प्रणवानुसन्धानकुशलस्य प्रणवज्ञानेनैव सर्वद्वैतापवादकेन कृतार्थता भवतीत्युक्तम् । इदानीं तदनभिज्ञस्य परोपदेशमात्रशरणस्य ध्यानकर्तव्यतां कथयति –
युञ्जीतेति ।
ननु मनःसमाधानं ब्रह्मणि कर्तव्यम्; किमिति प्रणवे तत्कर्तव्यतोच्यते, तत्राऽऽह –
प्रणव इति ।
सम्प्रति प्रणवे समाहितचित्तस्य फलं दर्शयति –
प्रणवे नित्येति ।
समाधानविषयमाह –
यथेति ।
तुरीयरूपं यथेत्युच्यते ।
तत्र हेतुमाह –
यस्मादिति ।
तदेव साधयति –
न हीति ।
तत्र तैत्तिरीयकश्रुत्यानुकूल्यमाह –
विद्वानिति ॥२५॥