माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥
जागरितावस्थायामेव विश्वादीनां त्रयाणामनुभवप्रदर्शनार्थोऽयं श्लोकः — दक्षिणाक्षीति । दक्षिणमक्ष्येव मुखम् , तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्वः अनुभूयते, ‘इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ४ । २ । २) इति श्रुतेः । इन्धो दीप्तिगुणो वैश्वानर आदीत्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः । नन्वन्यो हिरण्यगर्भः, क्षेत्रज्ञो दक्षिणेऽक्षिण्यक्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी ; न, स्वतो भेदानभ्युपगमात् ; ‘एको देवः सर्वभूतेषु गूढः’ (श्वे. उ. ६ । ११) इति श्रुतेः, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) ‘अविभक्तं च भूतेषु विभक्तमिव च स्थितम्’ (भ. गी. १३ । १६) इति स्मृतेश्च ; सर्वेषु करणेष्वविशेषेष्वपि दक्षिणाक्षिण्युपलब्धिपाटवदर्शनात्तत्र विशेषेण निर्देशोऽस्य विश्वस्य । दक्षिणाक्षिगतो दृष्ट्वा रूपं निमीलिताक्षस्तदेव स्मरन्मनस्यन्तः स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति । यथा तत्र तथा स्वप्ने ; अतः मनसि अन्तस्तु तैजसोऽपि विश्व एव । आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति, मनोव्यापाराभावात् । दर्शनस्मरणे एव हि मनःस्पन्दितम् ; तदभावे हृद्येवाविशेषेण प्राणात्मनावस्थानम् , ‘प्राणो ह्येवैतान्सर्वान्संवृङ्क्ते’ (छा. उ. ४ । ३ । ३) इति श्रुतेः । तैजसः हिरण्यगर्भः, मनःस्थत्वात् ; ‘लिङ्गं मनः’ (बृ. उ. ४ । ४ । ६) ‘मनोमयोऽयं पुरुषः’ (बृ. उ. ५ । ६ । १) इत्यादिश्रुतिभ्यः । ननु, व्याकृतः प्राणः सुषुप्ते ; तदात्मकानि करणानि भवन्ति ; कथमव्याकृतता ? नैष दोषः, अव्याकृतस्य देशकालविशेषाभावात् । यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य ; तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणे भवतीत्यव्याकृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् । यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणोऽव्याकृतः, तथा प्राणाभिमानिनोऽप्यविशेषापत्तावव्याकृतता समाना, प्रसवबीजात्मकत्वं च । तदध्यक्षश्चैकोऽव्याकृतावस्थः । परिच्छिन्नाभिमानिनामध्यक्षाणां च तेनैकत्वमिति पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानघन इत्याद्युपपन्नम् । तस्मिन्नेतस्मिन्नुक्तहेतुसत्त्वाच्च । कथं प्राणशब्दत्वमव्याकृतस्य ? ‘प्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) इति श्रुतेः । ननु, तत्र ‘सदेव सोम्य’ (छा. उ. ६ । २ । १) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् ; नैष दोषः, बीजात्मकत्वाभ्युपगमात्सतः । यद्यपि सद्ब्रह्म प्राणशब्दवाच्यं तत्र, तथापि जीवप्रसवबीजात्मकत्वमपरित्यज्यैव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च । यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत् , ‘नेति नेति’ (बृ. उ. ४ । ५ । ३) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) ‘अन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इत्यवक्ष्यत् ; ‘न सत्तन्नासदुच्यते’ (भ. गी. १३ । १२) इति स्मृतेः । निर्बीजतयैव चेत् , सति प्रलीनानां सम्पन्नानां सुषुप्तिप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् ; मुक्तानां च पुनरुत्पत्तिप्रसङ्गः, बीजाभावाविशेषात् , ज्ञानदाह्यबीजाभावे च ज्ञानानर्थक्यप्रसङ्गः ; तस्मात्सबीजत्वाभ्युपगमेनैव सतः प्राणत्वव्यपदेशः, सर्वश्रुतिषु च कारणत्वव्यपदेशः । अत एव ‘अक्षरात्परतः परः’ (मु. उ. २ । १ । २) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘यतो वाचो निवर्तन्ते’ (तै. उ. २ । ९ । १) ‘नेति नेति’ (बृ. उ. २ । ३ । ६) इत्यादिना बीजत्वापनयनेन व्यपदेशः । तामबीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसम्बन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति । बीजावस्थापि ‘न किञ्चिदवेदिषम्’ इत्युत्थितस्य प्रत्ययदर्शनाद्देहेऽनुभूयत एवेति त्रिधा देहे व्यवस्थित इत्युच्यते ॥

