द्वितीयपादस्य द्वितीयमात्रायाश्चैकत्वारोपप्रयोजकद्वयं श्रुत्युक्तं व्यनक्ति –
तैजसस्येति ।
स्फुटमिति क्रियाविशेषणम् ।
तथाविधमित्यस्यार्थं स्फुटमित्याह –
स्फुटमेवेति ।
उत्वविज्ञान इत्यस्य व्याख्यानं मात्रासम्प्रतिपत्ताविति ।
तस्य व्याख्यानं सर्वमित्युच्यते, तत्पूर्ववद् द्रष्टव्यमित्युच्यते –
पूर्ववदिति ॥२०॥