नान्तःप्रज्ञमित्यादिश्रुत्युक्तेऽर्थे तद्विवरणरूपाञ्श्लोकानवतारयति –
अत्रेति ।
विविधं स्थानत्रयमस्माद्भवतीति व्युप्तत्त्या तुरीयो विभुरुच्यते । न हि तुरीयातिरेकेण स्थानत्रयमात्मानं धारयति । सर्वदुःखानामाध्यात्मिकादिभेदभिन्नानां तद्धेतूनां तदाधाराणामिति यावत् ।
ईशानपदं प्रयुज्य प्रभुपदं प्रयुञ्जानस्य पौनरुक्त्यमित्याशङ्क्याऽऽह –
ईशान इति ।
तुरीयस्य दुःखनिवृत्तिं प्रति सामर्थ्यस्य नित्यत्वान्न कदाचिदपि दुःखं स्यादित्याशङ्क्याऽऽह –
तद्विज्ञानेति ।
संसृष्टरूपेण व्ययोऽस्तीत्याशङ्क्य विशिनष्टि –
स्वरूपादिति ।
तत्र प्रश्नपूर्वकमद्वितीयत्वं हेतुमाह –
एतत् कुत इति ।
अतो द्वितीयस्य व्ययहेतोरभावादिति शेषः ।
विश्वादीनां दृश्यमानत्वात् तुरीयस्याद्वितीयत्वासिद्धिरित्याशङ्क्याऽऽह –
सर्वभावानामिति ।
अवस्थात्रयातीतस्य तुरीयस्योक्तलक्षणत्वं विद्वदनुभवसिद्धमिति सूचयति –
स्मृत इति ॥१०॥