माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
नान्तःप्रज्ञं नबहिःप्रज्ञं नोभयतःप्रज्ञं नप्रज्ञानघनं नप्रज्ञं नाप्रज्ञम् । अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥
चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्याह — नान्तःप्रज्ञमित्यादिना । सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात्तस्य शब्दानभिधेयत्वमिति विशेषप्रतिषेधेनैव तुरीयं निर्दिदिक्षति । शून्यमेव तर्हि ; तन्न, मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेः ; न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणूषरादिव्यतिरेकेण अवस्त्वास्पदाः शक्याः कल्पयितुम् । एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात्तुरीयस्य शब्दवाच्यत्वमिति न प्रतिषेधैः प्रत्याय्यत्वमुदकाधारादेरिव घटादेः ; न, प्राणादिविकल्पस्यावस्तुत्वाच्छुक्तिकादिष्विव रजतादेः ; न हि सदसतोः सम्बन्धः शब्दप्रवृत्तिनिमित्तभाक् , अवस्तुत्वात् ; नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवत् , आत्मनो निरुपाधिकत्वात् ; गवादिवन्नापि जातिमत्त्वम् , अद्वितीयत्वेन सामान्यविशेषाभावात् ; नापि क्रियावत्त्वं पाचकादिवत् , अविक्रियत्वात् ; नापि गुणवत्त्वं नीलादिवत् , निर्गुणत्वात् ; अतो नाभिधानेन निर्देशमर्हति । शशविषाणादिसमत्वान्निरर्थकत्वं तर्हि ; न, आत्मत्वावगमे तुरीयस्यानात्मतृष्णाव्यावृत्तिहेतुत्वात् शुक्तिकावगम इव रजततृष्णायाः ; न हि तुरीयस्यात्मत्वावगमे सति अविद्यातृष्णादिदोषाणां सम्भवोऽस्ति ; न च तुरीयस्यात्मत्वानवगमे कारणमस्ति, सर्वोपनिषदां तादर्थ्येनोपक्षयात् — ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । ७) ‘यत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) ‘सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २) इत्यादीनाम् । सोऽयमात्मा परमार्थापरमार्थरूपश्चतुष्पादित्युक्तः । तस्यापरमार्थरूपमविद्याकृतं रज्जुसर्पादिसममुक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् । अथेदानीमबीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयनिराकरणेनाह — नान्तःप्रज्ञमित्यादिना । नन्वात्मनश्चतुष्पात्त्वं प्रतिज्ञाय पादत्रयकथनेनैव चतुर्थस्यान्तःप्रज्ञादिभ्योऽन्यत्वे सिद्धे ‘नान्तःप्रज्ञम्’ इत्यादिप्रतिषेधोऽनर्थकः ; न, सर्पादिविकल्पप्रतिषेधेनैव रज्जुस्वरूपप्रतिपत्तिवत्त्र्यवस्थस्यैवात्मनस्तुरीयत्वेन प्रतिपिपादयिषितत्वात् , ‘तत्त्वमसि’ इतिवत् । यदि हि त्र्यवस्थात्मविलक्षणं तुरीयमन्यत् , तत्प्रतिपत्तिद्वाराभावात् शास्त्रोपदेशानर्थक्यं शून्यतापत्तिर्वा । रज्जुरिव सर्पादिभिर्विकल्प्यमाना स्थानत्रयेऽप्यात्मैक एव अन्तःप्रज्ञादित्वेन विकल्प्यते यदा, तदा अन्तःप्रज्ञादित्वप्रतिषेधविज्ञानप्रमाणसमकालमेव आत्मन्यनर्थप्रपञ्चनिवृत्तिलक्षणं फलं परिसमाप्तमिति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा न मृग्यम् ; रज्जुसर्पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगमस्य । येषां पुनस्तमोपनयनव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते, तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेण अन्यतरावयवेऽपि च्छिदिर्व्याप्रियत इत्युक्तं स्यात् । यदा पुनर्घटतमसोर्विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिव च्छेद्यावयवसम्बन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना, तदा नान्तरीयकं घटविज्ञानं न प्रमाणफलम् । न च तद्वदप्यात्मन्यध्यारोपितान्तःप्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्य अनुपादित्सितान्तःप्रज्ञत्वादिनिवृत्तिव्यतिरेकेण तुरीये व्यापारोपपत्तिः, अन्तःप्रज्ञत्वादि निवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः । तथा च वक्ष्यति — ‘ज्ञाते द्वैतं न विद्यते’ (मा. का. १ । १८) इति । ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् , अवस्थाने वा अनवस्थाप्रसङ्गाद्द्वैतानिवृत्तिः ; तस्मात्प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैव आत्मन्यध्यारोपितान्तःप्रज्ञत्वाद्यनर्थनिवृत्तिरिति सिद्धम् । नान्तःप्रज्ञमिति तैजसप्रतिषेधः ; नबहिःप्रज्ञमिति विश्वप्रतिषेधः ; नोभयतःप्रज्ञमिति जागरितस्वप्नयोरन्तरालावस्थाप्रतिषेधः ; नप्रज्ञानघनमिति सुषुप्तावस्थाप्रतिषेधः, बीजभावाविवेकस्वरूपत्वात् ; नप्रज्ञमिति युगपत्सर्वविषयज्ञातृत्वप्रतिषेधः ; नाप्रज्ञमित्यचैतन्यप्रतिषेधः । कथं पुनरन्तःप्रज्ञत्वादीनामात्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत्प्रतिषेधादसत्त्वं गम्यत इति, उच्यते ; ज्ञस्वरूपाविशेषेऽपि इतरेतरव्यभिचारादसत्यत्वं रज्ज्वादाविव सर्पधारादिविकल्पभेदवत् ; सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् । सुषुप्ते व्यभिचरतीति चेत् ; न, सुषुप्तस्यानुभूयमानत्वात् , ‘न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । ३०) इति श्रुतेः ; अत एव अदृश्यम् । यस्माददृश्यम् , तस्मादव्यवहार्यम् । अग्राह्यं कर्मेन्द्रियैः । अलक्षणम् अलिङ्गमित्येतत् , अननुमेयमित्यर्थः । अत एव अचिन्त्यम् । अत एव अव्यपदेश्यं शब्दैः । एकात्मप्रत्ययसारं जाग्रदादिस्थानेषु एक एवायमात्मा इत्यव्यभिचारी यः प्रत्ययः, तेनानुसरणीयम् ; अथवा, एक आत्मप्रत्ययः सारः प्रमाणं यस्य तुरीयस्याधिगमे, तत्तुरीयमेकात्मप्रत्ययसारम् , ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति श्रुतेः । अन्तःप्रज्ञत्वादिस्थानिधर्मप्रतिषेधः कृतः । प्रपञ्चोपशममिति जाग्रदादिस्थानधर्माभाव उच्यते । अत एव शान्तम् अविक्रियम् , शिवं यतः अद्वैतं भेदविकल्परहितं चतुर्थं तुरीयं मन्यन्ते, प्रतीयमानपादत्रयरूपवैलक्षण्यात् । स आत्मा स विज्ञेयः इति । प्रतीयमानसर्पदण्डभूच्छिद्रादिव्यतिरिक्ता यथा रज्जुः, तथा ‘तत्त्वमसि’ इत्यादिवाक्यार्थः आत्मा ‘अदृष्टो द्रष्टा’ (बृ. उ. ३ । ७ । २३) ‘न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते’ (बृ. उ. ४ । ३ । २३) इत्यादिभिरुक्तो यः, स विज्ञेय इति भूतपूर्वगत्या । ज्ञाते द्वैताभावः ॥

