पादानां मात्राणां च मध्ये विश्वाख्यविशेषस्याकाराख्यविशेषत्वं निगमयति –
तत्रेति ।
विश्वाकारयोरेकत्वं सादृश्ये सत्यारोपयितुं शक्यमन्यत्र सत्येव तस्मिन्नारोपसंदर्शनात्, तथा च किं तदारोपप्रयोजकं सादृश्यमिति पृच्छति –
केनेति ।
सामान्योपन्यासपरां श्रुतिमवतारयति –
आहेति ।
व्याप्तिमेवाकारस्य श्रुत्युपन्यासेन व्यनक्ति –
अकारेणेति ।
अध्यात्माधिदैविकयोरेकत्वं पूर्वमुक्तमुपेत्य विश्वस्य वैश्वानरस्य जगद्व्याप्तिं श्रुत्यवष्टम्भेन स्पष्टयति –
तथेति ।
किं च सामान्यद्वारा वाच्यवाचकयोरेकत्वमारोप्यं न भवति, तयोरेकत्वस्य प्रागेवोक्तत्वादित्याह –
अभिधानेति ।
सामान्यान्तरमाह –
आदिरिति ।
तदेव स्फुटयति –
यथैवेति ।
उकारो मकारश्चेत्युभयमपेक्ष्य प्रथमपाठादादिमत्त्वमकारस्य द्रष्टव्यम् । विश्वस्य पुनरादिमत्त्वं तैजसप्राज्ञावपेक्ष्याऽऽद्यस्थाने वर्तमानत्वादित्यर्थः ।
उक्तस्य सामन्यान्तरस्य फलं दर्शयति –
तस्मादिति ।
किमर्थमित्थं सामान्यद्वारा तयोरेकत्वमुच्यते ? तद्विज्ञानस्य फलवत्त्वादित्याह –
तदेकत्वेति ।
सादृश्यविकल्पादेव फलविकल्पः ॥९॥