तत्त्वज्ञानसमर्थानां मध्यमानामुत्तमानां चाधिकारिणामध्यारोपापवादाभ्यां पारमार्थिकं तत्त्वमुपदिष्टम् । इदानीं तत्त्वग्रहणासमर्थानामधमाधिकारिणामाध्यानविधानायाऽऽरोपदृष्टिमेवावष्टभ्य व्याचष्टे –
अभिधेयेत्यादिना ।
अध्यक्षरमित्येतद् व्याकरोति –
अक्षरमिति ।
अध्यक्षरमित्यत्र किं पुनस्तदक्षरमिति प्रश्नपूर्वकं व्युत्पादयति –
किं पुनरित्यादिना ।
तस्य विशेषणान्तरं दर्शयति –
सोऽयमिति ।
आत्मा हि पादशो विभाज्यते; मात्रामधिकृत्य पुनरोङ्कारो व्यवतिष्ठते, तत्कथं पादशो विभज्यमानस्याधिमात्रत्वमिति पृच्छति –
कथमिति ।
पादानां मात्राणां चैकत्वादेतदविरुद्धमित्याह –
आत्मन इति ॥८॥