चतुर्थ इति ; सर्वेति ; शून्यमेवेति ; तन्नेति ; न हीति ; एवं तर्हीति ; न प्राणादीति ; न हीति ; नापीति ; गवादिवदिति ; नापि क्रियावत्त्वमिति ; नापीति ; अत इति ; शशविषाणादीति ; नेत्यादिना ; न हीति ; न चेति ; तत्त्वमसीति ; सोऽयमित्यादिना ; परमार्थेति ; सर्पादीति ; नन्विति ; न, सर्पादीति ; तत्त्वमसीति ; यदि हीति ; शास्त्रेति ; शून्येति ; रज्जुरिवेति ; तुरीयेति ; साधनान्तरं वेति ; रज्ज्विति ; योषामिति ; यदेति ; न चेति ; अन्तःप्रज्ञत्वादीति ; तथा चेति ; ज्ञानस्येति ; अवस्थाने चेति ; तस्मादिति ; बीजभावेति ; कथमिति ; उच्यत इति ; ज्ञस्वरूपेति ; सर्वत्रेति ; सुषुप्त इति ; न सुषुप्तस्येति ; न हीति ; अत एवेति ; यस्मादिति ; कर्मेन्द्रियैरिति ; अलिङ्गमिति ; अननुमेयमिति ; अत एवेति ; अत एवेति ; एकात्मेति ; अथ वेति ; आत्मेत्येवेति ; अन्तरिति ; यत इति ; भेदेति ; प्रतीयमानेति ; स आत्मेति ; स विज्ञेय इति ; प्रतीयमानेति ; न हि द्रष्टुरिति ; भूतेति ; ज्ञात इति ;

