एष योनिरित्यत्र प्राज्ञस्य प्रपञ्चकारणत्वं प्रतिज्ञातम्; तत्र सत्कार्यमसत्कार्यं प्रति वा कारणत्वमिति सन्देहे निर्धारयितुमारभते –
प्रभव इति ।
तत्रावान्तरभेदमाह –
सर्वमिति ।
पुरुषो हि सर्वमचेतनं जगदुपाधिभूतं तमः प्रधानं गृहीत्वा जनयति । अत एव पुरुषे कारणवाचि प्राणपदं प्रयुज्यते । एवं स च चैतन्यप्रधानश्चेतसश्चैतन्यस्यांशुवदवस्थितान् प्रतिबिम्बकल्पाञ्जीवानाभासभूतानुत्पादयति । एवं चेतनाचेतनात्मकमशेषं जगदसङ्कीर्णं सम्पादयतीत्यर्थः ।
ननु सतां भावानां सत्त्वादेव प्रभवो न सम्भवत्यतिप्रसङ्गादित्याशङ्क्य पूर्वार्धं व्याचष्टे–
सतामिति ।
स्वेनाधिष्ठानात्मना विद्यमानानामेवाविद्याकृतं मायामयमारोपितस्वरूपं तेन प्रभवः सम्भवतीत्यर्थः ।
असज्जन्मनिरसनमन्तरेण कथं सज्जन्म निर्धारयितुं शक्यमित्याशङ्क्याऽऽह –
वक्ष्यतीति ।
जन्मनः पूर्वं सर्वस्य सत्त्वे च कारणव्यापारसाध्यत्वासिद्धेर्मिथ्यात्वे च कथं सतामेव प्रभवो भावानामित्याशङ्क्याऽऽह –
यदीति ।
कार्यप्रपञ्चस्यासत्त्वे कारणस्य ब्रह्मणः स्वारस्येन व्यवहार्यत्वाभावात् तस्य ग्रहणे द्वारभूतस्य लिङ्गस्याभावादसत्त्वमेव सिध्येत् । कार्येण हि लिङ्गेन कारणं ब्रह्मादृष्टमपि सदित्यवगम्यते । तच्चेदसद्भवेन्न तस्य कारणेन सम्बन्धधीरित्यसदेव कारणमपि स्यादित्यर्थः ।
कार्यकारणयोरुभयोरपि भवत्वसत्त्वमित्याशङ्क्याऽऽह –
दृष्टं चेति ।
अविद्ययाऽनाद्यनिर्वाच्यया कृताश्च ते मायाबीजादुत्पन्नाश्च तेषामविद्यैव मायेत्यङ्गीकारात्, तेषां रज्ज्वादौ कल्पितसर्पादीनामधिष्ठानभूतरज्ज्वादिरूपेण सत्त्वं दृष्टमिति योजना । विमतं सदुपादानं कल्पितत्वाद्रज्जुसर्पवदित्यर्थः ।
दृष्टान्तस्य साध्यविकलत्वं शङ्कित्वा परिहरति –
न हीति ।
विवक्षितं दृष्टान्तमनूद्य दार्ष्टान्तिकमाह –
यथेत्यादिना ।
प्राणशब्दितं बीजमज्ञातं ब्रह्म सल्लक्षणं तदात्मनेति यावत् ।
तदेवमचेतनं सर्वं जगत् प्रागुप्तत्तेर्बीजात्मना स्थितं प्राणो बीजात्मा व्यवहारयोग्यतया जनयतीत्युपसंहरति –
इत्यत इति ।
चतुर्थं पादं प्रतीकमादाय व्याकरोति –
चेतोंशूनित्यादिना ।
रवेरंशवो यथा वर्तन्ते तथा पुरुषस्य स्वयंचैतन्यात्मकस्य चेतोरूपाश्चैतन्याभासा जीवाश्चेतोंशवो निर्दिश्यन्ते । तान् पुरुषो जनयतीत्युत्तरत्र सम्बन्धः ।
तेषां चिदात्मकात्पुरुषात् तत्त्वतो भेदाभावं विवक्षित्वा विशिनष्टि –
जलार्केति ।
भेदधीस्तु तेषामुपाधिभेदादित्याह –
प्राज्ञेति ।
पृथगिति सूचितं पुरुषस्य जीवसर्जने हेतुं कथयति –
विषयेति ।
यथाऽग्निना समानरूपा विस्फुलिङ्गा जन्यन्ते, तथा चिदात्मना समानस्वभावा जीवास्तेनोत्पाद्यन्ते । विषयविलक्षणत्वात् । न प्राणेन बीजात्मना तेषामुत्पादनम् । न चोत्पाद्यानां जीवानामुत्पादकाच्चिदात्मनस्तत्त्वतो भिन्नत्वम् । जलपात्रप्रतिबिम्बितादित्यादीनां बिम्बभूतान् ततस्तत्त्वतो भेदाभावात् । तान्विश्वादीन् पुरुषश्चित्प्रधानो जनयतीत्यर्थः ।
विषयभावेन व्यवस्थितान् पुनर्भावान् प्राणो जनयतीति तृतीयपादार्थमुपसंहरति –
इतरानिति ॥६॥