यथा तथा वाऽस्तु सृष्टिस्तस्यास्तु किं प्रयोजनमित्यत्र विकल्पद्वयमाह –
भोगार्थमिति ।
सिद्धान्तमाह –
देवस्येति ।
कः स्वभावो नामेत्युक्ते नैसर्गिकोऽपरोक्षो मायाशब्दार्थस्तस्येत्याह –
अयमिति ।
सर्वपक्षाणामपवादं सूचयति –
आप्तेति ।
देवस्य परमेश्वरस्य स्वभावः सृष्टिरिति स्वभावपक्षं नैसर्गिकमायाविनिर्मिता सृष्टिरिति मतं सिद्धान्तत्वेनाऽऽश्रित्य चतुर्थपादेन दूषणमुच्यते पक्षयोरनयोरिति योज्यम्। ईश्वरस्येश्वरत्वख्यापनं सृष्टिरित्येकः पक्षः । स्वप्नसरूपा मायासरूपा वा सृष्टिरिति पक्षद्वयमीश्वरस्य सत्यसङ्कल्पस्य सृष्टिरिति पक्षान्तरम् । कालादेव जगतः सृष्टिर्नेश्वरात् । ईश्वरस्तूदासीनः । तत्र विकल्पान्तरं भोगार्थं क्रीडार्थं वा सृष्टिरिति फलगतं च विकल्पद्वयम् ।
तेषामेतेषां सर्वेषामेव पक्षाणां दूषणं चतुर्थपादेनोक्तमिति पक्षान्तरमाह –
सर्वेषामिति ।
नो खल्वाप्तकामस्य परस्याऽऽत्मनो मायां विना विभूतिख्यापनमुपयुज्यते । न च स्वप्नमायाभ्यां सारूप्यमन्तरेण स्वप्नमायासृष्टिरेष्टुं शक्यते । अवस्तुनोरेव तयोस्तच्छब्दप्रयोगात् । न च परमानन्दस्वभावस्य परस्य विना मायामिच्छा सङ्गच्छते । न हि तस्य स्वतोऽविक्रियस्येच्छादिभाक्त्वं युक्तम् । न च मायामन्तरेण भोगक्रीडे तस्योपपद्येते । ततो मायामयी भगवः सृष्टिरित्यर्थः ।
यदुक्तं कालात्प्रसूतिं भूतानामिति तत्राऽऽह –
न हीति ।
अधिष्ठानभूतरज्ज्वादीनां स्वभावशब्दितस्वाज्ञानादेव सर्पाद्याभासत्वं तथा परस्य स्वमायाशक्तिवशादाकाशाद्याभासत्वम्। ‘आत्मन आकाशः संभूत’(तै. उ. २ । १। १) इत्यादिश्रुतेः । न तु कालस्य भूतकारणत्वं प्रमाणाभावादित्यर्थः ॥९॥