कदा तर्हि स्वप्नो भवतीत्यपेक्षायामाह –
अन्यथेति ।
निद्रा तर्हि कदेति सन्दिहानं प्रत्याह –
निद्रेति ।
तुरीयप्रतिपत्तिसमयं सङ्गिरते –
विपर्यास इति ।
श्लोकव्यावर्त्यामाकाङ्क्षां दर्शयति –
कदेति ।
कदा स्वप्ननिष्ठो भवति, कदा निद्रानिष्ठः स्यादित्यपि द्रष्टव्यम् ।
प्रश्नत्रयस्योत्तरं श्लोकेन दर्शयति –
उच्यत इति ।
तत्र कदा स्वप्नो भवतीति प्रश्नं परिहरति –
स्वप्नेति ।
अवस्थाद्वये स्वप्नद्रष्टुरित्यर्थः ।
द्वितीयं प्रश्नं समाधत्ते –
निद्रेति।
विश्वादिषु त्रिषु तयोरिति द्विवचनं कथमित्याशङ्क्याऽऽह –
स्वप्ननिद्रयोरिति ।
विश्वतैजसावेको राशिः । प्राज्ञो द्वितीयः । ततः श्लोके द्विवचनमविरुद्धमित्यर्थः ।
प्रथमे राशौ विपर्यासस्वरूपं कथयति –
अन्यथेति ।
द्वितीये राशौ विपर्यासविशेषं दर्शयति –
तृतीये त्विति ।
द्वितीयार्धगतान्यक्षराणि व्याकरोति –
अत इति ।
द्विवचनस्योपपन्नत्वाद् विपर्यासस्य च विभागेन निर्धारितत्वादित्यर्थः ।
तृतीयं प्रश्नं प्रतिविधत्ते –
तदेति ।
तत्त्वप्रबोधाद्विपर्यासक्षयावस्थायामित्यर्थः ॥१५॥