परिपूर्णपरिज्ञानपरितृप्तिमते सते ।
विष्णवे जिष्णवे तस्यै कृष्णनामभृते नमः ॥१॥
शुद्धानन्दपदाम्भोजद्वन्द्वमद्वन्द्वतास्पदम् ।
नमस्कुर्वे पुरस्कर्तुं तत्त्वज्ञानमहोदयम् ॥२॥
गौडपादीयभाष्यं हि प्रसन्नमिव लक्ष्यते ।
तदर्थतोऽतिगम्भीरं व्याकरिष्ये स्वशक्तितः ॥३॥
पूर्वे यद्यपि विद्वांसो व्याख्यानमिव चक्रिरे ।
तथाऽपि मन्दबुद्धीनामुपकाराय यत्यते ॥४॥
श्री गौडपादाचार्यस्य नारायणप्रसादतः प्रतिपन्नान् माण्डूक्योपनिषदर्थाविष्करणपरानपि श्लोकानाचार्यप्रणीतान् व्याचिख्यासुर्भगवान् भाष्यकारश्चिकीर्षितस्य भाष्यस्याविघ्नपरिसमाप्त्यादिसिद्धये परदेवतातत्त्वानुस्मरणपूर्वकं तन्नमस्काररूपं मंगलाचरणं शिष्टाचारप्रमाणकं मुखतः समाचरन्नर्थादपेक्षितमभिधेयाद्यनुबन्धमपि सूचयति –
प्रज्ञानेत्यादिना ।
तत्र विधिमुखेन वस्तुप्रतिपादनमिति प्रक्रियां प्रदर्शयति –
ब्रह्म यत्तन्नतोऽस्मीति ।
अस्मदर्थस्य तदैक्यस्मरणरूपं नमनं सूचयता ब्रह्मणस्तदर्थस्य प्रत्यक्त्वं सूचितमिति तत्त्वमर्थयोरैक्यं विषयो ध्वनितः। यच्छब्दस्य प्रसिद्धार्थावद्योतकत्वाद् वेदान्तप्रसिद्धं यद् ब्रह्म तन्नतोऽस्मीति सम्बन्धेन मङ्गलाचरणमपि श्रुत्या क्रियते । ब्रह्मणोऽद्वितीयत्वादेव जननमरणकारणाभावादमृतमजमित्युक्तम् । जननमरणप्रबन्धस्य संसारत्वात् तन्निषेधेन स्वतोऽसंसारित्वं दर्शयता संसारानर्थनिवृत्तिरिह प्रयोजनमिति द्योतितम् । यद्यद्वितीयं स्वतोऽसंसारि ब्रह्म वेदान्तप्रमाणकं तर्हि कथमवस्थात्रयविशिष्टा जीवा भोक्तारोऽनुभूयन्ते, भोजयिता चेश्वरः श्रूयते, भोज्यं च विषयजातं पृथगुपलभ्यते ।
तदेतदद्वैते विरुध्येतेत्याशङ्क्य ब्रह्मण्येव जीवा जगदीश्वरश्चेति सर्वं काल्पनिकं सम्भवतीत्यभिप्रेत्याह –
प्रज्ञानेति ।
प्रकृष्टं जन्मादिविक्रियाविरहितं कूटस्थं ज्ञानं ज्ञप्तिरूपं वस्तु –
प्रज्ञानम् ।
तच्च ब्रह्म । “प्रज्ञानं ब्रह्म”(ऐ. उ. ३ । १ । ३) इति हि श्रूयते । तस्यांशवो रश्मयो जीवाश्चिदाभासाः सूर्यप्रतिबिम्बकल्पा निरूप्यमाणा बिम्बकल्पाद् ब्रह्मणो भेदेनासन्तस्तेषां प्रताना विस्तारास्तैरपर्यायमेवाशेषशरीरव्यापिभिः ।
तदेवाह –
स्थिरेति ।
स्थिरा वृक्षादयः । चरा मनुष्यादयः । तेषां निकरः समूहस्तं व्याप्तुं शीलमेषामिति तथा, तैरिति यावत् ।
लोका लोक्यमाना विषयास्तान् व्याप्येति विषयसम्बन्धोक्तिस्तत्फलं कथयति –
भुक्त्वेति ।
भोगाः सुखदुःखादिसाक्षात्कारास्तेषां स्थविष्ठत्वं स्थूलतमत्वं देवतानुगृहीतबाह्येन्द्रियद्वारा बुद्धेस्तत्तद्विषयाकारपरिणामजन्यत्वं तान्भुक्त्वा स्वपितीति सम्बन्धः। एतेन जागरितं ब्रह्मणि कल्पितमुक्तम् ।
तत्रैव स्वप्नकल्पनां दर्शयति –
पुनरपीति ।
जाग्रद्धेतुधर्माधर्मक्षयानन्तर्यं पुनः शब्दार्थः । स्वप्नहेतुकर्मोद्भवे च सतीत्यपिनोच्यते । न च तत्र बाह्यानीन्द्रियाणि स्थूला विषयाश्च सन्ति; किं तु धिषणाशब्दितबुद्ध्यात्मानो वासनात्मनो विषया भासन्ते, ताननुभूय स्वपितीत्यर्थः ।
तेषां प्रापकमुपन्यस्यति –
कामजन्यानिति ।
कामग्रहणं कर्माविद्ययोरुपलक्षणार्थम् ।
अवस्थाद्वयकल्पनां ब्रह्मणि दर्शयित्वा तत्रैव सुषुप्तिकल्पनां दर्शयति –
पीत्वेति ।
सर्वे विशेषाः सर्वे विषयाः स्थूलाः सूक्ष्माश्च जागरितस्वप्नरूपास्तान् पीत्वा स्वात्मन्यज्ञाते प्रविलाप्य स्वपिति कारणभावेन तिष्ठतीत्यर्थः ।
तत्राऽऽनन्दप्राधान्यमभिप्रेत्य विशिनष्टि –
मधुरभुगिति ।
अवस्थात्रयस्य मायाकृतस्य मिथ्याभूतस्य प्रतिबिम्बकल्पेष्वस्मासु सम्बन्धितामिवाऽऽपाद्यास्मान् भोजयद् ब्रह्म वर्तते । अतो ब्रह्मण्येवावस्थात्रयम् ।
तद्वन्तो जीवाः, मायावि ब्रह्म च ब्रह्मणि परिशुद्धे परिकल्पितं सर्वमित्याह –
माययेति ।
तस्यैव ब्रह्मणोऽवस्थात्रयातीतत्वेन विज्ञप्तिमात्रत्वं दर्शयति –
तुरीयमिति ।
चतुर्णां पूरणं तुरीयमिति व्युत्पत्तेर्ब्रह्मणस्तुरीयत्वेन निर्देशात्प्राप्तं सद्वितीयत्वमित्याशङ्क्य कल्पितस्थानत्रयसंख्यापेक्षया तुरीयत्वं न सद्वितीयत्वेनेत्याह –
मायेति ।
मायावित्वेन निकृष्टत्वमाशङ्क्योक्तम् –
परमिति ।
मायाद्वारा ब्रह्मणस्तत्सम्बन्धेऽपि स्वरूपद्वारा न तत्सम्बन्धोऽस्तीति कुतो निकृष्टतेत्यर्थः ॥१॥