यथाऽकृताभ्यागमकृतविप्रणाशप्रसङ्गात्प्रत्यभिज्ञाप्रामाण्याच्चेत्यर्थः ।
लोकायतिकाभिप्रायमुद्भाव्य दूषयति –
भूताश्रयमित्यादिना ।
आधुनिककर्ममीमांसकानां मतमुद्भावयति –
शास्त्रादित्यादिना ।
यजेतेत्याख्यातपदात्सामान्येन समीहितसाधनं यागः प्रतीयते । कस्य समीहितस्य साधनमिति विशेषाकाङ्क्षायां स्वर्गकामपदसन्निधानात्काम्यमानस्वर्गसाधनत्वं यद्यप्यवगम्यते तथाऽपि क्षणिकस्य यागस्य कालान्तरीयस्वर्गसाधनत्वासम्भवान्निष्फलत्वशङ्केत्याशङ्क्याह –
न चेति ।
औषधपानादेः कर्मणः स्थायिसंस्कारद्वारेण कालान्तरीयारोग्यादिफलहेतुत्वप्रसिद्धेर्यागस्य श्रुतसाधनत्वनिर्वाहाय स्थाय्यवान्तरापूर्वं परिकल्प्यते तेन न त्वानर्थक्यं निर्दोषवाक्याधिगतत्वादित्यर्थः ।
श्रुतसाधनत्वसिद्ध्यन्यथानुपपत्त्या किमितीश्वर एव नेष्यते तत्राऽऽह –
न चेश्वरेति ।
नेयमर्थापत्तिरीश्वरास्तित्वे प्रमाणमन्यथाऽप्युपपन्नत्वात् । न च मानान्तरमस्ति । तद्विषयश्रुत्यादेरर्थवादत्वादित्यर्थः । नापूर्वद्वारेण श्रुतनिर्वाहः कल्पनीयः ।
यद्व्यवहितफलं कर्म तच्चैतन्यप्रयुक्तफलमिति दृष्टाया व्याप्तेर्हानिप्रसङ्गादतः श्रुतसाधनत्वसिद्ध्यन्यथानुपपत्त्येश्वरः फलदाता कल्पनीय इत्याह –
न दृष्टेति ।
सङ्ग्रहवाक्यं विवृणोति –
क्रिया हीत्यादिना ।
फलोदयेनापवर्गो नाशो यस्याः सा फलापवर्गिणी न फलदातारं पृथगपेक्षत इत्यर्थः ।
उत्पन्नप्रध्वंसिनीति ।
उत्पन्ना सती फलमदत्त्वैव प्रध्वंसते ततस्तत्र फलदातारं कालान्तरेऽपेक्षत इत्यर्थः ।
यागादिफलं कर्माद्यभिज्ञेन दीयमानं व्यवहितफलत्वात्सेवाफलवदित्याह –
तस्माच्छान्ते यागादीति ।
ननु जीवस्तावत्स्वोपभोगसाधननियन्ता, तस्यापीश्वरः फलदानेन नित्यन्ता चेदिष्यते तर्हि नियन्तुः स्वव्यतिरिक्तनियम्यत्वाङ्गीकारादीश्वरस्याप्यन्यो नियन्ता प्रसज्येत नियन्तृत्वाविशेषात् । अतोऽनवस्थाप्रसङ्गबाधितमनुमानमित्याशङ्क्याऽऽह –
स चाऽऽत्मभूतः सर्वस्येति ।
कल्पितभेदमात्रेण नियम्यनियामकभावोपपत्तेर्न तात्त्विकभेदावकाशः । तात्त्विकभेदवत्त्वे च घटादिवत्कार्यत्वादिप्रसङ्गस्ततोऽतिरिक्तनियम्यत्वव्याप्त्यभावान्नानवस्थाप्रसङ्ग इत्यर्थः ।
राजवदीश्वरः फलदाता चेत्तर्हि निग्रहानुग्रहकर्तृत्वाद्रागादिमान्स्यात्तत्राऽऽह –
