कदा तत्त्वप्रतिबोधो विपर्यासक्षयहेतुर्भवतीत्यपेक्षायामाह –
अनादीति ।
प्रतिबुद्ध्यमानं तत्त्वमेव विशिनष्टि –
अजमिति ।
जीवशब्दवाच्यमर्थं निर्दिशति –
योऽयमिति ।
परमात्मैव जीवभावमापन्नः संसरतीत्यर्थः ।
तस्य कथं जीवभावापत्तिरित्याशङ्क्य कार्यकरणबद्धत्वादित्याह –
स इति ।
परमात्मोभयलक्षणेन स्वापेन सुप्तो जीवो भवतीत्यन्वयः।
स्वापस्योभयलक्षणत्वमेव प्रकटयति –
तत्त्वेत्यादिना ।
मायालक्षणेनेत्युभयत्र सम्बध्यते ।
सुप्तमेव व्यनक्ति –
ममेत्यादिना ।
स्वापपरिगृहीतस्यैव प्रतिबोधनावकाशो भवतीत्याह –
यदेति ।
यदा सुषुप्तस्तदा बुध्यत इति शेषः ।
प्रतिबोधकं विशिनष्टि –
वेदान्तार्थेति ।
कथं प्रतिबोधनं, तदाह –
नासीति ।
अनुभूयमानत्वमेवमित्युच्यते । यदोक्तविशेषणेन गुरुणा प्रतिबोध्यमानः शिष्यस्तदाऽसावेवं वक्ष्यमाणप्रकारेण प्रतिबुद्धो भवतीत्युक्तम् ।
तमेव प्रकारं प्रश्नपूर्वकं द्वितीयार्धव्याख्यानेन विशदयति –
कथमित्यादिना ।
अस्मिन्निति सप्तम्या बोध्यात्मरूपं परामृश्यते । बाह्यं कार्यमान्तरं कारणं तच्चोभयमिह नास्ति । ततो जन्मादेर्भावविकारस्य नात्रावकाशः सम्भवतीत्यर्थः ।
अवतारितं विशेषणं सप्रमाणं योजयति –
सबाह्येति ।
अजत्वादेवानिद्रं कार्याभावे कारणस्य प्रमाणाभावेन वक्तुमशक्यत्वादिति मत्वाऽऽह –
यस्मादिति ।
अनिद्रत्वं हेतुं कृत्वा विशेषणान्तरं दर्शयति –
अत एवेति ।
अग्रहणान्यथाग्रहणसम्बन्धवैधुर्यं हेतुं कृत्वा विशेषणद्वयमित्याह –
यस्माच्चेति ।
तत्त्वमेवंलक्षणमस्तु, आत्मनः किमायातमित्याशङ्क्याऽऽह –
??
तदा विशिष्टेनाऽऽचार्येण विशिष्टं शिष्यं प्रति बोधनावस्थायामित्यर्थः ॥१६॥