केनोपनिषद्वाक्यभाष्यम्
आनन्दगिरिटीका (केन वाक्यभाष्य)
 
अथाध्यात्मं यदेतद्गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ ५ ॥
अथ अनन्तरम् अध्यात्मम् आत्मनः अधि आत्मविषयम् अध्यात्मम् उच्यत इति वाक्यशेषः । यदेतत् यथोक्तलक्षणं ब्रह्म गच्छतीव प्राप्नोतीव विषयीकरोतीवेत्यर्थः । न पुनर्विषयीकरोति मनः, अविषयत्वाद्ब्रह्मणः । अतो मनो न गच्छति । ‘येनाहुर्मनो मतम्’ (के. उ. १ । ५) इति चोक्तम् । गच्छतीवेति तु मनसोऽपि मनस्त्वात् आत्मभूतत्वाच्च ब्रह्मणः तत्समीपे मनो वर्तते इति उपस्मरति अनेन मनसैव तद्ब्रह्म विद्वान्यस्मात् , तस्माद्ब्रह्म गच्छतीवेत्युच्यते । अभीक्ष्णं पुनः पुनः । सङ्कल्पः ब्रह्मप्रेषितस्य मनसः । अत उपस्मरणसङ्कल्पादिभिर्लिङ्गैर्ब्रह्म मनआद्यात्मभूतमित्युपास्यमित्यभिप्रायः ॥

अहङ्ग्रहेणैवैतत्कर्तव्यमित्यभिप्रेत्याऽऽध्यात्मिकब्रह्मरूपमाह –

आत्मेत्यादिना ॥ ३१ - ५ ॥