माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् ।
सर्वव्यापिनमोङ्कारं मत्वा धीरो न शोचति ॥ २८ ॥
सर्वस्य प्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितमीश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवत् ओङ्कारमात्मानमसंसारिणं धीरः धीमान्बुद्धिमान् आत्मतत्त्वं मत्वा ज्ञात्वा न शोचति, शोकनिमित्तानुपपत्तेः, ‘तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) इत्यादिश्रुतिभ्यः ॥

ब्रह्मबुद्ध्या प्रणवमभिध्यायतो हृदयाख्यं देशमुपदिशति –

प्रणवमिति ।

परमार्थदर्शिनस्तु देशाद्यनवच्छिन्नवस्तुदर्शनादार्थिकं शोकाभावं ‘तत्र को मोहः कः शोक’ (ई. उ. ७) इत्यादिश्रुतिसिद्धमनुवदति –

सर्वव्यापिनमिति ।

हृदयदेशे प्रणवभूतस्य ब्रह्मणो ध्येयत्वे हेतुं सूचयति –

स्मृतिप्रत्ययेति ।

बुद्धिमानिति विवेकित्वमुच्यते। मत्वेति साक्षात्कारसम्पत्तिर्विवक्ष्यते ।

विवेकद्वारा तत्त्वसाक्षात्कारे सति शोकनिवृत्तौ हेतुमाह –

शोकेति ।

तस्य हि निमित्तमात्माज्ञानम् ।

तस्याऽऽत्मसाक्षात्कारतो निवृत्तौ शोकानुपपत्तिरित्यत्र प्रमाणमाह –

तरतीति ।

आदिशब्देन ‘भिद्यते हृदयग्रन्थिः’ (मु. उ. २ । २ । ९) इत्यादिश्रुतिर्गृह्यते ॥२८॥