सर्वक्रियाफलेति ।
यथा लौकिकसाक्षी कस्यचिज्जयहेतुरन्यस्य पराजयहेतुरपि न रागादिमान्कथ्यते । यथोपलब्धभाषित्वात् । तथेश्वरः क्रियादिसाक्षी रागादिमान्न भविष्यति । अननुरूपादातृत्वात् । राजाऽप्यसाधून्दण्डयन्साधून्परिरक्षन्न रागादिमान्कथ्यत इति भावः ।
साक्षित्वे तर्हीश्वरस्येक्षणक्रिया स्यात्तत्राऽऽह –
नित्येति ।
नित्यविज्ञानस्वभावस्यानिर्वाच्यविषयावच्छेदेन साक्षित्वं कल्पितमित्यर्थः ।
सर्वस्य जीवस्याऽऽत्मभूतश्चेदीश्वरस्तर्हि संसारधर्मैर्लिप्येत संसार्यभेदादित्याशङ्क्याऽऽह –
संसारेति ।
न केवलमुपपत्तेरीश्वरसिद्धिः श्रुतेरपीत्युक्तं ताः श्रुतीरुदाहरति –
न लिप्यत इत्यादिना ।
स्मृतयश्च – “यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।”(भ.गी. १३-३२) “समं सर्वेषु भूतेषु ।” (भ. गी. १३ । २७) “ईश्वरः सर्वभूतानाम्”(भ. गी. १८ । ६१) इत्याद्याः ।
यदुक्तमर्थवादत्वादप्रामाण्यं तत्राऽऽह –
न चेति ।
ईश्वरविषयाणि वाक्यानि न कर्मविधिसन्निधिसमाम्नातानि । अतोऽनन्यशेषत्वे सति बोधकत्वात्स्वार्थे प्रमाणानि कर्मविधिवाक्यवदित्यर्थः ।
किञ्चार्थवादत्वेपि नाप्रामाण्यं पदसमन्वयबलेन जायमानस्य ज्ञानस्य बाधादर्शनात्स्वतःप्रामाण्यादस्य बाधयिता नोपपद्यत इत्याह –
न चोत्पन्नमिति ।
इतश्च नाप्रामाण्यमित्याह –
अप्रतिषेधाच्चेति ।
यथा “द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च”(बृ. उ. २ । ३ । १) इति प्रस्तुत्य “नेति नेति”(बृ. उ. ३ । ९ । २६) इति परस्तात्प्रतिषेधति नैवमीश्वरं प्रस्तुत्य प्रतिषेध उपलभ्यत इत्यर्थः ।
प्रतिषेधाभावः सत्त्वान्न भवति किन्त्वप्राप्तत्वात् । यथा रागतः प्राप्ता भूतहिंसा निषिध्यते नैवमीश्वरस्य प्राप्तिरस्तीत्यन्यथासिद्धिमाशङ्क्य परिहरति –
प्राप्तीत्यादिना ।
अप्रतिषेधादितिसङ्ग्रहवाक्यं प्रकारान्तरेण व्याचष्टे –
अथवेति ।
स्वर्गकामो यजेतेत्यादिशास्त्रं यागस्य फलदायिनीं शक्तिं द्योतयति न सहकार्यन्तरं निषेधयति । वाक्यभेदप्रसङ्गादित्यर्थः ।
इतश्च शास्त्रमयोगव्यवच्छेदकं वाच्यं नान्ययोगव्यवच्छेदकम् । स्रक्चन्दनवनितादिनिमित्तनिरपेक्षस्य कर्मणः फलहेतुत्वानुपलम्भात् । अतो यथा मानान्तरसिद्धं स्रक्चन्दनवनितादेर्निमित्तत्वमिष्टं तथेश्वरस्याप्येष्टव्यमित्याह –
