ओङ्कारं तुरीयभावमापन्नं यः प्रतिपन्नस्तं स्तौति –
अमात्र इति ।
यथोक्तप्रणवप्रतिपत्तिविहीनस्तु जननमरणमात्रभागी न पुरुषार्थभाग् भवतीति विद्यारहितं निन्दिति –
नेतर इति ।
पादविभागस्य मात्राविभागस्य चाभावादोङ्कारस्तुरीयः सन्नमात्रो भवतीत्याह –
अमात्र इति ।
ननु कथमनन्ता परिच्छित्तिरोङ्कारस्य तुरीयस्योच्यते ।
न हि तत्र परिच्छित्तिरेवास्तीत्याशङ्क्याऽऽह –
नैतावत्त्वमिति ।
अनर्थात्मकद्वैतसंस्पर्शाभावादप्रतिबन्धेन परमानन्दत्वं तस्मिन्नाविर्भवतीत्यभिप्रेत्याऽऽह –
सर्वेति ।
यथाव्याख्यातः पूर्वार्धेनोक्तविशेषणवानित्यर्थः ।
ननु यथोक्तप्रणवपरिज्ञानरहितस्यापि शास्त्रपरिज्ञानवत्त्वान्न जन्मोपलक्षितसंसारभाक्त्वेन पुरुषार्थासिद्धिः । मैवम् । शास्त्रविदोऽपि तत्त्वज्ञानाभावे मुख्यपुरुषार्थसिद्धि[द्धे]रित्याभिप्रेत्याऽऽह –
नेतर इति ।
तदेवं प्रणवद्वारेण निरुपाधिकमात्मानमनुसन्दधानस्य पुरुषार्थपरिसमाप्तिर्नेतरेषां बहिर्मुखाणामिति स्थितम् ॥२९॥