विश्वादीनामकारादीनां च यत्तुल्यं सामान्यमुक्तं तद्विज्ञानं स्तौति –
त्रिष्विति ।
यथोक्तस्थानत्रयं जगरितं स्वप्नः सुषुप्तं चेति त्रितयं, तुल्यं पादानां मात्राणां चेति शेषः । उक्तं सामान्यमाप्तिरुक्तर्षो मितिरित्यादि ।
महामुनिरित्यस्यार्थमाह –
ब्रह्मविदिति ॥२२॥