पादत्रये व्याख्याते व्याख्येयत्वेन क्रमवशात्प्राप्तं चतुर्थं पादं व्याख्यातुमुत्तरग्रन्थप्रवृत्तिरित्याह –

चतुर्थ इति ।

ननु पादत्रयवद्विधिमुखेनैव चतुर्थः पादोऽपि व्याख्यायताम् किमिति निषेधमुखेन व्याख्यायते, तत्राऽऽह –

सर्वेति ।

सर्वाणि शब्दप्रवृत्तौ निमित्तानि षष्ठीगुणादीनि, तैः शून्यत्वात् तुरीयस्य वाच्यत्वायोगान्निषेधद्वारैव तन्निर्देशः सम्भवतीत्यर्थः । साक्षाद्वाच्यत्वाभावं द्योतयितुं निर्दिदिक्षतीत्युक्तम् । यदि चतुर्थं विधिमुखेन निर्देष्टुं न शक्यं तर्हि शून्यमेव तदापद्येत तन्निषेधेनैव निर्दिश्यमानत्वात् ।

तथाविधं नास्त्यर्थवदिति शङ्कते –

शून्यमेवेति ।

न तुरीयस्य शून्यत्वमनुमातुं युक्तम् ।

विमतं सदधिष्ठानं कल्पितत्वात् तथाविधरजतादिवदित्यनुमानात्तुरीस्य सत्त्वसिद्धेरित्युत्तरमाह –

तन्नेति ।

दृष्टान्तं साधयति –

न हीति ।

रजतादीनां सदनुविद्धबुद्धिबोध्यत्वादवस्त्वास्पदत्वायोगात् तद्वदेव प्राणादिविकल्पानामपि नावस्त्वास्पदत्वं सिध्यतीत्यर्थः ।

यद्यधिष्ठानत्वं तुरीयस्येष्टं तर्हि वाच्यत्वमधिष्ठानत्वाद् घटादिवदिति प्रक्रमभङ्गः स्यादिति चोदयति –

एवं तर्हीति ।

किं प्रातिभासिकमधिष्ठानत्वं हेतूकृतं किं वा तात्त्विकम् । नाऽऽद्यः । तस्य तात्त्विकवाच्यत्वासाधकत्वात् । अतात्त्विके तु वाच्यत्वे प्रक्रमो न विरुध्येत ।

न द्वितीयः, शुक्त्यादिषु कल्पितरजतादेरवस्तुत्ववत् तुरीयेऽपि कल्पितप्रणादेरवस्तुत्वात् तत्प्रतियोगिकाधिष्ठानत्वस्य तात्त्विकत्वायोगादिति दूषयति –

न प्राणादीति ।

किं च वाच्यत्वे तुरीयस्य निरुच्यमाने तत्र शब्दप्रवृत्तौ निमित्तं वक्तव्यम् ।

तच्च षष्ठी वा रूढिर्वा जातिर्वा क्रिया वा गुणो वेति विकल्प्य प्रथमं प्रत्याह –

न हीति ।

तुरीयातिरिक्तस्यावस्तुत्वात् तस्य तुरीयस्य च वस्तुभूतसम्बन्धासिद्धेर्विषयाभावे कुतः षष्ठीत्यर्थः ।