न च निमित्तान्तरनिरपेक्षमिति ।
इतश्चेश्वरः फलदाता वक्त्व्यः प्रध्वस्तस्य यागस्य कारणत्वासम्भवात् । नियतपूर्वक्षणसत्त्वं हि कारणत्वम् । न चापूर्वद्वारेणोपपद्यते । असति द्वारवति द्वारत्वानुपपत्तेः । न चौषधपानादिदृष्टान्तः ।
औषधाद्यवयवानां संस्कृतानां फलकालपर्यन्तमनुवर्तमानानामेव कालान्तरीयफलहेतुत्वादित्यभिप्रेत्याऽऽह –
न च विनष्ट इति ।
कथं तर्हीश्वरो वाऽपि नष्टस्य फलदातोपपद्यते तत्राऽऽह –
सेव्यबुद्धिवदिति ।
एतत्कर्मानेनानुष्ठितमिति कर्मणेश्वरस्य बुद्धावारोह एव कर्मणा संस्कारस्तद्वशाद्विनष्टेऽपि कर्मणीश्वरात्फलं युक्तम् । यथाऽनेनाहं सेवित इति सेव्यबुद्धौ संस्कृतायां कालान्तरे विनष्टायामपि सेवायां सेव्याद्राजादेः फलं भवति तद्वदित्यर्थः ।
यद्यपि लौकिकानां कर्मणां फलसाधनत्वं चेतनाधीनं दृष्टं तथाऽपि वैदिकस्य यागादेः फलं दातारं विनाऽपि वाक्यप्रामाण्याद्भविष्यतीति नाऽऽशङ्कनीयमित्याह –
न तु पुनरिति ।
अन्वययोग्यानां पदार्थानां संसर्गबोधकमेव वाक्यं नतु तद्बलाद्दृष्टः पदार्थस्वभावस्त्यक्तुं च विज्ञानवान्यः सेव्यस्तद्बुद्धिसंस्कारापेक्षफलं दृष्टम् । तथा यागादेः कर्मणः कालान्तरफलत्वादविज्ञानवत्कर्त्रपेक्षफलत्वानुपपत्तौ कर्मादिविभागज्ञकर्त्रपेक्षफलत्वं भवितुमर्हतीत्यर्थः ।
लौकिककर्मस्वनेकविधेष्वपि मध्ये सेवायागादिरनुरूपो दृष्टान्त इत्यभिप्रेत्य पुनराह –
सेवादीति ।
सेवादिकर्मानुरूपं फलं जानाति यः सेव्यस्तद्बुद्धौ यः संस्कारस्तदपेक्षफलस्य सेवादेर्यथा न स्वातन्त्र्यं तद्वदित्यर्थः ।
एवं तावन्निरीश्वरवादिनं प्रतीश्वरं प्रसाध्य सेश्वरवादिनामभिमतवास्तवभेदनिरासाय प्रक्रमते –
स एवेति ।
जीव ईश्वराद्भिन्नस्तद्विरुद्धधर्माक्रान्तत्वात् । यो यद्विरुद्धधर्माक्रान्तः स ततो भिन्नः । यथाऽश्वान्महिष इत्यनुमानमुद्भाव्य तस्य भेदनिन्दानुपपत्त्यनुगृहीताभेदश्रुतिविरोधात्कालात्ययापदिष्टत्वमाह –
ज्ञानशक्तीत्यादिना ।
सङ्ग्रहवाक्यं विवृणोति –
यदुक्तमित्यादिना ।
स्वात्मनोऽविक्रियारूपं जगदुपादानादिलक्षणं कर्मेश्वरस्येत्यर्थः ।
दुषणान्तराभिधित्सयाऽनुवदति –
यदुक्तमिति ।