विश्वतैजसप्राज्ञानां स्थानत्रयं क्रमेण सञ्चरतामैक्यमेव वस्तुतो भवतीत्यत्र हेत्वन्तरं विवक्षन्नाह –

दक्षिणेति ।

श्लोकस्य तात्पर्यं संगृह्णाति –

जागरितेति ।

न चैकस्यामवस्थायामेकस्मिन्नेव देहे भिन्नत्वमात्मनस्तद्वादिभिरपीष्यते। जाग्रदवस्थायामिति तु देहे व्यवस्थितत्वोक्त्या विशेषणम् । तद्धि तत्र व्यवस्थितत्वं यदात्मनः सर्वगतस्य तदभिमानित्वम् । देहाभिमानश्च जागरिते परं सम्भवति । तेन तस्यामेवावस्थायामेकस्मिन्नेव देहे त्रयाणामनुभवात्तेषां मिथो भेदो नास्तीति सिध्यतीत्यर्थः । मुखं द्वारमुपलब्धिस्थानं शरीरमात्रे दृश्यमानस्य ।

कथमिदमुपलब्धौ विशेषायतनमुपदिश्यते ? स्थानान्तरापेक्षयाऽस्य प्राधान्यादित्याह –

प्राधान्येनेति ।

अनुभूयते ध्याननिष्ठैरिति शेषः ।

उक्तेऽर्थे श्रुतिं संवादयति –

इन्ध इति ।

बृहदारण्यकश्रुतेरुदाहृतायास्तात्पर्यार्थमाह –

इन्ध इत्यादिना ।

वैराजस्याऽऽत्मनो यथोक्तगुणवत्त्वेऽपि द्रष्टुश्चाक्षुषस्य किमायातमित्याशङ्क्याऽऽह –

चक्षुषि चेति ।

अध्यात्माधिदैवयोरेकत्वादाधिदैविको गुणश्चाक्षुषेऽप्याध्यात्मिके सम्भवतीत्यर्थः ।

उक्तमेकत्वमाक्षिपति –

नन्विति ।

हिरण्यगर्भः सूक्ष्मप्रपञ्चाभिमानी सूर्यमण्डलान्तर्गतः सूक्ष्मसमष्टिदेहो लिङ्गात्मा चक्षुर्गोलकानुगतेन्द्रियानुग्राहकः संसारिणोऽर्थान्तरम् । विराडात्माऽपि स्थूलप्रपञ्चाभिमानी सूर्यमण्डलात्मकः समष्टिदेहश्चक्षुर्गोलकद्वयानुग्राहकस्ततोऽर्थान्तरमेव । क्षेत्रज्ञस्तु व्यष्टिदेहो दक्षिणे चक्षुषि व्यवस्थितो द्रष्टा चक्षुषोः करणानां नियन्ता कार्यकरणस्वामी ताभ्यां समष्टिदेहाभ्यामन्योऽभ्युपगम्यते । तदेवं समष्टिव्यष्टित्वेन व्यवस्थितजीवभेदादुक्तमेकत्वमयुक्तमित्यर्थः ।

काल्पनिको जिवभेदो वास्तवो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति –

नेत्यादिना ।

एको हि परो देवः सर्वेषु भूतेषु समष्टित्वेन व्यष्टित्वेन च समावृतस्तिष्ठतीति श्रवणाद् वस्तुतो भेदो नास्तीत्युक्तं हेतुं साधयति –

एक इति ।

सर्वेषु क्षेत्रेषु व्यवस्थितं क्षेत्रज्ञं मामीश्वरं विद्धीति भगवतो वचनाच्च तात्त्विकभेदासिद्धिरित्याह –

क्षेत्रज्ञं चेति ।

सर्वेषु भूतेषु क्षेत्रज्ञश्चेदात्मैकः कथं तर्हि प्रतिभूतं भेदप्रथेत्याशङ्क्याऽऽह –

अविभक्तं चेति ।

तत्त्वतोऽविभागेऽपि देहकल्पनया भेदधीरित्यर्थः ।

ननु करणेषु सर्वेषु विश्वस्याविशेषान्न दक्षिणे चक्षुषि विशेषनिर्देशो युज्यते; यद्यपि करणान्तरेभ्यश्चक्षुषि प्राधान्यमुक्तं तथाऽपि नार्थो दक्षिणविशेषणेनेति, तत्राऽऽह –