द्वितीयं दूषयति –

नापीति ।

विशिष्टरूपेण विषयत्वेऽपि स्वरूपेण निरुपाधिकात्मना तदविषयत्वान्नात्र गवादाविव रूढिरवतरतीत्यर्थः ।

न तृतीयः, गवादाविवाद्वितीये तुरीये सामान्यविशेषभावस्याभिधातुमयोग्यत्वादिति मत्वाऽऽह –

गवादिवदिति ।

न चतुर्थः, पाचकादाविवाक्रिये तुरीये क्रियावत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –

नापि क्रियावत्त्वमिति ।

न पञ्चमः ।

उत्पलादौ नीलादिशब्दवन्निर्गुणे तुरीये गुणवत्त्वस्य शब्दप्रवृत्तिनिमित्तस्य वक्तुमयुक्तत्वादित्याह –

नापीति ।

तदेवं तुरीयस्य वाच्यत्वानुमानं शब्दप्रवृत्तिनिमित्तानुपलब्धिबाधितमिति फलितमाह –

अत इति ।

यदि तृरीयस्य नास्ति विशिष्टजात्यादिमत्त्वं तर्हि नरविषाणादिदृष्टेरिव तद् दृष्टेरपि निष्फलत्वम् ।

विशिष्टजात्यादिमतो राजादेरुपासनस्य फलवत्त्वोपलम्भादिति शङ्कते –

शशविषाणादीति ।

यथा शुक्तिरियमित्यवगमे रजतादिविषयतृष्णा व्यावर्तते, तथा तुरीयं ब्रह्माहमित्यात्मत्वेन तुरीयस्य साक्षात्कारे सत्यनात्मविषया तृष्णा व्यवच्छिद्यते ।

तदेवमात्मत्वेन तुरीयावगमस्य सर्वाकाङ्क्षानिवर्तकत्वादनर्थकत्वशङ्का न युक्तेति परिहरति –

नेत्यादिना ।

तुरीयस्याऽऽत्मत्वावगमे सति सर्वानर्थेहेतुतृष्णादिदोषनिवृत्तिलक्षणं फलमुक्तं विद्वदनुभवेन साधयति –

न हीति ।

ननु तुरीयमशेषविशेषशून्यं नाऽऽत्मत्वेनावगन्तुं शक्यते तद्धेत्वभावादिति, तत्राऽऽह –

न चेति ।

सर्वोपनिषदामित्युक्तमेवोदाहरणलेशेन दर्शयति –

तत्त्वमसीति ।

निषेधमुखेनैव तुरीयस्य प्रतिपादनं न विधिमुखेनेत्युपपाद्य वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति –

सोऽयमित्यादिना ।

बीजाङ्कुरस्थानीयं मिथो हेतुहेतुमद्भावेन व्यवस्थितमित्यर्थः । अबीजात्मकं कार्यकारणविनिर्मुक्तमिति ।

तत्र हेतुं सूचयति –

परमार्थेति ।

तस्य विधिमुखेन निर्देशानुपपत्तिं प्रागुक्तामभिप्रेत्याऽऽह –

सर्पादीति ।

किमुत्तरेण ग्रन्थेन तुरीयं प्रतिपाद्यते, किं वा तस्य स्थानत्रयवैलक्षण्यं विवक्ष्यते । प्रथमे प्रतिपादकस्य विधानाव्यतिरेकादन्यनिषेधानर्थक्यम् । द्वितीयेऽपि तदानर्थक्यमापद्येत ।

अनुक्त्यैवोक्तादन्यत्वसिद्धेरिति मन्वानः शङ्कते –

नन्विति ।

न तावत्तुरीयं विधिमुखेन बोध्यम् । तस्य स्वप्रकाशत्वात् तस्मिन् प्रकाशाद्यनुदयात् । तथापि समारोपितविश्वादिरूपेण प्रतिपन्नं तन्निषेधेन बोध्यते । तदनिषेधे तस्य यथावदप्रथनात् ।

