प्रकृतभोक्तृभोग्यपदार्थद्वयपरिज्ञानस्यावान्तरफलमाह –
त्रिष्विति ।
पूर्वार्थं व्याचष्टे –
जाग्रदादिष्विति ।
भोग्यत्वेनैकत्वेऽपि त्रैविध्यमवान्तरभेदादुन्नेयम् ।
भोक्तुरेकत्वे हेतुमाह –
सोऽहमिति ।
योऽहं सुषुप्तः सोऽहं स्वप्नं प्राप्तः । यश्च स्वप्नमद्राक्षं सोऽहमिदानीं जागर्मीत्येकत्वं प्रतिसन्धीयते । न च तत्र बाधकमस्ति । तद् युक्तं भोक्तुरेकत्वमित्यर्थः ।
किं चाज्ञानं तत्कार्यं च प्रति प्राज्ञादिषु द्रष्टृत्वस्याविशिष्टत्वाद् द्रष्टृभेदे च प्रमाणाभावाद् युक्तं तदेकत्वमित्याह –
द्रष्टृत्वेति ।
द्वितीयार्थं विभजते –
यो वेदेति ।
कथमेतावता भोगप्रयुक्तदोषराहित्यं, तत्राऽऽह –
भोज्यस्येति ।
यद्यपि भोक्तुरेकस्यैव सर्वं भोग्यमित्यवगतं तथाऽपि कथं सर्वं भुञ्जानो भोगप्रयुक्तदोषवान्न भवतीत्याशङ्क्याऽऽह –
न हीति ।
उक्तमर्थं दृष्टान्तेन स्पष्टयति –
न ह्यग्निरिति ।
स्वविषयान् काष्ठादीन् दग्ध्वा न हीयते वर्धते वाऽग्निरिति सम्बन्धः ॥५॥