सर्वेष्विति ।

श्रुत्यनुभवाभ्यां निर्देशविशेषसिद्धिरित्यर्थः ।

यद्यपि देहदेशभेदे विश्वोऽनुभूयते तथाऽपि कथं जागरिते तैजसोऽनुभूयत इत्याशङ्क्य द्वितीयं पादं व्याचष्टे –

दक्षिणेति ।

यथा स्वप्ने जागरितवासनारूपेणाभिव्यक्तमर्थजातं द्रष्टाऽनुभवति तथैव जागरिते दक्षिणे चक्षुषि द्रष्टृत्वेन व्यवस्थितः सन्निकृष्टं रूपं दृष्ट्वा पुनर्निमीलिताक्षो दृष्टमेव रूपं रूपोपलब्धिजनितमुदबुद्धवासनात्मना मनस्यन्तरभिव्यक्तं स्मरन्विश्वस्तैजसो भवति । तथा च तयोर्भेदाशङ्का नावतरतीत्यर्थः ।

स्वप्नजागरितयोर्विलक्षणत्वात्तद्द्रष्ट्रोर्विश्व–तैजसयोरपि वैलक्षण्यमुचितमित्याशङ्क्याऽऽह –

यथेति ।

जागरिते यथाऽर्थजातं द्रष्टा पश्यति तथैव स्वप्नेऽपि तदुपलभते, ततो न तयोर्वैलक्षण्यसिद्धिरित्यर्थः ।

द्वितीयपादस्य व्याख्यामुपसंहरति –

अत इति ।

स्थानद्वये द्रष्टुर्भेदाशङ्का निरवकाशेति दर्शयितुमेवकारः ।

तृतीयं पादं व्याकुर्वञ्जाग्रत्येव सुषुप्तिं दर्शयति –

आकाशे चेति ।

यो विश्वस्तैजसत्वमुपगतः स पुनः स्मरणाख्यस्य व्यापारस्य व्यावृत्तौ हृदयावच्छिन्नाकाशे स्थितः सन् प्राज्ञो भूत्वा तल्लक्षणलक्षितो भवति । न हि तस्य रूपविषयदर्शनस्मरणे परिहृत्य विशिष्टाकाशनिविष्टस्य प्राज्ञादर्थान्तरत्वम् । अतश्च स एकीभूतो विषयविषय्याकाररहितः यतो घनप्रज्ञो विशेषविज्ञानविरही रूपान्तररहितस्तिष्ठतीत्यर्थः ।

उक्तमर्थं प्रपञ्चयन् मनोव्यापाराभावादिति हेतुमुक्त्वा व्याचष्टे –

दर्शनेत्यादिना ।

अविशेषेणाव्याकृतरूपेणेत्यर्थः । अवस्थानं जागरिते सुषुप्तमिति शेषः ।

यदुक्तमव्याकृतेन प्राणात्मना हृदयेऽवस्थानमिति तत्र प्रमाणमाह –

प्राणो हीति ।

यो हि प्राणोऽध्यात्मं प्रसिद्धः स वागादीन् प्राणानात्मनि संवृङ्क्ते संहरतीति प्राणास्याध्यात्मं वागादिसंहर्तृत्वमुक्तम् । अधिदैवं च यो वायुः सूत्रात्मा सोऽग्न्यादीनात्मनि संहरतीत्यग्न्यादिसंहर्तृत्वं वायोरुक्तम् । अध्यात्माधिदैवयोश्चैकत्वात् प्राणस्य वायोश्च वागादिष्वग्न्यादिषु च संहर्तृत्वेनाव्याकृतत्वस्य संवर्गविद्यायां सूचितत्वादव्याकृतेन प्राणात्मना सुषुप्ते प्राज्ञस्यावस्थानमिति युक्तमेवोक्तमित्यर्थः ।

पूर्वमेव विश्वविराजोरैक्यस्यानन्तरं च सुषुप्ताव्याकृतयोरेकत्वस्य दर्शितत्वात् तैजसहिरण्यगर्भयोरनुक्तमभेदं वक्तव्यमिदानीमुपन्यस्यति –

तैजस इति ।

तत्र हेतुमाह –

मनःस्थत्वादिति ।

हिरण्यगर्भस्य समष्टिमनोनिष्ठत्वात् तैजसस्य व्यष्टिमनोगतत्वात् तयोश्च समष्टिव्यष्टिमनसोरेकत्वात् तद्गतयोरपि तैजसहिरण्यगर्भयोरेकत्वमुचितमित्यर्थः ।