अतो न निषेधानर्थक्यमिति परिहरति –

न, सर्पादीति ।

तुरीयस्य पादत्रयविलक्षणस्यार्थादेव सिद्धावपि जीवात्मनः स्थानत्रयविशिष्टस्य तुरीयं ब्रह्मस्वरूपमिति नोपदेशमन्तरेण सिद्ध्यतीति तुरीयग्रन्थोऽर्थवानित्यर्थः।

यथा विधिमुखेन प्रवृत्तेन तत्त्वमसीति वाक्येन स्थानत्रयसाक्षिणस्त्वंपदलक्ष्यस्य तत्पदक्ष्यब्रह्मता लक्षणया बोध्यते, तथा निषेधशास्त्रेणापि तात्पर्यवृत्त्या जीवस्य तुरीयब्रह्मत्वं प्रतिपादयितुं दृष्टान्तमाह –

तत्त्वमसीति ।

ननु स्थानत्रयविशिष्टस्याऽऽत्मनो नैव तुरीयात्मत्वं तुरीयग्रन्थेन प्रतिपाद्यते ।

तुरीयस्य विशिष्टाद्विलक्षणत्वेनात्यान्तभिन्नत्वात्, तत्राऽऽह –

यदि हीति ।

प्रातिभासिकवैलक्षण्येऽपि विशिष्टोपलक्ष्ययोरात्यन्तिकवैलक्षण्याभावान्न तात्त्विकं तुरीयस्य विशिष्टादन्यत्वम् । अन्यथाऽत्यन्तभिन्नयोर्मिथः संस्पर्शविरहिणोरुपायोपेयभावायोगात् तुरीयप्रतिपत्तौ विशिष्टस्य द्वारत्वाभावादन्यस्य च तत्प्रतिपत्तिद्वारस्यादर्शनात् तुरीयाप्रतिपत्तिरेव स्यादित्यर्थः ।

शास्त्रात् तत्प्रतिपत्तिः स्यादिति चेन्नेत्याह –

शास्त्रेति ।

तद् विशिष्टरूपमनूद्य विशेषणांशापोहेन तस्य तुरीयत्वमुपदिशति । भेदे चाऽऽत्यन्तिके तदानर्थक्यान्न शास्त्रात् तत्प्रतिपत्तिरित्यर्थः ।

मा तर्हि तुरीयप्रतिपत्तिर्भूदिति चेत्, तत्राऽऽह –

शून्येति ।

विशिष्टयैव प्रतिपत्त्या तुरीयस्याप्रतिपत्तौ प्रतिपन्नस्य विश्वादेर्विशिष्टस्य प्रत्युदस्तत्वादन्यस्य चाप्रतिपन्नत्वान्नैरात्म्यधीरेवाऽऽपद्येतेत्यर्थः । भेदपक्षश्चेद् यथोक्तदोषवशान्न सम्भवति, तर्हि मा भूत् ।

अभेदपक्षोऽपि कथं निर्वहतीति चेत्, तत्र किं फलं पर्यनुयुज्यते किं वा प्रमाणान्तरमथ वा साधनान्तरमिति विकल्प्याऽऽद्यं दूषयति –

रज्जुरिवेति ।

यथा रज्जुरधिष्ठानभूता सर्पधारादिभिर्विकल्प्यते तथैक एवाऽऽत्मा स्थानत्रयेऽपि यदाऽन्तःप्रज्ञत्वादिना विकल्प्यमानो बहुधा भासते तदा तदनुवादेनान्तःप्रज्ञत्वादिप्रतिषेधजनितं यत्प्रमाणरूपविज्ञानं तदुत्पत्तिसमानकालमेवाऽऽत्मन्यनर्थनिवृत्तिरूपं फलं सिद्धमिति न फलपर्यनुयोगोऽवकाशवानित्यर्थः ।

शब्दस्य संसृष्टपरोक्षज्ञानहेतोरसंसृष्टापरोक्षज्ञानहेतुत्वायोगात् तुरीयज्ञाने प्रमाणान्तरमेष्टव्यमिति पक्षं प्रत्याह –

