माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।
मात्रासम्प्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥
अत्र एते श्लोका भवन्ति । विश्वस्य अत्वम् अकारमात्रत्वं यदा विवक्ष्यते, तदा आदित्वसामान्यम् उक्तन्यायेन उत्कटम् उद्भूतं दृश्यत इत्यर्थः । अत्वविवक्षायामित्यस्य व्याख्यानम् — मात्रासम्प्रतिपत्तौ इति । विश्वस्य अकारमात्रत्वं यदा सम्प्रतिपद्यते इत्यर्थः । आप्तिसामान्यमेव च, उत्कटमित्यनुवर्तते, च - शब्दात् ॥

प्रथमपादस्य प्रथममात्रायाश्चाभेदारोपार्थमुक्तं सामान्यद्वयं विशदयति –

विश्वस्येति ।

उक्तन्यायेनाऽऽदिरस्येत्यादाविति शेषः ।

पुनरुक्तिपरिहारद्वारा विवक्षितमर्थमाह –

अत्वेति ।

अनुवृत्तिद्योतकं दर्शयति –

चशब्दादिति ॥१९॥