किं च हिरण्यगर्भस्य क्रियाशक्त्युपाधौ लिङ्गात्मतया प्रसिद्धत्वात् तस्य च सामानाधिकरण्यश्रुत्या मनसा सहाभेदावगमान्मनोनिष्ठस्य तैजसस्य युक्तं हिरण्यगर्भत्वमित्याह –

लिङ्गमिति ।

किं च पुरुषस्य मनोमयत्वश्रवणात्पुरुषविशेषत्वाच्च हिरण्यगर्भस्य तत्प्रधानत्वाधिगमात् तन्निष्ठस्तैजसो हिरण्यगर्भो भवितुमर्हतीत्याह –

मनोमय इति ।

प्राणस्य प्रागुक्तमव्याकृतत्वमाक्षिपति –

नन्विति ।

सुषुप्ते हि प्राणो नामरूपाभ्यां व्याकृतो युक्तस्तद्व्यापारस्य पार्श्वस्थैरतिस्पष्टं दृष्टत्वादित्यर्थः। किं च तस्यामवस्थायां वागादीनि करणानि प्राणात्मकानि भवन्ति । ‘त एतस्यैव सर्वे रूपमभवन्’ (बृ. उ. १ । ५ । २१) इति श्रुतेः ।

अतोऽपि प्राणस्य व्याकृतत्वं युक्तमित्याह –

तदात्मकानीति ।

उक्तन्यायेन प्राणस्याव्याकृतत्वायोगादव्याकृतेन प्राणात्मना सुषुप्तस्यावस्थानमयुक्तमिति निगमयति –

कथमिति ।

एकलक्षणत्वादव्याकृतप्राणयोरेकत्वोपपत्तिरित्युत्तरमाह –

नैष दोष इति ।

अव्याकृतं हि देशकालवस्तुपरिच्छेदशून्यम् । प्राणोऽपि सौषुप्तद्रष्टुस्तथा । न हि सौषुप्तदृष्ट्या तत्कालीनस्य प्राणस्य देशादिपरिच्छेदोऽवगम्यते । तथा च लक्षणाविशेषादव्याकृतप्राणयोरेकत्वमविरुद्धमित्यर्थः ।

तस्यायं प्राणो ममायमिति देशपरिच्छेदप्रतिभानादेकलक्षणत्वाभावान्न प्राणास्याव्याकृतत्वमित्याशङ्क्याऽऽह –

यद्यपीति ।

परिच्छिन्नाभिमानवतां मध्ये प्रत्येकं ममायमिति प्रणाभिमाने सति प्राणस्य यद्यपि व्याकृततैव भवति तथाऽपि सुषुप्त्यवस्थायां पिण्डेन परिच्छिन्नो यो विशेषस्तद्विषयो ममेत्यभिमानस्तस्य निरोधस्तस्मिन् भवतीति प्राणोऽव्याकृत एवेति योजना । प्रतिबुद्धदृष्ट्या विशेषाभिमानविषयत्वेन व्याकृतत्वेऽपि सुषुप्तदृष्ट्या तदुपसंहारादव्याकृतत्वं प्राणस्याविरुद्धमिति भावः ।

विशेषाभिमाननिरोधे प्राणस्याव्याकृतत्वं क्व दृष्टमित्याशङ्क्याऽऽह –

यथेति ।

परिच्छिन्नाभिमानिनां प्राणलयो मरणं, तत्राभिमाननिरोधे प्राणो नामरूपाभ्यामव्याकृतो यथेष्यते तथैव प्राणाभिमानिनोऽपि तदभिमाननिरोधेनाविशेषापत्तिः सुषुप्तिः, तत्राव्याकृतता प्राणस्य प्रागुक्तदृष्टान्तेनाविशिष्टा । ततो विशेषाभिमाननिरोधे प्राणस्याव्याकृतत्वं प्रसिद्धमित्यर्थः। किं च यथाऽऽधिदैविकमव्याकृतं जगत्प्रसवबीजम् । ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियत’(बृ. उ. १ । ४ । ७) इति श्रुतेः। तथा प्राणाख्यं सुषुप्तं जागरितस्वप्नयोर्भवति बीजम् ।

तथा च कार्यं प्रति प्रसवबीजरूपत्वमविशिष्टमुभयोरिति लक्षणाविशेषादव्याकृतप्राणयोरेकत्वस्य प्रसिद्धिरित्याह –