तुरीयेति ।

तस्य हि साक्षात्कारे न शब्दातिरिक्तं प्रमाणमन्वेष्यम् । शब्दस्य विषयानुसारेण प्रमाहेतुत्वात् । विषयस्य तुरीयस्यासंसृष्टापरोक्षत्वादित्यर्थः ।

तुरीयसाक्षात्कारे प्रसंख्यानाख्यं साधनान्तरमेष्टव्यमिति पक्षं प्रतिक्षिपति –

साधनान्तरं वेति ।

प्रसंख्यानस्याप्रमाणत्वान्न प्रमारूपसाक्षात्कारं प्रति हेतुतेति भावः ।

यथा रज्जुरियं सर्पो नेति विवेकधीसमुदयदशायामेव रज्ज्वां सर्पनिवृत्तिफले सिद्धे रज्जुसाक्षात्कारस्य फलान्तरं प्रमाणान्तरं साधनान्तरं वा न मृग्यते क्लृप्तत्वात्तथेहापीत्याह –

रज्ज्विति ।

विषयगतं प्राकट्यं प्रमाणफलं नाध्यस्तनिवृत्तिरित्याशङ्क्याऽऽह –

योषामिति ।

स्वविषयाज्ञानापनयनाय प्रवृत्ता प्रमाणक्रिया स्वविषये भावरूपमतिशयमाधत्ते चेदपनयार्थक्रियात्वाविशेषाच्छिदिरपि च्छेद्यसंयोगापनयनातिरिक्तमतिशयमादध्यात् । न च संयोगविनाशातिरिक्ते विभागे सम्प्रतिपत्तिरस्ति । प्राकट्यस्य च प्रकाशत्वे ज्ञानवन्नार्थनिष्ठत्वमप्रकाशत्वे तेनार्थेन नार्थोऽस्तीति भावः ।

अज्ञाननिवर्तकमेव प्रमाणमिति पक्षे विषयस्फुरणे कारणाभावाद्विषयसंवेदनं न स्यादित्याशङ्क्याऽऽह –

यदेति ।

घटो हि तमसा समावृतो व्यवहारायोग्यस्तिष्ठति, तस्य तमसो निष्क्रम्य व्यवहारयोग्यत्वापादने प्रत्यक्षादिप्रमाणं प्रवर्तते । तच्चानुपादित्सितस्यानिष्टस्याप्रमेयस्य तमसो निवृत्तिलक्षणे यदा पर्यवस्यति तदा घटसंवेदनमार्थिकं प्रमाणफलं न भवति । यथा छिदिक्रिया छेद्यस्य तरोरवयवयोर्मिथः संयोगनिरसने प्रवृत्ता सती तयोरेव च्छेद्यावयवयोर्दैधीभावे फले पर्यवस्यति, न त्वन्यतरावयवेऽपि च्छिदिर्व्याप्रियते । तथेहापि तमोनिवृत्तौ प्रमाणं निर्वृणोति घटस्फुरणं त्वार्थिकम् । न च तस्य स्थायित्वमभिव्यञ्जकप्रमातृव्यापारस्यास्थिरत्वादित्यर्थः ।

किं च घटादेर्जडस्य संविदपेक्षत्वात् तत्र संविदो मानफलत्वेऽपि नाऽऽत्मन्यजडे संविदेकताने मानस्याऽऽरोपितधर्मनिवर्तकत्वमन्तरेण संविज्जनकत्वव्यापारः सम्भवतीत्याह –

न चेति ।

तुरीयात्मनि संवेदनजननव्यापारो न प्रमाणस्य प्रकल्प्यते । तस्य संविदात्मकत्वादारोपितनिवृत्तिव्यतिरेकेण मानजन्यफलसंविदनपेक्षत्वादित्युक्तम् ।

तत्रैव हेत्वन्तरमाह –

अन्तःप्रज्ञत्वादीति ।

आश्रयाभावेनाऽऽश्रितप्रमाणाभावादनन्तरक्षणे तस्य व्यापारानुपपत्तिरित्यत्र वाक्यशेषमनुकूलयति –

