माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
यो विश्वात्मा विधिजविषयान्प्राश्य भोगान्स्थविष्ठा -
न्पश्चाच्चान्यान्स्वमतिविभवाञ्ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वानेतान्पुनरपि शनैः स्वात्मनि स्थापयित्वा
हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥ २ ॥
यो विश्वात्मा विधिजविषयान्प्राश्य भोगान्स्थविष्ठा -
न्पश्चाच्चान्यान्स्वमतिविभवाञ्ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वानेतान्पुनरपि शनैः स्वात्मनि स्थापयित्वा
हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥ २ ॥

विधिमुखेन वस्तुप्रतिपादनप्रक्रियामवलम्ब्य तदर्थेनोपक्रम्य तस्य त्वमर्थप्रत्यगात्ममात्रत्वमुक्तम् । अभिधेयफलोक्त्या सम्बन्धाधिकारिणौ च सूचितौ ।निषेधद्वारा वस्तुप्रतिपादनप्रक्रियामाश्रित्य त्वमर्थेनोपक्रम्य तस्य तदर्थासंसारिब्रह्ममात्रत्वं प्रत्याययति –

यो विश्वात्मेति ।

तत्र त्वमर्थः स्वतः सिद्धश्चिद्धातुः सर्वनाम्ना परामृश्यते ।

तस्मिञ्जागरितमारोपितं तमुदाहरति –

विश्वात्मेति ।

विश्वं पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं स्थूलं जगद् वैराजं शरीरम् । तस्मिञ्जागरिते चाहंममेत्यभिमानवानित्यर्थः ।

तस्यार्थक्रियामुपन्यस्यति –

विधिजेति ।

विधीयत इति विधिधर्मो नञानुबन्धेन ततो व्यतिरिक्तोऽविधिरधर्मस्ताभ्यां धर्माधर्माभ्यामविद्याकामप्रसूताभ्यां विषयाः शब्दादयो जन्यन्ते । तान् भोगयोग्यतया भोगशब्दितानादित्याद्यनुगृहीतबाह्येन्द्रियद्वारकबुद्धिपरिणामगोचरतया स्थूलतमान् प्राश्य साक्षादनुभूय स्थितोऽयं प्रत्यगात्मेत्यर्थः ।

तत्रैव स्वप्नावस्थामध्यस्यति –

पश्चाच्चेति ।

जाग्रद्धेतुकर्मक्षयानन्तरं स्वप्नहेतुकर्मोद्भवे च प्रसूतानन्तःकरणात्मनो वासनामयानादित्यादिज्योतिषामस्तमितत्वादात्मभूतेनैव ज्योतिषा विषयीकृताननुभूय पञ्चीकृतपञ्चमहाभूततत्कार्यात्मकं सूक्ष्मप्रपञ्चं हैरण्यगर्भं शरीरं स्वप्नस्थानं चाभिमन्यमानस्तैजसो भवतीत्यर्थः ।

सुषुप्तकल्पनां दर्शयति –

सर्वानिति ।

स्थूलसूक्ष्मविभागेन स्थानद्वयाविच्छिन्नान् प्रकृतानेतानशेषानपि विशेषानुपाधिद्वयभूतानुपाधिद्वयद्वारकस्थानद्वयसञ्चारप्रयुक्तश्रमोद्भवानन्तरं तस्यापि परिजिहीर्षायां शनैरनुक्रमेणाक्रमेण वा स्वात्मन्यज्ञाते कारणात्मनि स्थापयित्वोपसंहृत्याव्याकृतप्रधानः सन् प्राज्ञो भवतीत्यर्थः ।

तस्यैव प्रत्यगात्मनः स्थानत्रयविशिष्टस्य ‘नान्तः प्रज्ञं न बहिः प्रज्ञम्’(मा.उ. १। ७) इत्यादिप्रतिषेधशास्त्रप्रसूतप्रमाणज्ञानसमारूढस्य सर्वानप्यनर्थविशेषान् कार्यकारणरूपान् प्रमाणज्ञानप्रभावादेव हित्वा निरुपाधिकपरिपूर्णपरिज्ञानपरमात्मस्वरूपेण परिनिष्पन्नं तत्त्वं कथयति –

हित्वेति ।

प्रथमश्लोकेन प्रदर्शितप्रणामस्य प्रत्यूहप्रवाहप्रशमनात्मकं प्रयोजनं स्थानत्रयप्रकल्पनातीतपरवस्तुप्रयुक्तं प्रार्थयते द्वितीयोन –

पात्विति ।

नोऽस्मान् व्याख्यातृत्वेन श्रोतृत्वेन च व्यवस्थितान् पुरुषार्थपरिपन्थिभूतकारणनिरासपुरःसरं परमात्मा पराकृताशेषकल्पनो नित्यविज्ञप्तिस्वभावो मोक्षप्रदानेन तद्धेतुज्ञानप्रदानेन च परिरक्षतादित्यर्थः। केचित्तु प्रकरणचतुष्टयात्मनो ग्रन्थस्य वेदान्तैकदेशसम्बद्धत्वज्ञापनार्थं निष्प्रपञ्चं वाक्यप्रतिपाद्यं ब्रह्म प्रथमश्लोकेन सूचितम् । द्वितीयेन माण्डूक्यश्रुतिव्याख्यानरूपेणाऽऽद्यप्रकरणेन प्रणवमात्राणामात्मपादानां चैकीकरणेन प्रतिपाद्यं ब्रह्म सूचितमिति मन्यन्ते । न च द्वितीयश्लोके चतुर्थपादे वृत्तलक्षणाभावादसाङ्गत्यमाशङ्कनीयम् । गाथालक्षणस्य तत्र सुसम्पादत्वादिति द्रष्टव्यम् । अन्ये त्वाद्यश्लोकं मूलश्लोकान्तर्भूतमभ्युपगच्छन्तो द्वितीयश्लोकं भाष्यकारप्रणीतमभ्युपयन्ति । तदसत् । उत्तरश्लोकेष्विवाऽऽद्येऽपि श्लोके भाष्यकृतो व्याख्यानप्रणयनप्रसङ्गात् । ओमित्येतदक्षरमित्यादिभाष्यविरोधाच्च । अपरे पुनराद्येन श्लोकेन शास्त्रप्रतिपाद्यपरदेवतातत्त्वानुस्मरणद्वारेण नमनक्रियाप्रकरणप्रारम्भोपयोगित्वेन क्रियते । परदेवताभक्तिवदपरदेवताभक्तेरपि विद्याप्राप्तावन्तरङ्गत्वस्य शास्त्रीयस्य शिष्यशिक्ष्यायै ज्ञापनार्थमवस्थात्रयातीतान्नित्यसिद्धविज्ञानमूर्तेराचार्यान्मोक्षौपयिकज्ञानप्राप्तिः ‘आचार्यवान्पुरुषो वेद’(छा. उ. ६ । १४ । २) इत्यादिश्रुत्यवष्टम्भेन मुमुक्षुणा प्रार्थ्यते द्वितीयश्लोकेनेति कल्पयन्ति॥२॥