प्रसवेति ।

समानमित्यनुकर्षार्थश्चकारः ।

उपाधिस्वभावालोचनया सुषुप्ताव्याकृतयोरभेदमभिधायोपहितस्वभावालोचनयाऽपि तयोरभेदमाह –

तदध्यक्षश्चेति ।

अव्याकृतावस्थः सुषुप्तावस्थश्च तयोरुपहितस्वभावयोराध्यात्मिकाधिदैविकयोरेकोऽधिष्ठाता चिद्धातुः । अतोऽपि तयोरेकत्वं सिद्ध्यतीत्यर्थः ।

सुषुप्ताव्याकृतयोरेवमेकत्वं प्रसाध्य तस्मिन्नव्याकृते सुषुप्ते प्रागुक्तं विशेषणं युक्तमित्याह –

परिच्छिन्नेति ।

यद्यपि विशेषानभिव्यक्तिमात्रेणैकीभूतत्वादि विशेषणमुपपादितितं तथाऽपि परिच्छिन्नाभिमानिनामुपाधिप्रधानानां तत्र तत्राध्यक्षाणां चोपहितानामव्याकृतेनैकत्वम् । अतोऽपि प्रागुक्तविशेषणोपपत्तिरित्यर्थः ।

किं चाध्यात्माधिदैवयोरेकत्वमिति प्रागुक्तहेतुसद्भावाच्च युक्तं सुषुप्ते प्राज्ञे प्राणात्मन्यव्याकृते यथोक्तं विशेषणमित्याह –

पूर्वोक्तमिति ।

ग्रन्थगतादिशब्देन सर्वेश्वरत्वादिविशेषणं गृह्यते ।

प्राणशब्दस्य पञ्चवृत्तौ वायुविकारे रूढत्वान्नाव्याकृतविषयत्वं रूढिविरोधादिति शङ्कते –

कथमिति ।

अन्यत्र रूढत्वेऽपि श्रौतप्रयोगवशादव्याकृतविषयत्वं प्राणशब्दस्य युक्तमिति परिहरति –

प्राणबन्धनमिति ।

प्रकरणस्य ब्रह्मविषयत्वाद् ब्रह्मण्येव प्रकृते वाक्ये प्राणशब्दस्य प्रयोगान्नाव्याकृतविषयत्वं तस्य युक्तं प्रकरणविरोधादिति शङ्कते –

नन्विति ।

प्रकरणस्य ब्रह्मविषयत्वेऽपि ब्रह्मणः सल्लक्षणस्य शबलत्वाङ्गीकारादस्मिन्नपि वाक्ये तत्रैव प्राणशब्दप्रयोगाद्युक्तं तस्याव्याकृतविषयत्वमित्युत्तरमाह –

नैष दोष इति ।

संग्रहवाक्यं प्रपञ्चयति –

यद्यपीति ।

तत्रेति प्राणबन्धनवाक्यं परामृश्यते । जीवशब्दः सर्वस्यैव कार्यजातस्योपलक्षणम् ।

प्रकरणवाक्ययोरुभयोरपि परिशुद्धब्रह्मविषयत्वे का क्षतिरित्याशङ्क्य परिशुद्धस्य ब्रह्मणः शब्दप्रवृत्तिनिमित्तागोचरत्वात् तत्र शब्दवाच्यत्वानुपपत्तेर्मैवमित्याह –

यदि हीति ।

न केवलं निरुपधिकं निर्विशेषं ब्रह्म वाङ्मनसयोरगोचरमिति श्रुतेरेव निर्धार्यते, किं तु स्मृतेरपीत्याह –

न सदिति ।

किं च कार्यजातं प्रति बीजभूताज्ञानरहिततया शुद्धत्वेनैवास्मिन् प्रकरणे ब्रह्म विवक्षितं चेत् तर्हि ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) इति जीवानां सत्प्राप्तिश्रवणाद् ब्रह्मणः सच्छद्बितस्य शुद्धत्वे सुषुप्त्यादौ तत्र लीनानामेकीभूतानां जीवानां पुनरुत्थानं नोपपद्यते, दृश्यते च पुनरुत्थानम् ।