तथा चेति ।

किं च ज्ञानाधीनद्वैतनिवृत्त्यवच्छिन्नक्षणातिरेकेण न क्षणान्तरे ज्ञानं स्थातुं पारयति, न चास्थिरं ज्ञानं व्यापाराय पर्याप्तम् ।

तथा च ज्ञानस्य द्वैतनिवृत्तिव्यतिरेकेण नाऽऽत्मनि व्यापारोऽस्तीत्याह –

ज्ञानस्येति ।

ननु ज्ञानं द्वैतनिवर्तकमपि न स्वात्मानं निवर्तयति । निवर्त्यनिवर्तकभावस्यैकत्र विरोधात् ।

अतो यावन्निवर्तकं स्थास्यति, तत्राऽऽह –

अवस्थाने चेति ।

निवर्तकस्य ज्ञानस्य द्वैतनिवृत्तेरनन्तरमपि निवर्तकान्तरमपेक्ष्यावस्थाने च तस्य तस्य निवर्तकान्तरसव्यपेक्षत्वादाद्यस्यापि विज्ञानस्य निवर्तकत्वासिद्धिः । न च ज्ञानस्य स्वनिवर्तकत्वानुपपत्तिः स्वपरविरोधिनां भावानां बहुलमुपलम्भादित्यर्थः ।

ज्ञानस्य जन्मातिरिक्तव्यापाराभावात् तज्जन्मनश्च द्वैतनिषेधेनैवोपक्षयात् क्षणान्तरे विषयस्फुरणजननायानवस्थानादारोपितातद्धर्मनिवृत्त्यैव ज्ञानं पर्यवसितमित्युपसंहरति –

तस्मादिति ।

प्रतिषेधजनितं विज्ञानमेव प्रमाणम् । तस्य व्यापारो जन्मैव । तेन समानकालैवानर्थनिवृत्तिरिति योजना ।

तत्र हेतुमाह –

बीजभावेति ।

सुषुप्तं हि स्वप्नजागरिते प्रति बीजभावस्तस्याशेषविशेषविज्ञानाभावरूपत्वाद् विशेषविज्ञानानां सर्वेषां धनमेकं साधारणमविभक्तं सुषुप्तमिति तत्प्रतिषेधो नेत्यादिना सम्भवतीत्यर्थः । युक्तं सर्पादीनां रज्ज्वादौ भ्रान्तिप्रतिपन्नानां प्रतिषेधादसत्त्वम् ।

आत्मनि तु प्रमाणेन गम्यमानानामन्तःप्रज्ञत्वादीनां न प्रतिषेधो युज्यते मानविरोधादिति शङ्कते –

कथमिति ।

प्रामाणिकत्वस्यासिद्धत्वाद् युक्तमन्तःप्रज्ञत्वादिनामसत्यत्वमिति परिहरति –

उच्यत इति ।

विमतमसत्यं व्यभिचारित्वात् संप्रतिपन्नवदित्याह –

ज्ञस्वरूपेति ।

तस्याविशेषोऽव्यभिचारस्तत्र रज्ज्वादाविवेत्युदाहरणम् । अन्तः प्रज्ञत्वादीनामितरेतरव्यभिचारे निदर्शनं सर्पधारादीति ।

विमतं सत्यमव्यभिचारित्वाद्रज्ज्वादिवदित्याह –

सर्वत्रेति ।

तस्य च सत्यत्वे सर्वकल्पनाधिष्ठानत्वसिद्धिरिति भावः ।

अव्यभिचारित्वहेतोरसिद्धिं शङ्कते –

सुषुप्त इति ।

न तत्र चैतन्यस्य व्यभिचारः सुषुप्तस्य स्फुरणव्याप्ततया साधकस्फुरणस्यावश्यकत्वादित्याह –

न सुषुप्तस्येति ।

सुषुप्ते साधकस्फुरणस्य सत्त्वे प्रमाणमाह –

न हीति ।

निषेधशास्त्रालोचनया निर्विशेषत्वं तुरीयस्योक्तम्, तदेव हेतूकृत्य ज्ञानेन्द्रियाविषयत्वमाह –

