यथा पूर्वमाचार्येण श्रुत्यर्थप्रकाशकाः श्लोकाः प्रणीतास्तथोत्तरेऽपि श्लोकाः श्रुत्युक्तेऽर्थ एव सम्भवन्तीत्याह –
पूर्ववदिति ।
ओङ्कारस्य पादशो विद्या कीदृशीत्याशङ्क्याऽऽह –
पादा इति ।
पादानां मात्राणां चान्योन्यमेकत्वं कृत्वा तद्विभागविधुरमोङ्कारं ब्रह्मबुद्ध्या ध्यायतो भवति कृतार्थेतेति दर्शयति –
ओङ्कारमिति ।
तस्मात् पादानां मात्राणां चान्योन्यमेकत्वादित्यर्थः ।
तदेकत्वं पुरस्कृत्योङ्कारमुभयविभागशून्यं ब्रह्मबुद्ध्या जानीयादित्याह –
ओङ्कारमिति ।
उत्तरार्धस्य तात्पर्यमाह –
एवमिति ॥२४॥