पूर्वोक्तसामान्यज्ञानवतो ध्याननिष्ठस्य फलविभागं दर्शयति –
अकार इति ।
यत्र तु पादानां मात्राणां च विभागो नास्ति तस्मिन्नोङ्कारे तुरीयात्मनि व्यवस्थितस्य प्राप्तृप्राप्तव्यप्राप्तिविभागो नास्तीत्याह –
नामात्र इति ।
ओङ्कारध्यायिनमकारो विश्वं प्रापयतीत्युक्तमयुक्तम् । विश्वप्राप्तेर्ध्यानमन्तरेण सिद्धत्वात् ।
अकारस्य चाध्येयस्योक्तफलप्रापकत्वायोगदित्याशङ्क्याऽऽह –
अकारेति ।
तदालम्बनं तत्प्रधानमिति यावत् ।
अकारप्रधानमोङ्कारं धायतो यथा वैश्वानरप्राप्तिस्तथोकारप्रधानं तमेव ध्यायतस्तैजसहिरण्यगर्भप्राप्तिर्भवतीत्याह –
यथेति ।
यश्च मकारप्रधानमोङ्कारं ध्यायति तस्य प्राज्ञाव्याकृतप्राप्तिर्युक्तेत्याह –
मकारश्चेति ।
क्रियापदानुवृत्तिरुभयत्र विवक्षिता ।
चतुर्थपादं व्याचष्टे –
क्षीणे त्विति ।
स्थूलप्रपञ्चो जागरितं विश्वश्चेत्येतत्त्रितयमकारमात्रं, सूक्ष्मप्रपञ्चः स्वप्नस्तैजसश्चैतत्त्रितयमुकारमात्रं, प्रपञ्चद्वयकारणं सुषुप्तं प्राज्ञश्चेत्येतत्त्रितयं मकारमात्रम् । तत्रापि पूर्वं पूर्वमुत्तरोत्तरभावमापद्यते । तदेतं सर्वमोङ्कारमात्रमिति ध्यात्वा स्थितस्य यदेतावन्तं कालमोमितिरूपेण प्रतिपन्नं तत्परिशुद्धं ब्रह्मैवेत्याचार्योपदेशसमुत्थसम्यग्ज्ञानेन पूर्वोक्तसर्वविभागनिमित्ताज्ञानस्य मकारत्वेन गृहीतस्य क्षये ब्रह्मण्येव शुद्धे पर्यवसितस्य न क्वचिद् गतिरुपपद्यते परिच्छेदाभावादित्यर्थः ॥२३॥