अत एवेति ।

दृष्टस्यैवार्थक्रियादर्शनाददृष्टत्वादर्थक्रियाराहित्यमिति विशेषणान्तरमाह –

यस्मादिति ।

अदृष्टमित्यनेनाग्रह्यमित्यस्य पौनरुक्त्यं परिहरति –

कर्मेन्द्रियैरिति ।

अलक्षणमित्ययुक्तम् ‘सत्यं ज्ञानमनन्तम्’(तै. उ. २ । १ । १) इत्यादिलक्षणोपलम्भादित्याशङ्क्याऽऽह –

अलिङ्गमिति ।

‘को ह्येवान्यात् कः प्राण्यात्’(तै. उ. २ । ७ । १) इत्यादिलिङ्गोपन्यासविरुद्धमेतदित्याशङ्क्याऽऽह –

अननुमेयमिति ।

प्रत्यक्षानुमानाविषयत्वप्रयुक्तं विशेषणान्तरमाह –

अत एवेति ।

मनोविषयत्वाभावादेव शब्दाविषयत्वं, शब्दप्रवृत्तेस्तत्प्रवृत्तिपूर्वकत्वादित्याह –

अत एवेति ।

तर्हि यथोक्तं वस्तु नास्त्येव प्रमाणाभावादित्याशङ्क्याऽऽह –

एकात्मेति ।

परोक्षार्थविषयतया विशेषणं व्याख्यायापरोक्षार्थतयाऽपि व्याकरोति –

अथ वेति ।

अपरोक्षात्मप्रत्ययस्याऽऽत्मनि प्रमाणत्वे बृहदारण्यकश्रुतिमुदाहरति –

आत्मेत्येवेति ।

‘यच्चाप्नोति’ इत्यादिना परिपूर्णत्वादिलक्षणस्तावदात्मोक्तः । स च वाङ्मनसातीतः श्रुतिभ्योऽवगतस्तमेवैकरसं परमात्मानं प्रत्यक्त्वेन गृहीत्वा तन्निष्ठस्तिष्ठतीत्यात्मनोऽवस्थात्रयातीतस्य तुरीयस्यापरोक्षनित्यदृष्टित्वं श्रुतितो दृष्टमित्यर्थः ।

विशेषणान्तरस्य पुनरुक्तिं परिहरन्नर्थभेदमाह –

अन्तरिति ।

स्थानिधर्मस्य स्थानधर्मस्य च प्रतिषेधोऽन्तःशब्देन परामृश्यते । शान्तं रागद्वेषादिरहितमविक्रियं कूटस्थमित्यर्थः । शिवं परिशुद्धं परमानन्दबोधरूपमिति यावत् ।

यस्माद् द्वैताभावोपलक्षितं तस्माच्चतुर्थमित्याह–

यत इति ।

अद्वैतमित्येतद् व्याचष्टे –

भेदेति ।

सङ्ख्याविशेषविषयत्वाभावे कथं चतुर्थत्वमित्याशङ्क्याऽऽह –

प्रतीयमानेति ।

चतुर्थतुरीययोर्व्याख्यानव्याख्येयत्वेनापौनरुक्त्यम् ।

तस्योक्तविशेषणत्वेऽपि मम किमायातमित्याशङ्क्याऽऽह –

स आत्मेति ।

आत्मनि यथोक्तविशेषणानि न प्रतिभान्तीत्याशङ्क्याऽऽह –

स विज्ञेय इति।

तदेव व्याचष्टे –

प्रतीयमानेति।

‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्’(बृ. उ. ४ । ३ । २३) इत्यादिवाक्यानि प्रतीकोपादानेन दर्शयति –

न हि द्रष्टुरिति ।

आत्मन्यव्यवहार्ये कुतो विज्ञेयत्वमित्याशङ्क्य भूतपूर्वमविद्यावस्थायां या ज्ञेयत्वाख्याऽवगतिस्तयेदानीमपि विज्ञेयत्वमुक्तमित्याह –

भूतेति ।

विद्यावस्थायामेव किमिति ज्ञातृज्ञानज्ञेयविभागो न भवति, तत्राऽऽह –

ज्ञात इति ।

ज्ञानेन तत्कारणस्याज्ञानस्यापनीतत्वादित्यर्थः ॥७॥