प्रकारान्तरेणाद्वैतानुपपत्तिमाशङ्क्य परिहरति –
विकल्प इति ।
यदि केनचिद्धेतुना तत्त्वज्ञानेन कार्येण शास्त्रादिविकल्पो हेतुतया विकल्पितस्तथाऽप्यसौ बाधितो निवर्तेत, न तु तात्त्विकमद्वैतं विरोद्धुमर्हति । तत्त्वज्ञानात्प्रागवस्थायामेव तत्त्वोपदेशं निमित्तीकृत्य यतः शास्त्रादिभेदोऽनूद्यते, उपदेशप्रयुक्ते तु ज्ञाने निवृत्ते न किञ्चिदपि द्वैतमस्तीत्यद्वैतविरुद्धमित्यर्थः ।
श्लोकव्यावर्त्यामाशङ्कामाह –
नन्विति ।
तदनिवृत्तौ नाद्वैतसिद्धिर्न च शास्त्रादिभेदस्य कल्पितत्वादविरोधः, तथा सति धूमाभासवत्तत्त्वज्ञानहेतुत्वानुपपत्तिरित्यर्थः ।
धूमाभासस्याव्याप्तस्यातद्धेतुत्वेऽपि कल्पितस्य शास्त्रादेस्तत्त्वज्ञानहेतुत्वं प्रतिबिम्बादिवदुपपन्नमित्युत्तरमाह –
उच्यत इति ।
शिष्यः शास्ता शास्त्रमित्ययं विकल्पो विभागः, सोऽपि निवृत्तिप्रतियोगित्वादवस्तुत्वाज्ञानबाध्यत्वादद्वैताविरोधीत्यर्थः ।
शिष्यादिविभागस्य कल्पितत्वं दृष्टान्तेन स्पष्टयति –
यथेति ।
मायाविना प्रयुक्ता माया यथा कल्पितेष्यते यथा च सर्पधारादिर्विकल्पितस्तथाऽयं प्रपञ्चः सर्वोऽपि कल्पितो वस्तु न भवतीति प्रपञ्चितम् । तथैव प्रपञ्चैकदेशः शिष्यादिरपि ज्ञानात्पाक्कल्पितः सन्नज्ञानकृतो मिथ्येत्यर्थः ।
किमिति ज्ञानात्पूर्वमसौ कल्प्यते, तत्राऽऽह –
उपदेशेति ।
उपदेशमुद्दिश्य यथोक्तविभागवचनमित्युक्तमुपसंहरति –
अत इति।
उपदेशात्प्रागिव तस्मादूर्ध्वमपि भेदोऽनुवर्ततामित्याशङ्क्य विरोधिसद्भावान्मैवमित्याह –
उपदेशेति ॥१८॥