केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन्न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४ ॥
तां च पृष्ट्वा तस्या एव वचनात् विदाञ्चकार विदितवान् । अत इन्द्रस्य बोधहेतुत्वाद्विद्यैवोमा । ‘विद्यासहायवानीश्वरः’ इति स्मृतिः । यस्मादिन्द्रविज्ञानपूर्वकमग्निवाय्विन्द्रास्ते हि एनत् नेदिष्ठम् अतिसमीपं ब्रह्मविद्यया ब्रह्म प्राप्ताः सन्तः पस्पर्शुः स्पृष्टवन्तः । ते हि एनत् प्रथमः प्रथमं विदाञ्चकार विदाञ्चक्रुरित्येतत् । तस्मात् अतितराम् अतीत्य अतिशयेन दीप्यन्तेऽन्यान् देवान् । ततोऽपीन्द्रोऽतितरां दीप्यते, आदौ ब्रह्मविज्ञानात् । तस्यैष आदेशः तस्य ब्रह्मण एष वक्ष्यमाणः आदेशः उपासनोपदेश इत्यर्थः । यस्माद्देवेभ्यो विद्युदिव सहसैव प्रादुर्भूतं ब्रह्म द्युतिमत् , तस्माद्विद्युतो विद्योतनं यथा यदेतद्ब्रह्म व्यद्युतत् विद्योतितवत् । आ इत्युपमार्थ आ—शब्दः । यथा घनान्धकारं विदार्य विद्युत्सर्वतः प्रकाशते, एवं तद्ब्रह्म देवानां पुरतः सर्वतःप्रकाशवद्व्यक्तीभूतम् । अतो व्यद्युतदिवेत्युपास्यम् । ‘यथा सकृद्विद्युतम्’ (बृ. उ. २ । ३ । ६) इति च वाजसनेयके । यस्माच्चेन्द्रोपसर्पणकाले न्यमीमिषत् — यथा कश्चिच्चक्षुर्निमेषणं कृतवानिति । इतीदित्यनर्थकौ निपातौ — निमिषितवदिव तिरोभूतमित्येवमधिदैवतं देवताया अधि यद्दर्शनमधिदैवतं तत् ॥

विद्येति सत्त्वप्रधाना शक्तिश्चित्तादात्म्यापत्त्या बोधहेतुः ॥ २७ - १ ॥ २८ - २ ॥ २९ - ३ ॥

तस्मादित्यस्यापेक्षितं पाठव्यत्यासेन व्याचष्टे –

यस्मादित्यादिना ।

अर्थावादोपसंहारोऽयं विध्युपक्रमार्थम् । विद्युद्दृष्टान्तेनात्यन्तदीप्तिमत्त्वं निमेषणदृष्टान्तेन देवैरपि दुर्ज्ञेयत्वमिति गुणद्वयं देवानधिकृत्य विवक्षितम् । अत एव तद्गुणद्वयविशिष्टोपासनमाधिदौविकमुच्यते ॥ ३० - ४ ॥