प्राज्ञस्य कारणबद्धत्वं साधयति –
नाऽऽत्मानमिति ।
तुरीयस्य कार्यकारणाभ्यामसंस्पृष्टत्वं स्पष्टयति –
तुर्यमिति ।
श्लोकव्यावर्त्यामाशङ्कामाह –
कथमिति ।
वाशब्दात् कथमित्यस्यानुवृत्तिः सूच्यते ।
प्रथमचोद्योत्तरत्वेन पादत्रयं व्याचष्टे –
यस्मादिति ।
विलक्षणमनात्मानमिति यावत् । अनृतमित्यस्य व्याख्यानमविद्याबीजप्रसूतमिति । द्वैतं द्वितीयमसत्यमित्यर्थः ।
वैधम्योदाहरणम् –
यथेति ।
प्राज्ञस्य विभागविज्ञानाभावे फलमाह –
ततश्चेति ।
यथोक्ते तमसि कार्यलिङ्गमनुमानं सूचयति –
अन्यथेति ।
द्वितीयं चोद्यं चतुर्थपादव्याख्यानेन प्रत्याख्याति –
यस्मादित्यादिना ।
सदैव तुरीयादन्यस्याभावात् तुरीयमेव सर्वं तच्च सदा दृग्रूपमिति यस्मात् तस्मादिति योजना । तत्रेति परिपूर्णं चिदेकतानं तुरीयं परामृश्यते ।
अत एवेति ।
कारणाभावे कार्यानुपपत्तेरित्यर्थः ।
तुरीये तत्त्वाग्रहणान्यथाग्रहणयोरसम्भवं दृष्टान्तेन साधयति –
न हीति ।
यत्तु तुरीयस्य सदा दृगात्मत्वमुक्तं तत्र प्रमाणमाह –
न हि द्रष्टुरिति ।
चतुर्थपादं प्रकारान्तरेण योजयति –
अथ वेति ।
तत्रापि श्रुतिमनुकूलयति –
नान्यदिति ॥१२॥