तेन शबलमेव ब्रह्मात्र विवक्षितमित्याह –

निर्बीजतयेति ।

सुषुप्त्यादौ शुद्धे ब्रह्मणि सम्पन्नानामपि पुनरुत्थाने मोक्षानुपपत्तिदोषमाह –

मुक्तानां चेति ।

न तेषां पुनरुत्थानं हेत्वभावादित्याशङ्क्य सुषुप्तानां प्रलीनानां च न तर्हि पुनरुत्थानं हेत्वभावस्य तुल्यत्वादित्याह –

बीजाभावेति ।

नन्वनाद्यनिर्वाच्यमज्ञानं संसारस्य बीजभूतं नास्त्येव यद् ब्रह्मणो विशेषणं भवति ।

अग्रहणमिथ्याज्ञानतत्संस्काराणामज्ञानशब्दवाच्यत्वात्तत्राऽह –

ज्ञानेति ।

अज्ञोऽहमित्यज्ञानमपरोक्षम् । अग्रहणस्य च ग्रहणप्रागभावस्य नापरोक्षत्वमिन्द्रियसन्निकर्षाभावादनुपलब्धिगम्यत्वाच्च । भ्रान्तितत्संस्कारयोश्चाभावेतरकार्यत्वादुपादानापेक्षणादात्मनश्च केवलस्यातद्धेतुत्वात्तदुपादानत्वेनानाद्यज्ञानसिद्धिः । किं च देवदत्तप्रमा तन्निष्ठप्रमाप्रागभावातिरिक्ता‍नादिप्रध्वंसिनी प्रमात्वाद् यज्ञदत्तप्रमावत् । न च तदभावे सम्यग्ज्ञानार्थवत्त्वम् । क्षणिकत्वेन भ्रान्तेस्तदनिवर्त्यत्वात् संस्कारस्य च सत्यपि सम्यग्ज्ञाने क्वचिदनुवृत्तिदर्शनात् । न चाग्रहणस्य तन्निवर्त्यत्वम् । ज्ञानस्य तन्निवृत्तित्वात् । अतो ज्ञानदाह्यं संसारबीजभूतमनाद्यनिर्वाच्यमज्ञानं ज्ञानस्यार्थवत्त्वायाऽऽस्थेयम् । अन्यथा तदानर्थक्यप्रसङ्गादित्यर्थः ।

शुद्धस्य ब्रह्मणो वाक्यप्रकरणाभ्यां विवक्षितत्वाभावे फलितमाह –

तस्मादिति ।

ब्रह्मणः शबलस्यैव प्राकरणिकत्वाद् वाक्येऽपि तस्मिन् प्रणशब्दाद् युक्तं प्राणशब्दस्याव्याकृतविषयत्वमिति भावः । यतोऽनाद्यनिर्वाच्याज्ञानशबलस्यैव कारणत्वं ब्रह्मणो विवक्ष्यते ।

अत एव कारणत्वनिषेधेन परिशुद्धं ब्रह्म श्रुतिषूपदिश्यते, तदेतदाह –

अत एवेति ।

अक्षरमव्याकृतम्, तच्च कार्यापेक्षया परम् । तस्मात्परोऽयं परमात्मा । स हि कार्यकारणाभ्यामस्पृष्टो वर्तते । बाह्यं कार्यमभ्यन्तरं कारणमिति ताभ्यां सह तत्कल्पनाधिष्ठानत्वेन वर्तमानश्चिद्धातुः । तथा च स चिद्धातुरजो जन्मादिसमस्तविक्रियाशून्यत्वेन कूटस्थः श्रुतिस्मृत्योर्व्यपदिश्यते । यतो ब्रह्मणः सकाशाद्वाचः सर्वा मनसा सहावकाशमप्राप्य निवर्तन्ते, तद् ब्रह्माऽऽनन्दरूपं विद्वान्न बिभेति । नेति नेतीति वीप्सया सर्वमारोपितमपाक्रियते । आदिशब्देनास्थूलादिवाक्यं गृह्यते । बीजत्वनिरासेन शुद्धं ब्रह्म व्यपदिश्यते चेद्बीजत्वं शबलस्यैवेति सिध्यतीत्यर्थः ।

आचार्येणानुक्तत्वान्न कारणातिरिक्तं शुद्धं ब्रह्मास्तीत्याशङ्क्य नान्तःप्रज्ञमित्यादिवाक्यशेषान्मैवमित्याह –

तामिति ।

उक्तन्यायेन वस्तुव्यवस्थायामव्याकृतस्य देहेऽनुभवाभावात्त्रिधा देहे व्यवस्थित इति कथमुक्तमित्याशङ्क्याऽऽह –

बीजेति ॥२॥