जीवाः किं बुद्ध्यादिविशिष्टाश्चित्प्रतिबिम्बा धर्मित्वेन गृह्यन्ते किंवा देवमनुष्यादिशब्दवाच्याः सचितिका देहाः किंवा तृतीयो विलक्षणः निरुपाधिकभेदभिन्नश्चेतनः । आद्ये सिद्धसाधनत्वमाह –
नानभ्युपगमादित्यादिना ।
चित्तं ज्ञानं चैत्याः सुखादयो बीजमविद्यादि बीजि शरीरं तत्स्वभावविशिष्टस्य विशेषणतादात्म्यादित्यर्थः । यस्य विशिष्टरूपस्याविच्छेदे तत्प्रविष्टचित्स्वरूपस्य संसारव्यवहारो यस्य च विच्छेदे प्रतिबिम्बरूपस्य बिम्बसम्पत्त्या मोक्षव्यवहारो भवति स कल्पितरूपः पृथगभ्युपगम्यतेऽतः सिद्धसाधनमित्यर्थः ।
द्वितीयविकल्पेऽपि सिद्धसाधनत्वमाह –
अन्यश्चेति ।
तृतीयविकल्पे बुद्ध्यादिकल्पितेभ्यो विशिष्टात्मभ्यो व्यतिरेकेण निरुपाधिकस्वरूपाभिप्रायेण पक्षीकरणे हेतुराश्रयासिद्धस्तादृशस्याऽश्रयस्य मानविकलत्वादित्यर्थः ।
ईश्वरादन्य आत्मा नास्तीति वदता सर्वोपाधिस्थ ईश्वर एवाऽऽत्मेत्युक्तं भवति । तदा च बद्धत्वमुक्तत्वादिविरुद्धधर्मत्वं सुखदुःखादियोगश्चासङ्गस्य विरुद्धः प्रसज्येतेत्यतो वास्तवमसंसारित्वं कल्पितेन संसारित्वेन न विरुध्यत इति दर्शयितुं यस्य यस्यान्तःकरणादिविकारस्योदयादेः सन्निधिमात्रेणाऽऽत्मा निमित्तं तस्य तस्य लोकैरहङ्कारादिभिर्विपरीतरूपस्याध्यारोपणादात्मनः संसारित्वमित्याह –
न निमित्तत्वे सतीत्यादिना ।
ईश्वरे सुखाद्यारोप इत्युक्ते मायोपाधिके ब्रह्मणीश्वरशब्दवाच्ये सुखाद्यध्यासशङ्का स्यात्तन्निवृत्त्यर्थमाह –
नित्यविज्ञानशक्तिरूप इति ।
यथाऽग्न्यादिशक्तिः शक्त्यन्तरमन्तरेण स्वस्वभावादेव कार्योत्पादनानुकूला तथा नित्यविज्ञानं स्वभावसन्निधिमात्रेणान्तःकरणादिप्रवृत्तिनिमित्तमिति शक्तिरूपमुच्यते । तस्मिन्स्वातन्त्र्यादीश्वरपदलक्ष्ये विरुद्धानेकधर्माध्यासो न विरुध्यत इत्यर्थः । लोकस्य ज्ञानापोहो विस्मरणम् ।
न स्वत इति ।
न परमार्थतो विरुद्धानेकधर्मवत्त्वमित्यर्थः ।
भ्रान्तस्य स्वदृष्ट्यनुरूपाध्यासारोपदर्शनाच्च नाध्यासो वस्तुक्षतिकर इत्याह –
आत्मदृष्टीति ।
बौद्धादिवृत्तीनामुद्भवाभिभवाभ्यामाकुलस्य । वैचित्र्यमापन्नस्य वृत्तीनामेवोद्भवाभिभवौ न तद्व्यापकचैतन्यस्येति विवेकशून्यलोकस्य भ्रान्त्येति योजना । चैतन्यस्य ज्ञानसुखाद्युत्पादे निमित्तत्वं न केवलमन्वयव्यतिरेकसिद्धम् । तत्स्मरणाच्च भगवद्वाक्याच्च सिद्धमित्यर्थः । ईश्वरे संसारित्वमीश्वरः संसारीतिप्रसिद्ध्यभावाद्विशिष्टानुगतचित्स्वरूप इति व्याख्येयम् ।
एतेनेति ।
सिद्धसाधनत्वादिदूषणेन प्रतिशरीरं ज्ञानसुखादीनामाश्रयभेदस्तात्त्विकः प्रत्युक्तो मन्तव्यः । किञ्च व्यावर्तकधर्मवशाद्व्यावृत्तिः सिध्यति । साङ्ख्यमते च पुरुषाणां चैतन्यमात्ररूपाणां न व्यावर्तको धर्मोऽस्ति । वैशेषिकमते त्वन्त्यविशेषकल्पनाऽन्योन्याश्रयपराहता ।
अतो निर्विशेषत्वात्पुंसां न भेदस्तात्त्विक इत्याह –
सौक्ष्म्येति ।
कश्चिद्दुःखी कश्चित्सुखीति दुःखादिविक्रियाव्यवस्थान्यथानुपपत्याऽऽश्रयभेदस्तात्त्विकःकल्प्यते तत्राऽऽह –
विक्रियावत्त्वे चेति ।
सुखादिविक्रियाणामुपाधिधर्मत्वान्नाऽऽत्मभेदसाधकत्वं व्यधिकरणासिद्धत्वादित्यर्थः ।
किञ्च न सर्वैरेव मोक्षे विक्रियादिविशेष इष्यते । स्वरूपावस्थानं च मोक्षस्ततः सविशेषत्वं न स्वाभाविकमित्याह –
मोक्षे चेति ।
किञ्च जाग्रत्स्वप्नयोरविद्यावद्भिः भ्रान्तैरुपलम्भात् सुषुप्तिसमाध्योर्भ्रान्त्यभावेऽनुपलम्भात् मिथ्यात्वं भेदस्य सिद्धमित्याह –
अविद्यावदिति ।
जीवानां क्रमेणानेकशरीरानुयायित्वात्प्रातिभासिकस्य शरीरादिसन्तानस्य मिथ्याभिमानविषयत्वाच्छुक्तिरूप्यवदज्ञानबीजस्य विच्छेद आत्मनो मोक्षसंज्ञेति सम्बन्धः ।
आत्मन इति कस्मादुच्यते विशिष्टस्य बन्धमोक्षौ किं नेष्येते तत्राऽऽह –
स्वरूपापेक्षत्वादिति ।
विशिष्टस्य मोक्षेऽन्वयासम्भवादन्वये वा संसारानिवृत्तिप्रसङ्गादन्यस्य च बन्धेऽन्यस्य च मोक्षे साधनवैयर्थ्यादुपाधिवैशिष्ट्यद्वारेण स्वरूपस्यैवोपाधिप्रतिबिम्बकल्पस्य बन्धमोक्षौ । प्रतिबिम्बो हि वाच्यरूपेण मिथ्या लक्ष्यरूपेण तु बिम्बमेव स्वरूपावस्थानं मुक्तिरुपपद्यते । तदुक्तम् – “ उपाधिना सार्धमुपाधिजन्यमौपाधिकं सर्वमवेहि मिथ्या ।
भागं मृषा चित्प्रतिबिम्बकेऽपि बिम्बं पुनः सत्यमशेषमेव” इति च ॥ १५ - १ ॥ त ऐक्षन्तेति देवानामीक्षणस्य मिथ्याप्रत्ययत्वान्मिथ्याभिमानस्य हेयत्वख्यापनार्थो ब्रह्मणः प्रादुर्भाव इति योजना ।
सूत्रमिदं व्याख्याति –
ईश्वरनिमित्त इत्यादिना ।
जयादि श्रेष्ठत्वे निमित्तं मन्यमाना इति शेषः ॥ १६ - २ ॥ १७ - ३ ॥ १८ - ४ ॥ १९ - ५ ॥ २० - ६ ॥ २१ - ७ ॥ २२ - ८ ॥ २३ - ९ ॥ २४ - १० ॥ २५ - ११ ॥ २६ - १२ ॥